व्यवसायात्मिका बुद्धिः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.४१ व्यवसायात्मिका… इत्यस्मात् पुनर्निर्दिष्टम्)
व्यवसायात्मिका बुद्धिः...


समबुद्धिप्राप्तेः साधनम्
श्लोकसङ्ख्या २/४१
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः नेहाभिक्रमनाशोऽस्ति...
अग्रिमश्लोकः यामिमां पुष्पितां वाचं…

व्यवसायात्मिका बुद्धिः () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समबुद्धिप्राप्तेः साधनं कथयति । पूर्वस्मिन् श्लोके भगवान् समबुद्धेः कर्मयोगानुगुणम् उपस्थापनं कृत्वा अत्र तस्याः समबुद्धेः प्राप्त्यै साधनं वदति । सः वर्णयति यद्, हे कुरुनन्दन ! एतस्याः समबुद्धेः प्राप्तिविषये व्यवसायात्मिका बुद्धिः एव भवति । अव्यवसायिनां मनुष्याणां बुद्धिः अनन्ता, बहुशाखायुक्ताः एव भवन्ति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥

पदच्छेदः[सम्पादयतु]

व्यवसायात्मिका, बुद्धिः, एका, इह, कुरुनन्दन । बहुशाखाः, हि, अनन्ताः, च, बुद्धयः, अव्यवसायिनाम् ॥

अन्वयः[सम्पादयतु]

कुरुनन्दन ! इह व्यवसायात्मिका बुद्धिः एका, (किन्तु) अव्यवसायिनां च बुद्धयः बहुशाखाः अनन्ताः हि ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
कुरुनन्दन अ.पुं.स्मबो.एक. हे अर्जुन !
इह अव्ययम् अत्र
व्यवसायात्मिका आ.स्त्री.प्र.एक. निश्चयात्मिका
बुद्धिः इ.स्त्री.प्र.एक. मतिः
एका आ.स्त्री.प्र.एक. एका
अव्यवसायिनाम् अव्यवसायिन्-न.पुं.ष.बहु. निश्चयरहितानाम्
बुद्धयः इ.स्त्री.प्र.बहु. मतयः
बहुशाखाः आ.स्त्री.प्र.बहु. अनेकविधाः
अनन्ताः च आ.स्त्री.प्र.बहु. अन्तरहिताः ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. बुद्धिरेकेह = बुद्धिः + एकेह – विसर्गसन्धिः (रेफः)
  2. एकेह = एक + इह - गुणसन्धिः
  3. बहुशाखा हि = बहुशाखाः + हि – विसर्गसन्धिः (लोपः)
  4. ह्यनन्ताः = हि + अनन्ताः – यण्सन्धिः
  5. अनन्ताश्च = अनन्ताः + च – विसर्गसन्धिः (सकारः) श्चुत्वम्
  6. बुद्धयोऽव्यवसायिनाम् = बुद्ध्यः + अव्यवसायिनाम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च

समासः[सम्पादयतु]

  1. व्यवसायात्मिका = व्यवसायः एव आत्मा यस्याः, सा - बहुव्रीहिः
  2. कुरुनन्दन = कुरूणां नन्दनः, तत्सम्बुद्धौ – षष्ठीतत्पुरुषः
  3. बहुशाखाः = बह्व्यः शाखाः यासां, ताः – बहुव्रीहिः
  4. अनन्ताः = न विद्यते अन्तः यासां, ताः - बहुव्रीहिः

कृदन्तः[सम्पादयतु]

  1. नन्दनः = नन्द + ल्यु (कर्तरि) । नन्दयति इति नन्दनः ।

तद्धितान्तः[सम्पादयतु]

  1. व्यवसायिनाम् = व्यवसाय + इनि (मतुबर्थे)

अर्थः[सम्पादयतु]

हे अर्जुन ! अस्मिन् लोके कर्मयोगे प्रवृत्तिशीला बुद्धिः एका एव । परन्तु अप्रवृत्तिशीलानां पुरुषाणां बुद्धयस्तु बहुभेदाः अनन्ताश्च भवन्ति ।

भावार्थः[सम्पादयतु]

