त्रैगुण्यविषया वेदा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.४५ त्रैगुण्यविषयाः… इत्यस्मात् पुनर्निर्दिष्टम्)
त्रैगुण्यविषया वेदा...


निष्कामतायाः, आत्मसंयमस्य च आज्ञा
श्लोकसङ्ख्या २/४५
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः भोगैश्वर्यप्रसक्तानां...
अग्रिमश्लोकः यावानर्थ उदपाने...

त्रैगुण्यविषया वेदा () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः निष्कामतायाः, आत्मसंयमस्य च आज्ञां यच्छति । पूर्वस्मिन् श्लोके येषाम् अव्यवसायिनां मनुष्याणां बुद्धिः अनन्ताः भवन्ति, तेषां स्वभावस्य वर्णनं कृत्वा अत्र भगवान् अर्जुनाय योगक्षेमस्य अपेक्षाम् अकृत्वा परमात्मपरायणः भवितुम् आज्ञापयति । सः कथयति यद्, वेदाः त्रयाणां गुणानां कार्याणाम् एव वर्णनं कुर्वन्ति । अतः हे अर्जुन ! त्वं त्रिगुणेभ्यः रहितः, निर्द्वन्द्वः च भव । त्वं निरन्तरं नित्यवस्तुषु स्थिरो भव । योगक्षेमस्य इच्छाम् अपि त्यक्त्वा परमात्मपरायणो भव इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥

पदच्छेदः[सम्पादयतु]

त्रैगुण्यविषयाः, वेदाः, निस्त्रैगुण्यः, भव, अर्जुन । निर्द्वन्द्वः, नित्यसत्त्वस्थः, निर्योगक्षेमः, आत्मवान् ॥

अन्वयः[सम्पादयतु]

अर्जुन ! वेदाः त्रैगुण्यविषयाः । निस्त्रैगुण्यः निर्द्वन्द्वः नित्यसत्त्वस्थः निर्योगक्षेमः आत्मवान् भव ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
अर्जुन अ.पुं.सम्बो.एक. पार्थ !
वेदाः अ.पुं.प्र.बहु. श्रुतयः
त्रैगुण्यविषयाः अ.पुं.प्र.बहु. त्रिगुणात्मकप्रकृतिविषयाः
निस्त्रैगुण्यः अ.पुं.प्र.एक. त्रिगुणरहितः
निर्द्वन्द्वः अ.पुं.प्र.एक. सुखदुःखादियुग्मरहितः
नित्यसत्त्वस्थः अ.पुं.प्र.एक. सदा सत्त्वगुणसम्पन्नः
निर्योगक्षेमः अ.पुं.प्र.एक. योगक्षेमरहितः
आत्मवान् आत्मवत्-त.पुं.प्र.एक. आत्मनिः
भव √भू सत्तायाम्-पर.कर्तरि, लोट्.मपु.एक. तिष्ठ ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. त्रैगुण्यविषया वेदाः = त्रैगुण्यविषयाः + वेदाः – विसर्गसन्धिः (लोपः)
  2. वेदा निस्त्रैगुण्यः = वेदाः + निस्त्रैगुण्यः – विसर्गसन्धिः (लोपः)
  3. निस्त्रैगुण्यो भव = निस्त्रैदुण्यः + भव – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  4. भवार्जुन = भव + अर्जुन – सवर्णदीर्घसन्धिः
  5. निर्द्वन्द्वो नित्यसत्त्वस्थो = निर्द्वन्द्वः + नित्यसत्त्वस्थः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  6. नित्यसत्त्वस्थो निर्योगक्षेम = नित्यसत्त्वस्थ + निर्योगक्षेम – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  7. निर्योगक्षेम आत्मवान् = निर्योगक्षेमः + आत्मवान् – विसर्गसन्धिः (लोपः)

समासः[सम्पादयतु]

  1. त्रैगुण्यविषयाः = त्रैगुण्यं विषयः येषां ते – बहुव्रीहिः ।
  2. निस्त्रैगुण्यः = निर्गतं त्रैगुण्यं यस्मात् सः – बहुव्रीहिः ।
  3. नित्यसत्त्वस्थः = नित्यं सत्त्वस्थः – सुप्समासः ।
  4. निर्योगक्षेमः = योगश्च क्षेमं च अनयोः समाहारः योगक्षेमम् – द्वन्द्वः ।
  5. निर्गतं योगक्षेमं यस्मात् सः – बहुव्रीहिः ।

