मयि सर्वाणि कर्माणि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(३.३० मयि सर्वाणि इत्यस्मात् पुनर्निर्दिष्टम्)
मयि सर्वाणि कर्माणि...


आसक्तेः मुक्त्यै मार्गः
श्लोकसङ्ख्या ३/३०
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः प्रकृतेर्गुणसम्मूढाः...
अग्रिमश्लोकः ये मे मतमिदं नित्यम्...

मयि सर्वाणि कर्माणि () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आसक्तेः मुक्त्यै मार्गं प्रदर्शयति । पूर्वस्मिन् श्लोके भगवान् अज्ञानिनः अविचालयितुं ज्ञानिपुरुषाय आज्ञां ददाति । ततः अत्र यस्मात् कारणात् मनुष्यः कर्मसु बद्धः भवति, तस्मात् कर्मणः, कर्मफलस्य च आसक्तेः मुक्त्यै किं करणीयम् इति भगवान् बोधयति । सः कथयति यद्, त्वं विवेकवत्या बुद्ध्या सर्वाणि कर्माणि मह्यम् अर्पयित्वा कमना-ममता-सन्तापरहितः भूत्वा युद्धरुपिणि कर्तव्यकर्म कुर्विति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥

पदच्छेदः[सम्पादयतु]

मयि सर्वाणि कर्माणि संन्यस्य अध्यात्मचेतसा निराशीः निर्ममः भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥

अन्वयः[सम्पादयतु]

अध्यात्मचेतसा सर्वाणि कर्माणि मयि सन्न्यस्य निराशीः निर्ममः विगतज्वरः भूत्वा युध्यस्व ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
अध्यात्मचेतसा आत्मनिमनसा
सर्वाणि निखिलानि
कर्माणि कर्तव्यानि
मयि भगवति
सन्न्यस्य समर्प्य
निराशीः निष्कामः
निर्ममः ममताशून्यः
विगतज्वरः विगतभयः
भूत्वा स्थित्वा
युध्यस्व युद्धं कुरु ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. सन्न्यस्याध्यात्मचेतसा = सन्न्यस्य + अध्यात्मचेतसा – सवर्णदीर्घसन्धिः
  2. निराशीर्निर्ममः = निराशी + निर्ममः विसर्गसन्धिः (रेफः)
  3. निर्ममो भूत्वा = निर्ममः + भूत्वा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणश्च

समासः[सम्पादयतु]

  1. अध्यात्मचेतसा = आत्मनि इति अध्यात्मम् – अव्ययीभावः
    1. अध्यात्मं चेतः, तेन – सप्तमीतत्पुरुषः
  2. विगतज्वरः = विगतः ज्वरः यस्मात् सः – बहुव्रीहिः
  3. निराशीः = निर्गता आशीः यस्मात् सः - बहुव्रीहिः

कृदन्तः[सम्पादयतु]

  1. सन्न्यस्य = सम् + नि + अस् + ल्यप्

अर्थः[सम्पादयतु]

भवान् आत्मनि एव मनः स्थापयन् सर्वकर्माणि भगवते समर्प्य आशारहितः ममकारशून्यः विगतभयश्च भूूत्वा युद्धं करोतु ।

भावार्थः[सम्पादयतु]

'मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा' – बहुधा साधकानां याच्ञा भवति यद्, कर्मणः बन्धनं भवति, अकर्मकः कोऽपि स्थातुं न शक्नोति इति । अत एव कर्म बन्धनकारकम् अभूत्वा मुक्तिकारकं भवेद् इति शक्यम् अस्ति । तत् कथं शक्यम् इति बोधयितुं भगवान् अर्जुनं कथयति यद्, त्वम् आध्यात्मचित्तो भूत्वा अर्थात् विवेकविचारयुक्तान्तःकरणवान् भूत्वा सर्वाणि कर्तव्यकर्माणि मह्यं समर्पयस्व । अर्थात् तेन कर्तव्यकर्मणा सह स्वस्य सम्बन्धं मा चिन्तयस्वेति । यतो हि संसारमात्रस्य सर्वासु क्रियासु केवलं मे शक्तिरेव विद्यते । शरीरेन्द्रियपदार्थाः मे सन्ति, शक्तिरपि मम । 'सर्वं भगवतः अस्ति, भगवान् च मे' इति गाम्भीर्येण विचिन्त्य यदा त्वं कर्तव्यकर्म करिष्यसि, तदा ताभिः कर्मभिः त्वं न भन्त्स्यसे (बद्धः न भविष्यसे) । प्रत्युत ताभिः कर्मभिः त्वम् उद्ध्रियिष्यसे (तव उद्धारः भविष्यति) ।

