आपूर्यमाणमचलप्रतिष्ठं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.७० आपूर्यमाणमचलप्रतिष्ठम्… इत्यस्मात् पुनर्निर्दिष्टम्)
आपूर्यमाणमचलप्रतिष्ठं...


ज्ञानिपुरुषस्य महिमा
श्लोकसङ्ख्या २/७०
श्लोकच्छन्दः उपजातिच्छन्दः
पूर्वश्लोकः या निशा सर्वभूतानां...
अग्रिमश्लोकः विहाय कामान्यः सर्वान्...

आपूर्यमाणमचलप्रतिष्ठम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः ज्ञानिमहापुरुषस्य महिमानं करोति । पूर्वस्मिन् श्लोके मननशीलस्य संयमिनः पुरुषस्य कृते संसारः रात्रिवत् अस्ति इत्युक्तम् । तेन प्रश्नः उत्पद्यते यत्, किं सः ज्ञानी पुरुषः पदार्थानां सम्पर्के अपि न भवति ? यदि सः पदार्थसम्पर्कं न करोति, तर्हि सः स्वजीवननिर्वाहं कथं करोति ? यदि सः पदार्थसम्पर्कीभवति, तर्हि तस्य स्थितिः कीदृशी भवेत् ? इत्यादीनां प्रश्नानाम् उत्तरं यच्छन् ज्ञानिमहापुरुषस्य प्रशंसां कुर्वन् भगवान् वदति यत्, यथा सर्वासां नदीनां जलं समुद्रे वलीनं भवति, परन्तु समुद्रः सर्वदा स्वमर्यादायाम् अचलः, प्रतिष्ठितः च भवति, तथैव भोगपदार्थेषु विकारम् अनुत्पाद्य यः संयमी मनुष्यः भोग्यपदार्थान् प्राप्नोति, सः मनुष्यः एव परमशान्तिं प्राप्नोति । सः कदापि भोगकामनायुक्तः न भवति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७० ॥

पदच्छेदः[सम्पादयतु]

आपूर्यमाणम्, अचलप्रतिम्, समुद्रम्, आपः, प्रविशन्ति, यद्वत् । तद्वत्, कामाः, यम्, प्रविशन्ति, सर्वे, सः, शान्तिम्, आप्नोति, न, कामकामी ॥

अन्वयः[सम्पादयतु]

आपः आपूर्यमाणम् अचलप्रतिं समुद्रम् यद्वत् प्रविशन्ति तद्वत् सर्वे कामाः यं प्रविशन्ति सः शान्तिम् आप्नोति, कामकामी न ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
आपः आप्-प.स्त्री.प्र.बहु. जलानि
आपूर्यमाणम् अ.पुं.द्वि.एक. उदकेन सम्पूर्यमाणम्
अचलप्रतिष्ठम् अ.पुं.द्वि.एक. निश्चलस्थितिम्
समुद्रम् अ.पुं.द्वि.एक. सागरम्
यद्वत् अव्ययम् यथा
प्रविशन्ति प्र+√विश् प्रवेशने-पर.कर्तरि, लट्.प्रपु.एक. गच्छन्ति
तद्वत् अव्ययम् तथा
सर्वे अ.सर्व.पुं.प्र.बहु. सकलाः
कामाः अ.पुं.प्र.बहु. अभिलाषाः
यम् यद्-द.सर्व.पुं.द्वि.एक. यं पुरुषम्
प्रविशन्ति प्र+√विश् प्रवेशने-पर.कर्तरि, लट्.प्रपु.बहु. यान्ति
सः तद्-द.पुं.एक. सः पुरुषः
शान्तिम् इ.स्त्री.द्वि.एक. सुखम्
आप्नोति √आप्लृ व्याप्तौ-पर.कर्तरि, लट्.प्रपु.एक. लभते
कामकामी कामकामिन्-न.पुं.प्र.एक. भोगासक्तः
अव्ययम् न ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. कामा यम् = कामाः + यम् – विसर्गसन्धिः (लोपः)
  2. स शान्तिम् = सः + शान्तिम् – विसर्गसन्धिः (लोपः)

समासः[सम्पादयतु]

  1. अचलप्रतिष्ठम् = अचला प्रतिष्ठा यस्य सः, तम् - बहुव्रीहिः

कृदन्तः[सम्पादयतु]

  1. आपूर्यमाणम् = आ + पॄ + शानच् (कर्मणि) ।

अर्थः[सम्पादयतु]

समुद्रः सर्वतः अपि जलैः आपूर्यमाणः भवति तथापि सः अचलं तिति । एवं सर्वेऽपि कामाः यं प्रविशन्ति सः शान्तिं प्राप्नोति । भोगे आसक्तस्तु शान्तिं न प्राप्नोति ।

भावार्थः [१][सम्पादयतु]

'आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्' – वर्षाकाले नदीषु जलस्तरः वर्धते । जलातिरेकेन अधिकतमासु नदीषु आप्लवोऽपि जायते । परन्तु चतसृभ्यः दिग्भ्यः तदैव नदीजलं यदा जलपरिपूर्णे समुद्रे पतति, तदा समुद्रे आप्लवः न भवति । समुद्रः तु सर्वदा स्वमर्यादायाम् एव भवति । ततोधिकं यदा ग्रीष्मकाले नदीनां जलस्तरः न्यूनः भवति उत नद्यः शुष्कायन्ते, तदापि समुद्रस्य जलस्तरे न्यूनता न भवति । अस्य तात्पर्यं भवति यत्, नदीनां जलं वर्धते, न्यूनीभवति, वडवानलसूर्याभ्यां शोष्यते च, तथापि समुद्रस्य जलस्तरे न्यूनता वृद्धिः वा न भवति । अर्थात् नदीनां जलस्य अपेक्षां समुद्रः न करोति । सः यथा अस्ति, तथैव स्वमर्यादायां परिपूर्णः भवति ।

'तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति' – तथैव संसारस्य सर्वान् भोगान् सः परमात्मतत्त्वज्ञाता संयमी मनुष्यः प्राप्नोति, तस्य सम्मुखं ते भोगाः उपस्थिताः अपि भवन्ति, परन्तु सः स्वशरीरे, अन्तःकरणे च सुखदुःखरूपिविकारान् जनयितुं न शक्नोति । अतः सः परमशान्तिं प्राप्नोति । तस्य या शान्तिः भवति, सा भोगत्वात् न, अपि तु परमात्मतत्त्वत्वात् भवति [२] । अत्र यस्य 'कामाः' इत्यस्य पदस्य उपयोगः कृतः, तद् पदं कामनावाचकं नास्ति, अपि तु येषां पदार्थानां कामना क्रियते, तेषां भोगपदार्थानां वाचकम् अस्ति ।

अत्र यस्य समुद्रनदीनां जलस्य दृष्टान्तः दत्तः अस्ति, तस्य स्थितप्रज्ञस्य संयमिपुरुषस्य उदाहरणेन सह पूर्णतया तादात्म्यं न वहति । यतः समुद्रनदीनां जले तु सजातीयत्वम् अस्ति । अर्थात् समुद्रं प्रति जलं नदीभ्यः एव आगच्छति । तथा च नदीं प्रति आगच्छज्जलस्य स्रोतः तु समुद्र एवास्ति । परन्तु स्थितप्रज्ञभोगपदार्थयोः वैपरित्यं प्रदर्शयितुं दिनरात्र्योः, आकाशपातालयोः च दृष्टान्तः अपि पूर्णतया तादात्म्यं वोढुं न प्रभवति । यतः स्थितप्रज्ञः यस्मिन् तत्त्वे स्थितः अस्ति, तत्तत्त्वं चेतनं, नित्यं, सत्यम्, असीमम्, अनन्तं च अस्ति । अपरत्र सांसारिकभोगपदार्थाः जडाः, अनित्याः, असत्, सीमिताः, अन्तयुक्ताः च सन्ति ।

द्वितीयः भेदः अस्ति यत्, समुद्रं प्रति नदीनां जलं गच्छति, परन्तु स्थितप्रज्ञः यस्मिन् तत्त्वे स्थितः अस्ति, तत्र सांसारिकभोगपदार्थानाम् अवस्थितिरेव नास्ति । ते भोगाः केवलं साधकस्य लौकिकशरीरं यावदेव अवतिष्ठन्ति । अतः समुद्रस्य दृष्टान्तः स्थितप्रज्ञस्य शरीरस्य, अन्तःकरणस्य च स्थितिं दर्शयितुम् एव प्रदत्तम् । स्थितप्रज्ञस्य वास्तविकस्वरूपं दर्शयितुम् एषः दृष्टान्तः नास्ति ।

'न कामकामी' – येषां मनसि भोगपदार्थानां कामना अस्ति, येषां मनसि भोगपदार्थान् प्रति महत्त्वभावः अस्ति, येषां दृष्टिः सर्वदा पदार्थान् प्रति एव भवति, ते असीमितान् भोगपदार्थान् प्राप्नुवन्ति चेदपि तृप्ताः न भवन्ति । तेषां कामना, उद्वेगः, सन्तापः च दूरीभवितुं नार्हति । यतः चेतनस्वरूपस्य तृप्तिः जडपदार्थैः अशक्या ।

शाङ्करभाष्यम् [३][सम्पादयतु]

विदुषः त्यक्तैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः न तु असंन्यासिनः कामकामिनः इत्येतमर्थं दृष्टान्तेन प्रतिपादयिष्यन् आह - आपूर्येति ।

