आश्चर्यवत्पश्यति कश्चिदेनम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.२९ आश्चर्यवत्… इत्यस्मात् पुनर्निर्दिष्टम्)
आश्चर्यवत्पश्यति कश्चिदेनम्...


शरीरिणः अलौकिकतायाः वर्णनम्
श्लोकसङ्ख्या २/२९
श्लोकच्छन्दः उपजातिच्छन्दः
पूर्वश्लोकः अव्यक्तादीनि भूतानि...
अग्रिमश्लोकः देही नित्यमवध्योऽयं...

आश्चर्यवत्पश्यति कश्चिदेनम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शरीरिणः अलौकिकतायाः वर्णनं करोति । पूर्वस्मिन् श्लोके जन्ममृत्य्वोः मध्यस्थायाः स्थितेः (प्राणिनाम् अप्रत्यक्षस्थितेः) वर्णनं कृत्वा अत्र भगवान् आत्मनः वैशिष्ट्यं वर्णयति । सः कथयति यद्, कश्चन एनं शरीरिणम् आश्चर्यवद् पश्यति । तथैव अपरः तम् आत्मानम् आश्चर्यवद् विवृणोति । तथा च अन्यः तं देहिनम् आश्चर्यवद् शृणोति । तथापि (श्रुत्वापि) कोऽपि तं शरीरिणं ज्ञातुं न प्रभवति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥

पदच्छेदः[सम्पादयतु]

आश्चर्यवत्, पश्यति, कश्चित्, एनम्, आश्चर्यवत्, वदति, तथा, एव, च, अन्यः । आश्चर्यवत्, च, एनम्, अन्यः, शृणोति, श्रुत्वा, अपि, एनम्, वेद, न, च, एव, कश्चित् ॥

अन्वयः[सम्पादयतु]

कश्चित् एनम् आश्चर्यवत् पश्यति, तथा एव अन्यः च आश्चर्यवत् वदति, अन्यः च एनम् आश्चर्यवत् शृणोति । कश्चित् एनं श्रुत्वा अपि न च एव वेद ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
कश्चित् अव्ययम् कोऽपि पुरुषः
एनम् एतद्.द.सर्व.पुं.द्वि.एक. आत्मानम्
आश्चर्यवत् अव्ययम् उतवत्
पश्यति √दृशिर् प्रेक्षणे-पर.कर्तरि, लट्.प्रपु.एक. वीक्षते
तथा एव अव्ययम् एवम्
अन्यः अ.सर्व.पुं.प्र.एक. अपरः पुरुषः
अव्ययम् अपि
वदति √वद व्यक्तायां वाचि-पर.कर्तरि, लट्.प्रपु.एक. कथयति
शृणोति √श्रु श्रवणे-पर,कर्तरि, लट्.प्रपु.एक. आकणर्र्यति
कश्चित् अव्ययम् कोऽपि
एनम् एतद्.द.सर्व.पुं.द्वि.एक. अमुम्
श्रुत्वा क्त्वान्तम् अव्ययम् आकर्ण्य अपि
अपि अव्ययम् अपि
न च एव अव्ययम् न एव ।
वेद √विद ज्ञाने-पर.कर्तरि, लट्.प्रपु.एक. जानाति

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. कश्चिदेनम् = कश्चित् + एनम् – जश्त्वसन्धिः
  2. आश्चर्यवद्वदति = आश्तर्यवत् + वदति – जश्त्वसन्धिः
  3. तथैव = तथा + एव – वृद्धिसन्धिः
  4. चैव = च + एव = वृद्धिसन्धिः
  5. चान्यः = च + अन्यः – सवर्णदीर्घसन्धिः
  6. श्रुत्वापि = श्रुत्वा + अपि – सवर्णदीर्घसन्धिः
  7. आश्चर्यवच्च = आश्चर्यवत् + च – श्चुत्वसन्धिः
  8. अप्येनम् = अपि + एनम् - यण्सन्धिः

कृदन्तः[सम्पादयतु]

  1. श्रुत्वा = श्रु + क्त्वा

अर्थः[सम्पादयतु]

कश्चन एतम् आत्मानम् अद्भुतमिव पश्यति । अन्यः कश्चन एनम् अद्भुतमिव वदति । अपरः एनम् अद्भुतमिव शृणोति । अन्यस्तु श्रुत्वापि एनं नैव जानाति ।

भाष्यार्थः[सम्पादयतु]