कृदन्तः[सम्पादयतु]

  1. आत्मवान् = आत्मन् + मतुप्

अर्थः[सम्पादयतु]

हे पार्थ ! वेदेषु त्रिगुणात्मिकायाः प्रकृतेः विषयाः उक्ताः सन्ति । त्वं तादृश्याः गुणत्रयात्मिकायाः वशः मा भूः । सुखदुःखादिरहितो भव । सर्वदा सत्त्वगुणम् अवलम्बस्व । योगक्षेमापेक्षां मा कुरु । आत्मध्यानपरायणो भव ।

भावार्थः [१][सम्पादयतु]

त्रैगुण्यविषया वेदाः – अत्र वेदाः इत्यस्य तात्पर्यम् अस्ति यद्, वेदे निहिताः ते भागाः, येषु गुणत्रयस्य वर्णनम् अस्ति । तेषां गुणत्रयस्य वर्णने स्वर्गादीनां भोगभूमीनां चित्रणम् अस्ति । अत्र उपयुक्तेन वाक्येन वेदनिन्दा नास्ति, अपि तु निष्कामभावेन कर्तव्यपालनस्य महत्त्वदर्शनम् अस्ति । यथा वज्रस्य वर्णनेन सह काचस्य वर्णने कृते काचस्य निन्दादर्शनस्य न, अपि तु वज्रस्य महिमवर्णनस्य आशयः भवति । तथैवात्र निष्कामभावस्य महत्त्ववर्णनाय स्वर्गादिभोगानां वर्णनस्य उहारणम् अस्ति । वेदेषु केवलं त्रिगुणभोगानामेव वर्णनं नास्ति, अपि तु परमात्मवर्णनं, परमात्मप्राप्तेः साधनवर्णनं च अस्ति ।

'निस्त्रैगुण्यो भवार्जुन' – हे अर्जुन ! त्रयाणां गुणानां कार्यरूपिणः संसाररस्य इच्छात्यागं कृत्वा असंसारी भव । अर्थाद् संसारातीतः भवेति ।

'निर्द्वन्द्वः' – संसारातीतो भवितुं रागद्वेषादिभ्यः मुक्तिः अत्यावश्यकी । किञ्च ते एव मनुष्याणां मुख्यशत्रवः सन्ति । ते एव मनुष्यान् बाधन्ते [२] । अतः त्वं सर्वद्वन्द्वरहितः भव । एकस्मिन् विषये, वस्तुनि च भावद्वयस्य आरोपणं द्वन्द्वः उच्यते । परन्तु यत्र विषयवस्तुनोः भिन्नत्वं भवति, तत्र द्वन्द्वः न भवति । यथा प्रकृतिः, पुरुषश्च भिन्नौ, जडः, चेतनश्च भिन्नौ इत्यादिषु भिन्नतायाः भावः द्वन्द्वः नोच्यते । तथैव संसाराद् विमुखे जाते भगवन्तं प्रति सम्मुखता द्वन्द्वः नास्ति । परन्तु एतस्मिन् संसारे रागः, द्वेषः च, हर्षः, शोकश्च, सुखं, दुःखं च इत्यादयः भावाः भवन्ति चेद्, द्वन्द्वः उच्यते । सः द्वन्द्वः मनुष्येभ्यः बाधको भवति ।

अत्र भगवान् अर्जुनाय निर्द्वन्द्वतायाः आज्ञां किमर्थं यच्छति ? उत्तरम् अस्ति यद्, द्वन्द्वैः सम्मोहः भवति, सम्मोहः मनुष्यं बाधते [३] । यदा साधकः निर्द्वन्द्वः भवति, तदैव सः दृढमनस्कः सन् भजनं कर्तुं शक्नोति [४] । निर्द्वन्द्वे सति साधकः सुखपूर्वकं संसारबन्धनात् मुक्तः भवति [५] । निर्द्वन्दे सति मूढतायाः उन्मूलनं भवति [६] । निर्द्वन्द्वी मनुष्यः कर्म कुर्वाणः सन् अपि बद्धो न भवति [७] । तात्पर्यम् अस्ति यद्, साधकस्य साधना निर्द्वन्द्वे सति दृढा भवति । अतः भगवान् अर्जुनाय निर्द्वन्द्वतायाः आज्ञां यच्छतीति ।