शरीरेन्द्रियमनोबुद्धिपदार्थादिषु स्वस्य अधिकारः न इति सर्वेषाम् अनुभवः । ते सर्वे तु 'प्रकृत्याधीनाः' अतः 'प्रकृतिस्थानि' इति । चेतनः स्वयं परमात्मनः । अतः 'ममैवांशो जीवलोके' [१] इति उक्तम् । एवं शरीरादिषु मे अधिकारः न, अपि तु ईश्वरस्य अधिकारोऽस्ति इति सत्यतां स्वीकृत्य यः कर्तव्यकर्मणः पालनं करोति, सः सर्वम् ईश्वराय 'अर्पणम्' अकरोद् इति उच्यते । अतः स्वस्य विवेकस्य महत्त्वं ज्ञात्वा पदार्थैः, कर्मभिः च सह मूर्खतावशात् मन्यमानस्य सम्बन्धस्य त्याग एव 'अर्पणम्' इति ।

'अध्यात्मचेतसा' इत्यस्य पदस्य तात्पर्यम् अस्ति यद्, यस्य कस्यापि पथः साधकः स्यात्, तस्य उद्देश्यं तु आध्यात्मिकता एव स्यात्, न तु लौकिकता । वस्तुतः उद्देशः, आवश्यकता च सदैव नित्यत्त्वस्य अर्थाद् आध्यात्मिकतायाः एव भवति । प्रत्युत कामना सर्वदा अनित्यतत्त्वस्य अर्थाद् उत्पत्तिविनाशीलपदार्थानामेव भवति । साधके उद्दशः स्यान्न कामना । उद्देशपूर्णम अन्तःकरणं विवेकविचारयुक्तमेव भवति । दार्शनिकदृष्ट्या, वैज्ञानिकदृष्ट्या च शरीरादीनां भौतिकपदार्थानाम् उपरि मनुष्यस्य आधिपत्यं न सिध्यति । वस्तुतः ते पदार्थाः उपभोगाय न अपि तु परमार्थाय सन्ति । तेषु मनुष्यस्य अधिकाराभावदेव तेषु न कस्यापि आधिप्तयं भवति । सम्पूर्णः संसारः ईश्वरस्य अस्ति, परन्तु जीवः भ्रमवशात् तत्सर्वं मे इति बुध्यते [२] [३] । एवं सः बध्यते । 'निराशीनिर्ममो भूत्वा युध्वस्य विगतज्वरः' – सर्वाणि कर्माणि, पदार्थान् च भगवते समर्प्य मनुष्यस्य जीवने कामनायाः, ममतायाः, सन्तापस्य च अंशोऽरि नावशिष्यते । यथा - कश्चन मनुष्यः अपराय पुस्तकं पठितुं ददाति । पठितारं दृष्ट्वा 'एषः मे पुस्तकं पठति' इति दाता चिन्तयति, तदेव आंशिकी ममता उच्यते । पुस्तकार्पणोत्तरम् अपि मनुष्ये सा आंशिकी ममता अवशिष्यते । अतः भगवान् तस्याः आंशिक्याः ममतायाः त्यागं कृत्वा नवीनवस्तोः कामनाम् अकृत्वा नष्टवस्तोः सन्तापं मा कुरु इति अर्जुनं कथयति । कामना-ममता-सन्तापानाम् अन्तिमांशमात्रम् अपि समर्पणोत्तरं नावशिष्येत ।