'आश्चर्यवत्पश्यति कश्चिदेनम्' - कश्चन एनं शरीरिणम् आश्चर्यवद् पश्यति । तात्पर्यम् अस्ति यद्, यथा अन्यानि वस्तूनि दर्शनेन, श्रवणेन, वाचनेन च अवगम्यन्ते, तथैव देहिनः ज्ञानम् असम्भवम् । किञ्च वस्त्वन्तराणि इदम्तात्वादि जानीमः । अर्थात् तानि वस्तूनि बुद्धिविषयः भवति । परन्तु देही तु न बुद्धिविषयः । सः स्वेन स्वयं ज्ञातुं शक्यः । यस्य ज्ञानं स्वेन भवति, तस्य ज्ञानं लौकिकज्ञानवन्न भवति, अपि तु विलक्षणं भवति । 'पश्यति' इत्यस्य पदस्य द्वौ अर्थौ भवतः । नेत्रेण दर्शनं, स्वेन दर्शनञ्च । अत्र 'पश्यति' इत्यस्य पदस्य 'स्वेन दर्शनम्' इत्यस्यार्थे प्रयोगः [१] [२]

यत्र नेत्रादिभिः करणैः ज्ञानं प्राप्तव्यं भवति, तत्र दृष्टा, दृश्यं, दर्शनम् इत्येतेषां त्रिसङ्गमः भवति । अर्थाद् दृष्टा भवति, दृश्यमानं वस्तु भवति, ततश्च दर्शनशक्तिः अपि भवति इति । अनेन त्रिसङ्गमेन सांसारिकवस्तूनां दर्शनं भवति । परन्तु स्वस्य ज्ञानाय तु तेन त्रिसङ्गमेन किमपि न भवति । अर्थाद् स्वस्य ज्ञानकरणं सापेक्ष्यं नास्ति । स्वस्य ज्ञानं तु स्वेन एव भवति । अर्थाद् तज्ज्ञानं निरपेक्षम् अस्ति । यथा 'अहम् अस्मि' इति यत् स्वस्य अवस्थितेः ज्ञानम् अस्ति, तस्मिन्न कस्यापि प्रमाणस्य उत करणस्य आवश्यकता अपेक्ष्यते । स्वस्य अवस्थितेः ज्ञानम् 'इदम्तया' अर्थाद् दृश्येन न भवति । तज्ज्ञानं तु स्वयमेव भवति । यतो हि आत्मज्ञानम् इन्द्रियजन्यम् उत बुद्धिजन्यं न भवति, अतः स्वस्य ज्ञाने सति आश्चर्यवद् अनुभूयते । यदा अन्धकारयुक्ते प्रकोष्ठे वयं वस्तु स्वीकर्तुं गच्छामि, तदा अस्माकं साहाय्यार्थं प्रकाशः आवश्यकः, नेत्रे अपि आवश्यके च । अर्थाद् प्रकोष्ठस्य अन्धकारे प्रकाशस्य साहाय्येन नेत्रेण वयं वस्तु दृष्टुं शक्नुमः । परन्तु कुत्रचिद् विद्यमानं दीपकं यदि पश्यामः, तर्हि तस्य दीपकस्य दर्शनाय अपरस्य दीपकस्य आवश्यकता न भवति । यतो हि दीपकः स्वयं प्रकाश्यः अस्ति । सः आत्मानम् एव प्रकाशयति । तथैव आत्मस्वरूपं द्रष्टुम् अन्यस्य प्रकाशस्य आवश्यकता नास्ति । यतो हि देही (स्वरूपः) स्वयमेव प्रकाशः अस्ति । एवं सः स्वयम् (आत्मानं) स्वेन जानाति ।

स्थूलसूक्ष्मकारणशरीराणि सन्ति । अन्नजलादिभिः निर्मितं स्थूलशरीरम् । इन्द्रियविषयः स्थूलशरीरम् । स्थूलशरीरे पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च प्राणाः, मनोबुद्धी च भवन्ति । एतैः सप्तदशैः अङ्गैः निर्मितं भवति सूक्ष्मशरीरम् । सूक्ष्मशरीरं नेन्द्रियविषयः, प्रत्युत बुद्धिविषयः । यन्न बुद्धिविषयः, यस्मिन् प्रकृतिस्वभावः भवति, तद् कारणशरीरम् । एतानि त्रीणि शरीराणि वस्तुतः आत्मस्वरूपं न । यतो हि तानि प्रतिक्षणं परिवर्तनशीलानि । शरीरादित्वाद् एतस्य आत्मनः ज्ञानम् आश्चर्यं जनयति । अतः 'आश्चर्यवत् पश्यति' इति उक्तम् ।

