१९०२

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१९०२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे आर्चिबाल्ड् गेराड् नामकः विज्ञानी "फ्रोटीन्" इत्येतेषां निर्माणार्थं सूचनाः वंशावाहिषु एव भवन्ति इति संशोधितवान् ।
अस्मिन् वर्षे रक्तसमूहानां शोधकः कार्ल् लाण्ड्स्टैनर् "पोलियो"रोगस्य कारणीभूताः सूक्ष्मजीविनः "वैरस्" नामकः एव इति प्रत्यपादयत् ।
अस्मिन् वर्षे बेलिस् तथा स्टार्लिङ्ग् नामकौ प्रथमं "हार्मोन् सिक्रिटिन्" इत्येतत् संशोधितवन्तौ । अनेन "एण्डोक्रैनालजि" नामकः विभागः आरब्धः ।
अस्मिन् वर्षे इङ्ग्लीष्-विज्ञानी सर् रोनाल्ड् रास् नामकः "मलेरियारोगाणवः मशकाणां द्वारा प्रसरन्ति" इत्येतस्य संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
अस्मिन् वर्षे आनुवंशिकविज्ञानी विलियं बेट्सन् नामकः ग्रिगोर् जान् मेण्डेल् इत्यस्य नियमान् सस्येषु प्राणिषु च अन्वितवान् ।
अस्मिन् वर्षे भारतस्य कर्णाटकराज्यस्य मण्डमण्डले "शिवनसमुद्र" नामके स्थाने एशियाखण्डे ऐदम्प्राथम्येन विद्युदागारः आरब्धः ।
अस्मिन् वर्षे प्रसिद्धेन जीवविज्ञानिना जगदीशचन्द्रबोसेन सस्यजीवनस्य विषये स्वेन कृतान् प्रयोगान्, तेषां प्रयोगाणां फलं चापि योजयित्वा लिखितं "जीविनां निर्जीविनां च प्रतिक्रिया” (The Reaction of Living & Nonliving) नामकं पुस्तकं प्रकाशितम् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे भारतदेशस्स्य मैसूरुसंस्थानस्य महाराजेषु अन्यतमः चतुर्थः कृष्णराज ओडेयर् जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे जून्-मासस्य १६ दिनाङ्के प्रसिद्धा महिला आनुवंशिकशास्त्रस्य विज्ञानिनी बार्बर मेक्लिन्टाक् अमेरिकादेशे जन्म प्राप्नोत्

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे अक्टोबरमासस्य ११दिनाङ्के बिहारराज्यस्य सितबदियारग्रामे भारतस्य स्वातन्त्र्ययोद्धा, समाजसेवकः, भारतरत्नविभूषितः जयप्रकाशनारायणः जन्म प्राप्नोत् ।
अस्मिन् वर्षे डिसेम्बर्-मासस्य ३० तमे दिनाङ्के महान् भाषाविद्, प्रख्यातविद्वान्‌ , राजनीतिकनेता आचार्यः रघुवीरः जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

अस्मिन् वर्षे भारतदेशस्स्य मैसूरुसंस्थानस्य महाराजेषु अन्यतमः चामराज ओडेयर् इहलोकम् अत्यजत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे १९०२ संवत्सरे जुलै ४ दिनाङ्के भारतस्य वरपुत्रः स्वामी विवेकानन्दः इहलोकम् अत्यजत् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१९०२&oldid=411547" इत्यस्माद् प्रतिप्राप्तम्