यद्यपि ये साधकाः ईश्वराय सर्वस्वं समार्पयन्, तथापि ते पूर्वसंस्कारत्वाच्छरीरादिषु कामना-ममता-सन्तापं च अनुभवन्ति, तेभ्यः अपि निराशायाः विषयो नास्ति । यतो हि यः स्वस्मिन् कामनां पश्यति, स एव कामनारहितेन भवितुं प्रयतते । एवं यः अहं शरीरम् इति यः चिन्तयति, स एव विदेहिना भवितुं प्रयतते । 'ज्वर' इति शब्दः आगीताच्छास्त्रे अत्र एव उपयुक्तः । युद्धे कौटुम्बिकस्नेहादित्वाद् सन्तापोद्भवस्य सम्भावना भवति । अतः युद्धरूपिणि कर्तव्यकर्तणि रते सति सावधानतया व्यवहर्तुं भगवान् 'विगतज्वरः' इत्थं पदस्य उपयोगं करोति । एवं भगवान अर्जुनाय कर्तव्यकर्मणः पालनाय आदिशति । कर्तव्यपालनाय निःसन्तापः साधकः सिद्ध्यसिद्धयोः, अनुकूलप्रतिकूलतयोः च चिन्तां न करोति चेत्, सः 'विगतज्वरः' इति उच्यते ।

मर्मः[सम्पादयतु]

यदा साधकस्य उद्देश्यं केवलं परात्मप्राप्तेः एव भवति, तदा तस्य सर्वाः अपि सामग्र्यः साधनरूपिणी भवन्ति । उत्कृष्टा, निकृष्टा इत्येतौ द्वौ विभागौ सामग्र्याः न भवतः । यत्किमपि अस्ति, भगवते अर्पणीयम् अस्ति । सर्वाणि कर्माणि ईश्वराय समर्प्य स्वस्मिन् कामना-ममता-सन्तापाः प्रतीयन्ते, ते अपि ईश्वाराय समर्पणीयाः । योगारूढेन भवितुं कर्म एव साधनत्वेन उक्तम् अस्ति [४] । यतो हि कर्तव्यकर्म कृते सत्येव साधकं स्वविकासस्तरं ज्ञातुं प्रभवति । यथा कश्चन सेवाभावी साधकः जनसेवां करोति । कालान्तरे तस्य कार्यं दृष्ट्वा यदा कश्चन तस्मै पुरस्कारं ददाति उत तस्य प्रशंसां करोति, तदा सः तस्मिन् रसम् अनुभवति । सा रसानुभूतिः साधकाय प्रतिबिम्बवत् कार्यं करोति । तेन साधकः ज्ञातुं प्रभवति यद्, तस्य स्तरः किम् ? इति । तस्य कृते तेन नैरन्तर्येण कर्म करणीयं भवत्येव ।

भगवान् ध्यानापेक्षया कर्मफलत्यागम् उत्तमं परिगणयते [५] । किञ्च ध्यानकाले साधकस्य दृष्टिः विशेषतया मनसः चाञ्चल्ये एव भवति । ध्यये स्वमनसः लीनत्वमेव साधकस्य लक्ष्यं भवति । परन्तु तस्मिन् कार्ये मनसः चाञ्चल्यातिरिक्ताः दोषाः (कामना-ममतादयः) अवगणयति सः । तेषां दोषानां सञ्ज्ञानं तु कर्मरते सत्येव भवति । अत एव भगवान् प्रस्तुते श्लोके 'युद्धस्व' इति कर्तव्यकर्मणः पालनाय आज्ञाम् अददात् ।

शाङ्करभाष्यम्[सम्पादयतु]

कथं पुनः कर्मण्यधिकृतेनाज्ञेन मुमुक्षुणा कर्म कर्तव्यमित्युच्यते-मयीति। मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्यध्यात्मचेतसाविवेकबुद्धयाहं कर्तेशवराय भृत्यवत्करोमीत्यनया बुद्धया। किंच निराशीस्त्यक्ताशीर्निर्ममो ममभावश्च निर्गतो यस्य तव स त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरोविगतज्वरो विगतसंतापो विगतशोकः सन्नित्यर्थः।।30।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
प्रकृतेर्गुणसम्मूढाः...
मयि सर्वाणि कर्माणि... अग्रिमः
ये मे मतमिदं नित्यम्...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. गीता, अ. १५ , श्लो. ७
  2. द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् । ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ।। महाभारतम्, शान्तिपर्व, अ. १३, श्लो. ४
  3. महाभारतम्, आश्वमेधिकपर्व, अ. १३, श्लो. १४
  4. आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते, गीता, अ. ६ , श्लो. ३
  5. गीता, अ. १२ , श्लो. १२

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मयि_सर्वाणि_कर्माणि...&oldid=403574" इत्यस्माद् प्रतिप्राप्तम्