अत्र भगवान् कथयति यद्, आत्मानुभवी कश्चन (कश्चित्) एकः एव भवति । अग्रेऽपि एनं विषयं भगवान् पुनः कथयति यद्, कश्चिन्मनुष्यः एव मां तत्त्वेन जानाति इति [३] । एवं प्रतीयते यद्, तस्य अनविनाशिनः तत्त्वस्य ज्ञानम् अतीव कष्टकरं, दुर्लभञ्च अस्ति इति । परन्तु वस्तुतः तथा नास्ति । प्रत्युत तस्य तत्त्वस्य योग्यज्ञातारः न्यूनाः सन्ति । न्यूनाः ज्ञातारः तु तत् तत्त्वं प्रति जिज्ञासायाः न्यूनतात्वाद् ।

'आश्चर्यवद्वदति तथैव चान्यः' – तथैव अपरः पुरुषः तं देहिनम् आश्चर्यवद् वर्णयति । यतो हि तत् तत्त्वं वाणीविषयः न । ये महापुरुषाः तस्य तत्त्वस्य वर्णनं कुर्वन्ति, ते तु केलवं तत् तत्त्वं प्रति सङ्केतं कुर्वन्ति । तेन श्रोतुः लक्ष्यं तत् तत्त्वं भवति । अतः तस्य तत्त्वस्य वर्णनम् अपि आश्चर्यवद् भवति । अत्र उपयुक्तस्य 'अन्यः' इत्यस्य पदस्य तात्पर्यम् अस्ति यद्, यः जानाति, तस्माद् वक्ता भिन्नः अस्ति । किञ्च यः स्वयम् आत्मतत्त्वं ज्ञातवान्, सः कथं तस्य वर्णनं करिष्यति ? । ये ज्ञातारः सन्ति, तेषु विरलः एव वर्णनं करोति । यतो हि सर्वेषु अनुभविषु महापुरुषेषु तत्त्वविवेचनस्य सामर्थ्यं न भवति । एवं वर्णनस्य विलक्षणक्षमतायां प्रकटयितुम् 'अन्यः' इति पदम् ।

'आश्चर्यवच्चैनमन्यः' – अपरः कश्चन एनं देहिनम् आश्चर्यवच्छृणोति । तात्पर्यम् अस्ति यद्, श्रोता शास्त्राणां, लोकलोकान्तराणां च चर्चाः एव श्रुतवान् अस्ति । तस्य कृते आत्मनः चर्चा विलक्षणा एव सिद्ध्यति । किञ्च अन्यत् सर्वं तस्य कृते अनुभवगम्यम् (इन्द्रियादिविषयः) आसीत् । परन्तु देही इन्द्रियादिभ्यः विशिष्टत्वाद् न इन्द्रियादिविषयः । प्रत्युत इन्द्रियादीनां विषयाः तेन देहिना प्रकाशिताः भवन्ति । अतः देहिनः विषये यः शृणोति, सोऽपि आश्चर्यवद् पश्यति इत्यर्थः । अत्रापि 'अन्यः' इति पदम् अस्ति । तस्य तात्पर्यम् अस्ति यद्, ज्ञाता, वक्ता च भिन्नौ स्तः । तयोः अपि भिन्नः अस्ति श्रोता (तत्त्वजिज्ञासुः) इति ।