'व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन' – कर्मयोगिनः साधकस्य ध्येयं समताप्राप्तेः भवति । सा समता परमात्मस्वरूपिणी एव । तस्याः परमात्मरूपिण्याः समतायाः प्राप्त्यै अन्तःकरणस्य समता साधनम् अस्ति । अन्तःकरणस्य समतायां संसारस्य रागः बाधको भवति । तस्य रागस्य परिहाराय (परमात्मप्राप्तेः कृते) कृतः निश्चयः एव व्यवसायात्मिका बुद्धिः । किमर्थम् एका एव व्यवसायात्मिका बुद्धिः ? किञ्च तस्यां सांसारिकवस्तूनि, पदार्थाः इत्यादीनां त्यागः भवति । सः त्यागः एकः एव भवति । धन-सम्पत्ति-पुत्र-प्रतिष्ठादीनां त्यागे बहूनां वस्तूनां त्यागः इति प्रतीयते । यतो हि सर्वं विभिन्नप्रकारकं भवति । परन्तु तेषां त्यागः तु एकः एव ।

गीताशास्त्रे कर्मभक्तियोगयोः [१] व्यवस्यात्मिकायाः बुद्धेः वर्णनम् अस्ति, परन्तु ज्ञानयोगे एतस्याः व्यवसायात्मिकबुद्धेः वर्णनं नास्ति । एतस्य तात्पर्यम् अस्ति यद्, ज्ञानयोगे पूर्वं स्वरूपबोधो भवति, ततः परिणामस्वरूपं बुद्धिः स्वतः एव निश्चयात्मिका भवति । परन्तु कर्मभक्तियोगयोः पूर्वं बुद्धेः निश्चयः भवति, ततः स्वरूपबोधो भवति । अतः ज्ञानयोगे ज्ञानस्य प्रामुख्यं, कर्मभक्तियोगयोः निश्चयस्य प्रामुख्यम् ।

'बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्' – अव्यवसायिनः ते भवन्ति, येषां मनसि सकामभावः, भोगभावः, सङ्ग्रहभावश्च भवति । कामनायाः कारणेन तादृशानां मनुष्याणां बुद्धयः अनन्ताः भवन्ति । तासां बुद्धीनाम् अपि अनन्ताः शाखाः भवन्ति । यथा पुत्रप्राप्तिः करणीया । पुत्रप्राप्त्यै औषध-मन्त्रानुष्ठान-आशीर्वादप्राप्त्यादीनि अनेकानि कार्याणि कृतानि । एवं पुत्रप्राप्तिरूपिण्याः शाखायाः अन्याः प्रशाखाः भवन्ति । ताः शाखाः अनन्ताः भवन्ति । तस्य मनुष्यस्य जीवने पुत्रप्राप्तिः इत्येका एव इच्छा न भवेत् । पदप्राप्ति-धनप्राप्ति-शत्रुनाशादयः अनेकाः इच्छाः स्युः । तादृशस्य मनुष्यस्य बुद्धौ परमात्मप्राप्तेः निश्चयः न भवति ।

शाङ्करभाष्यम् [२][सम्पादयतु]

येयं सांख्ये बुद्धिरुक्ता योगे च वक्ष्यमाणलक्षणा सा -

व्यवसायात्मिका  निश्चयस्वभावा  एका  एव  बुद्धिः  इतरविपरीतबुद्धिशाखाभेदस्य बाधिका सम्यक्प्रमाणजनितत्वात् इह श्रेयोमार्गे हे  कुरुनन्दन । याः पुनः इतरा विपरीतबुद्धयः यासां शाखाभेदप्रचारवशात् अनन्तः अपारः अनुपरतः संसारो नित्यप्रततो विस्तीर्णो भवति प्रमाणजनितविवेकबुद्धिनिमित्तवशाच्च उपरतास्वनन्तभेदबुद्धिषु संसारोऽप्युपरमते ता बुद्धयः  बहुशाखाः  बह्व्यः शाखाः यासां ताः बहुशाखाः बहुभेदा इत्येतत्। प्रतिशाखाभेदेन  हि अनन्ताश्च बुद्धयः । केषाम्  अव्यवसायिनां  प्रमाणजनितविवेकबुद्धिरहितानामित्यर्थः।।

भाष्यार्थः[सम्पादयतु]

पुरा या बुद्धिः साङ्ख्ययोगसन्दर्भे उक्ता, अधुना च या बुद्धिः कर्मयोगसन्दर्भे उच्यमाना अस्ति सा –

