भक्त्या मामभिजानाति...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.५५ भक्त्या मामभिजानाति इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ ५५ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चपञ्चाशत्तमः(५५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

भक्त्या माम् अभिजानाति यावान् यः च अस्मि तत्त्वतः ततः मां तत्त्वतः ज्ञात्वा विशते तदनन्तरम् ॥

अन्वयः[सम्पादयतु]

भक्त्या तत्त्वतः यावान् यः च अस्मि (तादृशं) माम् अभिजानाति ततः मां तत्त्वतः ज्ञात्वा तदनन्तरं विशते ।

शब्दार्थः[सम्पादयतु]

भक्त्या = भक्तियोगेन
तत्त्वतः = परमार्थतः
यावान् = यादृशपरिमाणविशिष्टः
यः च अस्मि = यादृक्स्वरूपविशिष्टः च अस्मि
अभिजानाति = सम्यक् वेत्ति
तत्त्वतः = वस्तुतः
विशते = प्रविशति ।

अर्थः[सम्पादयतु]

सः भक्त्या प्रथमं सर्वत्र व्याप्तं सच्चिदानन्दस्वरूपं च मां जानाति ततः मामेव प्रविशति अर्थात् मय्येव लीनो भवति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भक्त्या_मामभिजानाति...&oldid=418692" इत्यस्माद् प्रतिप्राप्तम्