राजन्संस्मृत्य संस्मृत्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.७६ राजन्संस्मृत्य संस्मृत्य इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षट्सप्ततितम(७६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुम् केशवार्जुनयोः पुण्यं हृष्यामि च मुहुः मुहुः ॥

अन्वयः[सम्पादयतु]

राजन् ! अद्भुतं पुण्यं केशवार्जुनयोः इमं संवादं संस्मृत्य संस्मृत्य मुहुः मुहुः च हृष्यामि ।

शब्दार्थः[सम्पादयतु]

अद्भुतम् = आश्चर्यम्

पुण्यम् = पापहरम्
केशवार्जुनयोः = कृष्णार्जुनयोः
संवादम् = संलापम्
संस्मृत्य संस्मृत्य = पुनः पुनः स्मृत्वा
मुहुः मुहुः = भूयो भूयः
हृष्यामि = तुष्यामि ।

अर्थः[सम्पादयतु]

राजन्, धृतराष्ट्र ! आश्चर्यं पापहरं कृष्णार्जुनयोः एनम् संलापं पुनः पुनः स्मृत्वा भूयो भूयः च तुष्यामि।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]