एतस्य अपरः पक्षः अपि अस्ति यद्, यदि संसारे एकस्मिन् वस्तुनि, व्यक्तौ, परिस्थितौ च रागः भविष्यति, तर्हि अपरेषु वस्त्वादिषु द्वेषः भविष्यति इति सहजनियमः । तथा भूते सति भगवतः उपेक्षा भवति, यः द्वेषः एव । परन्तु साधकः परमात्मनि स्निह्यति, तदा संसारेण सह द्वेषः न भवति । प्रत्युत संसारात् स्वाभाविकीम् उपरतिं प्राप्स्यति । उपरत्युत्तरं साधकः प्रतिकूलतायाः द्वेषं न करिष्यति । सः प्रतिकूलतायै सर्वदा उदासीनः भविष्यति । उपरत्यां रागद्वेषौ सर्वथा नष्टौ भवतः । अनेन क्रमेण यदि सूक्ष्मतया चिन्तयामः, तर्हि उपरतित्वाद् मनुष्ये रागद्वेषस्य संस्काराः अपि नावशिष्यन्ते ।

'नित्यसत्त्वस्थः' – नित्यं सर्वत्र परिपूर्णस्य परमात्मनः स्थितेः भानमेव द्वन्द्वमुक्तेः उपायः अस्ति ।

'निर्योगक्षेमः' – अप्राप्यवस्तूनां प्राप्तिः 'योगः' उच्यते, प्राप्तवस्तूनां रक्षा एव 'क्षेमः' उच्यते । यद्यपि अत्र कर्मयोगसन्दर्भे 'निर्योगक्षेमः' इत्येषः विषयः अस्ति, तथापि एषः भक्तियोगवाचकः मन्यामहे इति उचितम् । यतो हि भगवान् गीताशास्त्रे बहुधा अर्जुनाय भक्तो भव इति आज्ञापयति । भगवान् अर्जुनस्य भक्तत्वेन स्वीकारम् अपि करोति [८] । भगवान् आत्मानं भक्तानां योगक्षेमस्य वाहकत्वेनापि उपस्थापयति [९] । त्वं योगस्य, क्षेमस्य च इच्छुकः मा भव इति अर्जुनम् अत्र आज्ञापयति । यतः यः मत्परायणो भवति, तस्य योगक्षेमं स्वयम् अहं वहामि ।

'आत्मवान्' – त्वं केवलं परमात्मपराणयः भूत्वा परमात्मप्राप्तेः एव लक्ष्यं साधय ।

शाङ्करभाष्यम् [१०][सम्पादयतु]

ये एवं विवेकबुद्धिरहिताः तेषां कामात्मनां यत् फलं तदाह -

त्रैगुण्यविषयाः  त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः येषां ते  वेदाः  त्रैगुण्यविषयाः। त्वं तु  निस्त्रैगुण्यो भव अर्जुन  निष्कामो भव इत्यर्थः।  निर्द्वन्द्वः  सुखदुःखहेतू सप्रतिपक्षौ पदार्थौ द्वन्द्वशब्दवाच्यौ ततः निर्गतः निर्द्वन्द्वो भव।  नित्यसत्त्वस्थः  सदा सत्त्वगुणाश्रितो भव। तथा  निर्योगक्षेमः  अनुपात्तस्य उपादानं योगः उपात्तस्य रक्षणं क्षेमः योगक्षेमप्रधानस्य श्रेयसि प्रवृत्तिर्दुष्करा इत्यतः निर्योगक्षेमो भव।  आत्मवान्  अप्रमत्तश्च भव। एष तव उपदेशः स्वधर्ममनुतिष्ठतः।।

भाष्यार्थः[सम्पादयतु]