'श्रुत्वाप्येनं वेद न चैव कश्चित्' – एषः श्रुत्वा ज्ञातुं न शक्यः इत्यस्य तात्पर्यम् अस्ति यद्, देहिनः विषये किमपि श्रुतं चेद्, तस्य ज्ञानम् अभवद् इति न । अत्र श्रवणम् इत्युक्ते केवलं श्रवणेन तं देहिनं कोऽपि ज्ञातुं न प्रभवति । श्रवणोत्तरं यदा सः तस्मिन् तत्त्वे स्थिरः भविष्यति, तदा सः स्वेन एव स्वं ज्ञास्यति [४] [५] [६] [७] । अत्र यदि कोऽपि कथयति यद्, शास्त्रेभ्यः, महापुरुषेभ्यः च आत्मतत्त्वविषये श्रुत्वा तु ज्ञानं भवति एव । तर्हि 'श्रुत्वा न ज्ञायते' इति किमर्थम् उक्तम् ? इति । अत्र गम्भीरतया चिन्तयामश्चेत् शास्त्राणि, महापुरुषाः च स्वस्मिन् श्रद्धां स्थापयन्तु इति कदापि न कथयन्ति । साधकस्य अन्तःकरणे एव शास्त्राणि, महापुरुषान् च प्रति श्रद्धाविश्वासः समुद्भवति । सः स्वयं तान् सम्मुखीभवति । यदि ईश्वरं प्रति सौम्मुख्यादेव ज्ञानम् अभविष्यत्, तर्हि एतावता ईश्वरः अनेकवारम् अवातरिष्यत्, कालान्तरे अनेकेषां महापुरुषाणां जन्म अभवच्च, तेषां सम्मुखं यः उपातिष्ठत, सः आत्मतत्त्वम् अज्ञास्यत् । अर्थात् तेषां सम्मुखे उपस्थिताः सर्वे तत्त्वज्ञानिनः अभविष्यन् । परन्तु तथा न दृश्यते । एवमुक्तं पदं तत्त्वज्ञानस्य असम्भवतां प्रदर्शितुं नास्ति, अपि तु करणनिरपेक्षत्वं प्रदर्शयितुम् अस्ति । मनुष्यः येन केन प्रकारेण तत्त्वं ज्ञातुं प्रयतेत, परन्तु अन्ततो गत्वा स्वेन एव स्वं ज्ञास्यति । श्रवणमननादीनि तु तत्त्वज्ञानप्राप्त्यै पारम्परिकसाधनत्वेन अङ्गीकर्तुं शक्नुमः, परन्तु वास्तविकबोधस्तु करणनिरपेक्षः (स्वेन स्वस्य ज्ञानम्) एव ।

स्वेन स्वस्य ज्ञानम् इति किम् ? तिस्रः क्रियाः भवन्ति । प्रथमा करणक्रिया, द्वितीया दर्शनक्रिया, तृतीया ज्ञानक्रिया इति । करणक्रियायां कर्मेन्द्रियाणि, दर्शनक्रियायां दृश्येन्द्रियाणि, ज्ञानक्रियायां च ज्ञानेन्द्रियाणि स्वयं मुख्यतां वहन्ति । ज्ञानेन्द्रियैः ज्ञातव्यं किमपि न भवति, अपि तु दर्शनीयं भवति । तत् सर्वं व्यावहारिकं भवति । स्वेन यज्ज्ञातव्यं भवति, तद् द्विधा भवति । प्रथमं तु शरीरसंसाराभ्यां मे भिन्नत्वम् । द्वितीयञ्च परमात्मना सह मे अभिन्नत्वम् । अर्थात्, परिवर्तनशीलैः नाशवद्भिः वस्तुभिः सह मे किञ्चिन्मात्रम् अपि सम्बन्धः नास्ति । अपरिवर्तनशीलेन अविनाशिना परमात्मना सह मे नित्यसम्बन्धश्च अस्ति । एतयोः अनुभवस्य वाण्या वर्णनम् अशक्यम् । तत्र तु बुद्धिः अपि तूष्णीं तिष्ठति ।

शाङ्करभाष्यम् [८][सम्पादयतु]

दुर्विज्ञेयोऽयं प्रकृत आत्मा किं त्वामेवैकमुपालभे साधारणे भ्रान्तिनिमित्ते। कथं दुर्विज्ञेयोऽयमात्मा इत्यत आह -

आश्चर्यवत् आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् अकस्माद्दृश्यमानं तेन तुल्यं आश्चर्यवत् आश्चर्यमिव एनम् आत्मानं पश्यति कश्चित्। आश्चर्यवत् एनं वदति तथैव च अन्यः। आश्चर्यवच्च एनमन्यः श्रृणोति। श्रुत्वा दृष्ट्वा उक्त्वापि एनमात्मानं वेद न चैव कश्चित्। अथवा योऽयमात्मानं पश्यति स आश्चर्यतुल्यः यो वदति यश्च श्रृणोति सः अनेकसहस्रेषु कश्चिदेव भवति। अतो दुर्बोध आत्मा इत्यभिप्रायः।।

भावार्थः [९][सम्पादयतु]

यस्य आत्मतत्त्वस्य प्रकरणं चलति, तद् आत्मतत्त्वं दुर्विज्ञेयम् अस्ति । सर्वसाधराणे भ्रान्त्युत्पादके विषये केवलं त्वामेव किमर्थम् उपालभे ? एषः आत्मा दुर्विज्ञेयः कथम् अस्ति ? इति कथयति –

