तमेव शरणं गच्छ...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.६२ तमेव शरणं गच्छ इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्विषष्टितमः(६२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तम् एव शरणं गच्छ सर्वभावेन भारत तत् प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥

अन्वयः[सम्पादयतु]

भारत ! सर्वभावेन तम् एव शरणं गच्छ । तत्प्रसादात् परां शान्तिं शाश्वतं स्थानं प्राप्स्यसि ।

शब्दार्थः[सम्पादयतु]

सर्वभावेन = सर्वात्मना
शरणम् = आश्रयम्
गच्छ = प्राप्नुहि
तत्प्रसादात् = ईश्वरानुग्रहात् ।

अर्थः[सम्पादयतु]

अर्जुन ! तस्मात् त्वं सर्वात्मना तमेव ईश्वरं शरणं गच्छ, यस्यानुग्रहात् परमां शान्तिं प्राप्नुवन् शाश्वतं स्थानम् अवाप्स्यसि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तमेव_शरणं_गच्छ...&oldid=418571" इत्यस्माद् प्रतिप्राप्तम्