ये एवं विवेकबुद्धिरहिताः सन्ति, तेषां कामपरायणपुरुषाणाम् –

वेदः त्रैगुण्यविषयकः अस्ति । अर्थाद्, वेदः सत्वरजस्तमोगुणानां कार्यरूपं संसारमेव प्रकाशयति इति । परन्तु हे अर्जुन ! त्वम् असंसारी भव । निष्कामी इत्यर्थः । तथा च निर्द्वन्द्वो भव । अर्थाद् सुखदुःखयोः हेतू परस्परविरोधिनौ पदार्थौ एव द्वन्द्वः अस्ति । तस्माद् द्वन्द्वाद् रहितो भूत्वा नित्यसत्त्वस्थो भव । अर्थात् सर्वदा सत्त्वगुणाश्रितः भव । तथा च निर्योगक्षेमः भव । अप्राप्तवस्तूनां प्राप्तिः 'योगः', प्राप्तवस्तूनां संरक्षणमेव 'क्षेमः' इति । तयोः योगक्षेमयोः प्राधान्यं येषां जीवने अस्ति, तेषां कल्याणमार्गे प्रवृत्तिः अत्यन्तं कष्ठकरी अस्ति । अतः त्वं निर्योगक्षेमः भव । तथा च त्वम् आत्मवान् भव । अर्थाद्, आत्मविषयेषु प्रमादरहितः भव । स्वधर्मस्य पालनाय एषः उपदेशः तुभ्यम् अस्ति ।

रामानुजभाष्यम् [११][सम्पादयतु]

एवम् अत्यन्ताल्पफलानि पुनर्जन्मप्रसवानि कर्माणि मातापितृसहस्रेभ्यः अपि वत्सलतरतया आत्मोपजीवने प्रवृत्ता वेदाः किमर्थं वदन्ति कथं वा वेदोदितानि त्याज्यतया उच्यन्ते इति अत्र आह -

त्रयो गुणाः त्रैगुण्यं सत्त्वरजस्तमांसि सत्त्वरजस्तमःप्रचुराः पुरुषाः त्रैगुण्यशब्देन उच्यन्ते। तद्विषया वेदाः तमःप्रचुराणां रजःप्रचुराणां सत्त्वप्रचुराणां च वत्सलतरतया एव हितम् अवबोधयन्ति वेदाः।

यदि एषां स्वगुणानुगुण्येन स्वर्गादिसाधनम् एव हितं न अवबोधयन्ति तदा एव ते रजस्तमःप्रचुरतया सात्त्विकफलमोक्षविमुखाः स्वापेक्षितफलसाधनम् अजानन्तः कामप्रावण्यविवशा अनुपायेषु उपायभ्रान्त्या प्रविष्टाः प्रणष्टा भवेयुः। अतः  त्रैगुण्यविषया वेदाः  त्वं तु  निस्त्रैगुण्यो  भव इदानीं सत्त्वप्रचुरः त्वं तदेव वर्धय नान्योन्यसंकीर्णगुणत्रयप्रचुरो भव। न तत्प्राचुर्यं वर्धय इत्यर्थः  निर्द्वन्द्वः  निर्गतसकलसांसारिकस्वभावः।  नित्यसत्त्वस्थः  गुणद्वयरहितनित्यप्रवृद्धसत्त्वस्थो भव।

कथम् इति चेत्  निर्योगक्षेमः  आत्मस्वरूपतत्प्राप्त्युपायबहिर्भूतानाम् अर्थानां योगं प्राप्तानां च क्षेमं परिपालनं परित्यज्य  आत्मवान्  भव आत्मस्वरूपान्वेषणपरो भव। अप्राप्तस्य प्राप्तिः योगः प्राप्तस्य परिरक्षणं क्षेमः। एवं वर्तमानस्य ते रजस्तमः प्रचुरता नश्यति सत्त्वं च वर्धते।

भाष्यार्थः[सम्पादयतु]

सहस्रेभ्यः मातृपितृभ्यः अधिकं वात्सल्यं कृत्वा आत्मनः अभ्युदयाय, कल्याणाय च येषां प्रवृत्तिः अभवद्, ते वेदाः एवम् अत्यन्ताल्पस्य फलस्य, पुनर्जन्मदायकानां कर्मणां च प्रतिपादनं किमर्थं कुर्वन्ति ? तथा च तेषां वेदप्रतिपादितानां कर्मणां त्यागः योग्यः कथं वक्तुं शक्यते ? एतादृशानां प्रश्नानाम् उत्तराय कथयति –