पूर्वं यन्न दृष्टं स्याद्, अकस्मात् तस्य दृष्टिगोचरे सति अद्भुतपदार्थः इति आश्चर्यं भवति । तदाश्चर्यस्य सादृश्यम् इत्युक्ते आश्चर्यवद् इति । एनम् आत्मानं कोऽपि महापुरुषः एव आश्चर्यमयवस्तुवद् पश्यति । तथैव अपरः कश्चन तत् तत्त्वम् आश्चर्यवद् वदति । तं वक्तारम् अन्यः कश्चन आश्चर्यवद् शृणोति । एवं कश्चन तम् आत्मानं दृष्ट्वा, उक्त्वा, श्रुत्वा चापि न ज्ञातुं शक्नोति । अथवा यः एनम् आत्मानं पश्यति, सः आश्चर्यतुल्यम् अस्ति । यः कथयति, शृणोति च तदपि आश्चर्यतुल्यम् अस्ति इति । अभिप्रायः अस्ति यद्, अनेकेषु सहस्रेषु कश्चिद् एकः एव तादृशो जोयते, अतः आत्मत्त्वम् दुर्बोधम् अस्ति इति ।

रामानुजभाष्यम्[सम्पादयतु]

एवं शरीरात्मवादे अपि नास्ति शोकनिमित्तम् इति उक्त्वा शरीरातिरिक्त आश्चर्यस्वरूप आत्मनि द्रष्टा वक्ता श्रोता श्रवणायत्तात्मनिश्चयः च दुर्लभ इत्याह -

एवम् उक्तस्वभावं स्वेतरसमस्तवस्तुविसजातीयतया  आश्चर्यवद्  अवस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीणपाप उपचितपुण्यः  कश्चित् पश्यति  तथाविधः कश्चित् परस्मै  वदति  एवं कश्चिद् एव  श्रृणोति श्रुत्वा   अपि एनं  यथावद् अवस्थितं तत्त्वतो  न कश्चिद् वेद।  चकाराद् द्रष्टृवक्तृश्रोतृषु अपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतः श्रवणं दुर्लभम् इति उक्तं भवति।

भाष्यार्थः[सम्पादयतु]

एवं देहात्मवादसिद्धान्ते अर्थाद् शरीरमेव आत्मा अस्ति इत्यस्य सिद्धान्तेऽपि शोकस्य किमपि कारणं नास्ति । एवम् उक्त्वा शरीराद् भिन्नस्य आश्चर्यरूपस्य आत्मनः द्रष्टा, वक्ता, श्रोता च दुर्लभाः सन्ति । तथा च केवलं श्रवणेन एव आत्मस्वरूपस्य निश्चयः अपि दुर्लभः अस्ति इति अधुना वदति–

अनन्तजीवेषु कश्चन एकः (पुरुषः) महता तपसा यस्य सर्वाणि पापानि क्षीणानि जातानि, तथा च पुण्यस्य सञ्चयः अभवत्, सः उपर्युक्तस्वभावयुक्तम् आत्मानं स्वस्माद् अतिरिक्तं, सर्वेभ्यः वस्तुभ्यः विजातीयरूपे (भिन्नरूपे) आश्चर्यवद् पश्यति । तथैव कश्चन महापुरुषः तस्य आत्मनः विषये विवरणम् अन्यं श्रावयति । तथैव अपरः कश्चन आत्मानं शृणोति, परन्तु श्रुत्वापि सः आत्मनः वास्तविकं तत्त्वं यथास्वरूपं श्रोतुं न शक्नोति । 'च'-कारस्य उपयोगेन अत्र तात्पर्यम् अस्ति यद्, द्रष्टृषु, वक्तृषु, श्रोतृषु च अपि तत्त्वस्वरूपे दर्शनं, वचनं, श्रवणं दुर्लभम् अस्ति इति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
अव्यक्तादीनि भूतानि...
आश्चर्यवत्पश्यति कश्चिदेनम्... अग्रिमः
देही नित्यमवध्योऽयं...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. गीता, अ. २, श्लो. ५५
  2. गीता, अ. ६, श्लो. २०
  3. कश्चिन्मां वेत्ति तत्त्वतः, गीता, अ. ७, श्लो. ३
  4. आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते गीता, अ. २, श्लो. ५५
  5. यस्तवात्मपतिरेव स्यादत्मतृप्तश्च मानवः ।
    आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ।।, गीता, अ. ३, श्लो. १७
  6. यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति, गीता, अ. ६, श्लो. २०
  7. यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्, गीता, अ. १५, श्लो. ११
  8. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  9. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८

अधिकवाचनाय[सम्पादयतु]