हे कुरुनन्दन ! व्यवसायात्मिका (निश्चयस्वभावयुक्ता) बुद्धिः एका एव एतस्मिन् कल्याणमार्गे । अर्थाद् यथार्थप्रमाणेभ्यः जनिता अस्ति, अतः विपरीतबुद्धीनां, बुद्धिशाखाभेदानां च बाधिका अस्ति । याः इतराः बुद्धयः सन्ति, यासां शाखाभेदः विस्तारेण अनन्तः, अपारः, अनुपरतश्च भवति अर्थात् निरन्तरम् अत्यन्तविस्तृतः भवति, तासाम् अनन्तभेदयुक्तानां बुद्धीनां प्रमाणजनितया विवेकबुद्ध्या अन्तः भवति । तेन अन्तेन सह संसारस्यापि अन्तः भवति । परन्तु यः अव्यवसायी अस्ति, यः प्रमाणजनितविवेकरहितः अस्ति, तस्य बुद्धयः बहुशाखायुक्ताः भवन्ति । तासां शाखानाम् अपि प्रशाखाः भवन्ति ।

रामानुजभाष्यम् [३][सम्पादयतु]

काम्यकर्मविषयाया बुद्धेः मोक्षसाधनभूतकर्मविषयां बुद्धिं विशिनष्टि -

इह  शास्त्रीये सर्वस्मिन् कर्मणि  व्यवसायात्मिका बुद्धिः एका।  मुमुक्षुणा अनुष्ठेये कर्मणि बुद्धिः व्यवसायात्मिका बुद्धिः। व्यवसायो निश्चयः सा हि बुद्धिः आत्मयाथात्म्यनिश्चयपूर्विका। काम्यकर्मविषया तु बुद्धिः अव्यवसायात्मिका। तत्र हि कामाधिकारे देहाद् अतिरिक्तात्मास्तित्वमात्रम् अपेक्षितम् न आत्मस्वरूपयाथात्म्यनिश्चयः स्वरूपयाथात्म्यानिश्चये अपि स्वर्गादिफलार्थित्वतत्साधनानुष्ठान तत्फलानुभवानां संभवाद् अविरोधाच्च।

सा इयं व्यवसायात्मिका बुद्धिः एकफलसाधनविषयतया एका। एकस्मै मोक्षफलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते।

अतः शास्त्रार्थस्य एकत्वात् सर्वकर्मविषया बुद्धिः एका एव। यथा एकफलसाधनतया आग्नेयादीनां षण्णां सेतिकर्तव्यताकानाम् एकशास्त्रार्थतया तद्विषया बुद्धिः एका तद्वद् इत्यर्थः।

अव्यवसायिनां  तु स्वर्गपुत्रपश्वन्नादिफलसाधनकर्माधिकृतानां  बुद्धयः  फलानन्त्याद्  अनन्ताः  तत्रापि  बहुशाखाः।  एकस्मै फलाय चोदिते अपि दर्शपूर्णमासादौ कर्मणिआयुराशास्ते सुप्रजस्त्वमाशास्ते इत्याद्यवगतावान्तरफलभेदेन बहुशाखात्वं च विद्यते। अतः अव्यवसायिनां बुद्धयः अनन्ता बहुशाखाश्च।

एतद् उक्तं भवति नित्येषु नैमित्तिकेषु कर्मसु प्रधानफलानि अवान्तरफलानि च यानि श्रूयमाणानि तानि सर्वाणि परित्यज्य मोक्षैकफलतया सर्वाणि कर्माणि एकशास्त्रार्थतया अनुष्ठेयानि। काम्यानि च स्ववर्णाश्रमोचितानि तत्तत्फलानि परित्यज्य मोक्षफलसाधनतया नित्यनैमित्तिकैः एकीकृत्य यथाबलम् अनुष्ठेयानि इति।

भाष्यार्थः[सम्पादयतु]

काम्यकर्मविषयिणी या बुद्धिः अस्ति, तस्याः अपेक्षाः मोक्षसाधनभूता निष्कामकर्मविषयिणी बुद्धिः विशिष्टा इति प्रशंसापूर्वं वदति –