सत्त्वरजस्तमासां त्रिगुणानाम् एव त्रैगुण्यम् इति । अतः सर्वैः त्रिगुणैः मनुष्याणां प्रचुरतायाः कारणेन पुरुषाः 'त्रैगुण्याः' इति उक्ताः । वेदाः तेषां त्रैगुण्यानामेव विषये कथयन्ति, अतः ते वेदाः तमोगुणबुहुलेभ्यः, रजोगुणबहुलेभ्यः, सत्त्वगुणबहुलेभ्यः च पुरुषेभ्यः वात्सल्याद् तेषां हिताय यथायोग्यम् उपदेशं कुर्वन्ति । यदि वेदाः तेभ्यः तेषां गुणानां तारतम्यानुगुणं स्वर्गादिसाधनरूपहितस्य उपदेशं न ददति, तर्हि ते रजस्तमसोः आधिक्यात् सात्त्विकफलाद् अर्थाद् मोक्षात् विमुखाः भविष्यन्ति । तादृशाः रजस्तमसोः आधिक्यतायाः कारणेन अपेक्षितफलस्य साधनानां विषये अज्ञात्वा भोगलोलुपतया विवशाः भविष्यति । तस्यां भोगलोलुपतायां यानि साधनानि सुखसाधनानि न सन्ति, तेषाम् अपि भ्रमवशाद् सुखसाधनं मत्वा उपयोगं कृत्वा नष्टाः भविष्यन्ति । अत एते वेदाः त्रैगुण्यविषयकाः सन्ति । अतस्त्वं निस्त्रैगुण्यः भव । सम्प्रति त्वयि सत्त्वगुणः अधिकः अस्ति, त्वं तस्य गुणस्य वृद्धिं कुरु । अन्योन्यैः सङ्क्रमितैः त्रिगुणैः युक्तः त्वं मा भव । तात्पर्यम् अस्ति यद्, त्रयाणां गुणां प्राचुर्यत्वं मा एधयतात् । निर्द्वन्द्वः अर्थाद् समस्तेभ्यः सांसारिकस्वभावेभ्यः रहितः भव । नित्यसत्त्वस्थः अर्थाद् द्वयोः गुणयोः अर्थाद् रजस्तमोभ्यां रहितः भूत्वा केवलं सत्त्वगुणे नित्यस्थिरो भव ।

यदि त्वं पृच्छेः कथं सत्त्वगुणे स्थिरो भवानि ? इति चेद्, उपायं वदामि यद्, निर्योगक्षेमो भव इति । निर्योगक्षेमः अर्थाद्, आत्मस्वरूपस्य, तस्य प्राप्तेः उपायं च विहाय समस्तेभ्यः अर्थेभ्यः योगः (प्राप्तिः), प्राप्तार्थानां क्षेमः (संरक्षणं) इत्येतयोः त्यागं कृत्वा आत्मवान् भव इति । आत्मस्वरूपस्य अन्वेषणे तत्परः भव । एवं कृत्वा त्वं रजस्तमसोः प्राचुर्येण मुक्तो भविष्यसि । फलस्वरूपं ते सत्त्वगुणे वृद्धिर्भविष्यति । अप्राप्तस्य प्राप्तिः योगः, प्राप्तस्य रक्षा क्षेमः च ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
भोगैश्वर्यप्रसक्तानां...
त्रैगुण्यविषया वेदा... अग्रिमः
यावानर्थ उदपाने...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. ३, श्लो. ३४
  3. गीता, अ. ७, श्लो. २७
  4. गीता, अ. ७, श्लो. २८
  5. गीता, अ. ५, श्लो. ३
  6. गीता, अ. १५, श्लो. ५
  7. गीता, अ. ४, श्लो. २२
  8. गीता, अ. ४, श्लो. ३
  9. गीता, अ. ९, श्लो. २२
  10. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  11. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=त्रैगुण्यविषया_वेदा...&oldid=403612" इत्यस्माद् प्रतिप्राप्तम्