आपूर्यमाणम्  अद्भिः  अचलप्रतिष्ठम्  अचलतया प्रतिष्ठा अवस्थितिः यस्य तम् अचलप्रतिष्ठं  समुद्रम् आपः  सर्वतो गताः  प्रविशन्ति  स्वात्मस्थमविक्रियमेव सन्तं  यद्वत् तद्वत् कामाः  विषयसंनिधावपि सर्वतः इच्छाविशेषाः  यं  पुरुषम् समुद्रमिव आपः अविकुर्वन्तः  प्रविशन्ति  सर्वे आत्मन्येव प्रलीयन्ते न स्वात्मवशं कुर्वन्ति  सः शान्तिं  मोक्षम्  आप्नो ति    इतरः  कामकामी  काम्यन्त इति कामाः विषयाः तान् कामयितुं शीलं यस्य सः कामकामी नैव प्राप्नोति इत्यर्थः ।।

भाष्यार्थः[सम्पादयतु]

ये तिसृणाम् एषणानां त्यागं कृतवन्तः, तादृशाः विद्वांसः संन्यासिनः स्थितप्रज्ञाः एव मोक्षं प्राप्नुवन्ति । भोगकामिनः असन्न्यासिनः मोक्षं न प्राप्नुवन्ति । एनम् अभिप्रायं दृष्टान्तेन प्रतिपादनेच्छुको भगवान् कथयति –

यथा जलेन पूर्णे अचले प्रतिष्ठिते समुद्रे परितः जलं पतति, तथापि तस्मिन् न कोऽपि विकारः उत्पद्यते, ततोधिकं तज्जलं तस्मिन् समुद्रे विलीनम् अपि भवति, तथैव विषयाणां सङ्गे सत्यपि समुद्रे नदीजलवत् सर्वाः इच्छाः मनुष्ये विकारम् अनुत्पाद्य अन्तर्भवन्ति । अर्थात् यैः स्वकामनाः आत्मनि विलीनीकृताः, तेषामुपरि भोगपदार्थानां प्रभावः न भवति (ते भोगपदार्थेभ्यः न वशीभवन्ति) ।

ते पुरुषाः शान्तिम् उत मोक्षं प्राप्नुवन्ति । अन्ये ये भोगपदार्थकामिनः सन्ति, ते शान्तिम् उत मोक्षं न प्राप्नुवन्ति । अभिप्रायः अस्ति यत्, यान् भोग्यपदार्थान् प्राप्तुम् एषणा भवति, ते भोग्यपदार्थाः एव कामः अस्ति । तेषां प्राप्तेः इच्छा येषां स्वभावः अस्ति, ते कामकामिनः सन्ति । ते शान्तिम् उत मोक्षं कदापि न प्राप्नुवन्ति इति ।

रामानुजभाष्यम् [४][सम्पादयतु]

यथा आत्मना एव  आपूर्यमाणम्  एकरूपं  समुद्रं  नादेया  आपः प्रविशन्ति  आसाम् अपां प्रवेशे अपि अप्रवेशे वा समुद्रो न कञ्चन विशेषम् आपद्यते। एवं  सर्वे कामाः  शब्दादिविषया  यं  संयमिनं  प्रविशन्ति इन्द्रियगोचरतां यान्ति  स शान्तिम् आप्नोति।  शब्दादिषु इन्द्रियगोचरताम् आपन्नेषु अनापन्नेषु च स्वात्मावलोकनतृप्त्या एव यो न विकारम् आप्नोति स एव शान्तिम् आप्नोति इत्यर्थः  न कामकामी  यः शब्दादिभिर्विक्रियते स कदाचिद् अपि न शान्तिम् आप्नोति।

भाष्यार्थः[सम्पादयतु]

आत्मना परिपूर्णे एकरूपे समुद्रे नदीनां जलं प्रविशति । तस्य जलस्रोतसः प्रवेशेऽप्रवेशे वा समुद्रः किमपि न विशेषताङ्गच्छति । तथैव समस्ताः कामशब्दादयः विषयाः यस्मिन् संयमिनि पुरुषे प्रविशन्ति अर्थाद् विषयाः इन्द्रियैः सेव्यन्ते चेद्, सः शान्तिं प्राप्नोति । अभिप्रायः अस्ति यद्, इन्द्रियैः शब्दादिविषयाणां सेवने कृतेऽकृते वापि यः पुरुषः स्वस्य आत्मसाक्षात्कारेण सर्वदा तृप्तत्वाद् अविकारी भवति । स एव शान्तिं प्राप्नोति, न तु भोगकामी । अर्थाद् यः शब्दादिविषयैः विकारं प्राप्नोति, सः कदापि शान्तिं न प्राप्नोति इति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
या निशा सर्वभूतानां...
आपूर्यमाणमचलप्रतिष्ठं... अग्रिमः
विहाय कामान्यः सर्वान्...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. २, श्लो. ४६
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  4. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]