य इदं परमं गुह्यं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.६८ य इमं परमं गुह्यं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ६८ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टषष्टितमः(६८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

य इदं परमं गुह्यं मद्भक्तेषु अभिधास्यति भक्तिं मयि परां कृत्वा माम् एव एष्यति असंशयः ॥ ६८ ॥

अन्वयः[सम्पादयतु]

यः परमं गुह्यम् इदं मद्भक्तेषु अभिधास्यति सः मयि परां भक्तिं कृत्वा माम् एव एष्यति । असंशयः ।

शब्दार्थः[सम्पादयतु]

गुह्यम् = रहस्यम्
मद्भक्तेषु = मदाराधकेषु
अभिधास्यति = वदिष्यति
असंशयः = न सन्देहः ।

अर्थः[सम्पादयतु]

यः पुरुषः प्रकृष्टं रहस्यम् इदं मदाराधकेषु वदिष्यति सः मयि परमेश्वरे श्रद्धां कुर्वन् माम् एव अधिगच्छति । अत्र सन्देहः नास्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=य_इदं_परमं_गुह्यं...&oldid=418731" इत्यस्माद् प्रतिप्राप्तम्