अत्र शास्त्रीयेषु सर्वेषु कर्मसु व्यवसायात्मिका बुद्धिः अस्ति । मुमुक्षुणा पुरुषेण क्रियमाणेषु कर्मसु विद्यमाना बुद्धिः 'व्यवसायात्मिका बुद्धिः' इति । व्यवसायः इत्युक्तः निश्चयः । बुद्धिः आत्मस्वरूपस्य यथार्थेन निश्चयेन युक्ता भवति । परन्तु काम्यकर्मविषयकी बुद्धिः अव्यवसायात्मिका भवति । अर्थात्, आत्मस्वरूपस्य यथार्थेन निश्चयेन रहिता इति । यतो हि तत्र काम्यकर्मणाम् अधिकारेषु देहाद् आत्मनः भिन्नत्वस्य, भिन्नास्तित्वमात्रस्य च ज्ञानम् अपेक्ष्यते । आत्मस्वरूपस्य यथार्थस्य निश्चयस्य अपेक्षा तत्र न भवति । यतो हि आत्मस्वरूपस्य यथार्थे निश्चये असत्यपि स्वर्गादिफलस्य कामना, तेषां साधनानाम् अनुष्ठानं, साधनफलानाम् अनुभवः च सम्भवः अस्ति । तथा च एवं कृते शास्त्रस्यापि कोऽपि विरोधः नास्ति ।

उपर्युक्ता एषा व्यवसायात्मिका बुद्धिः एकमात्रं मोक्षरूपिणः फलस्य, साधनभूतकर्मणामेव कर्त्री अस्ति । अतः एषा एका अस्ति । किञ्च मुमुक्षवे समस्तकर्मणां विधानम् एकमात्रं मोक्षरूपिणे फलाय एव क्रियते । अतः शास्त्रस्य अभिप्रायः एकत्वाद् सा व्यवसायात्मिका बुद्धिः सर्वकर्मविषयिणी सती अपि एका एव अस्ति । यथा एकस्य एव फलस्य सिद्ध्यै क्रियमाणेषु कर्तव्यसहितेषु आग्नेयादिषु षट्षु कर्मसु शास्त्राभिप्रायस्य एकतायां सत्यां तद्विषयिणी बुद्धिः एका एव भवति । तथैव अत्रापि बोध्यम् । स्वर्ग-पुत्र-पशु-अन्नादिषु फलेषु साधनभूतेषु कर्मसु अधिकारिणाम् अव्यवसायिनां पुरुषाणां बुद्धयः फलानाम् अनन्तत्वाद् अनन्ताः भवन्ति । ततोधिकं ताः अव्यवसायात्मिकाः बुद्धयः बहुशाखायुक्ताः अपि भवन्ति । कस्मै एकस्मै फलाय एव विधाने कृते दर्शपूर्णमासादौ कर्मणि अपि दीर्घायुः, सुन्दरता इत्यादिरूपिण्यः अनेकाः कामनाः अवान्तरफलभेदेन भवन्ति । अतः ताः बुद्धयः बहुशाखायुक्ताः इति । अत एव अव्यवसायिनां पुरुषाणां बुद्धयः अनन्ताः, बहुशाखायुक्ताः च भवन्ति ।

अत्र अभिप्रायः अस्ति यत्, नित्यनैमित्तकेषु कर्मसु यानि अवान्तराणि, प्रधानानि फलानि श्रुतिषु प्रतिपादितानि सन्ति, तेषां सर्वेषां फलानां परित्यागे कृते सत्येव केवलं मोक्षरूपिणे फलाय अनुष्ठानं करणीयम् । सर्वेषु शास्त्रेषु मोक्षरूपिणः फलस्य एव एकमात्रम् अभिप्रायः अस्ति इति मत्वा कर्मणाम् अनुष्ठानं कर्तव्यम् इत्यर्थः । तथा च यानि स्ववर्णोचितानि काम्यकर्माणि सन्ति, तेषां फलानां त्यागं कृत्वा मोक्षरूपिणः फलस्य एव साधनत्वेन नित्यनैमित्तिककर्मणां स्वीकारं कृत्वा यथाशक्ति अनुष्ठानानि करणीयानि ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
नेहाभिक्रमनाशोऽस्ति...
व्यवसायात्मिका बुद्धिः... अग्रिमः
यामिमां पुष्पितां वाचं…
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. गीता, अ. ९, श्लो. ३०
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  3. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]