न कर्मणामनारम्भात्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(३.४ न कर्मणामनारम्भात् इत्यस्मात् पुनर्निर्दिष्टम्)
न कर्मणामनारम्भात्...


कर्मत्यागनिषेधः
श्लोकसङ्ख्या ३/४
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः लोकेऽस्मिन् द्विविधा निष्ठा...
अग्रिमश्लोकः न हि कश्चित्क्षणमपि...

न कर्मणामनारम्भाद् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मत्यागनिषेधं वदति । पूर्वस्मिन् श्लोके द्वयोः निष्ठयो उपस्थापनं कृत्वा अत्र भगवान् न कस्यामपि निष्ठायाः कारणेन कर्मणां त्यागः अनुचितः इति वदति । सः कथयति यद्, मनुष्यः केवलं कर्मणः अनारम्भाद् निष्कामताम् अर्थाद् योगनिष्ठां प्राप्तुं न शक्नोति । तथा च कर्मणां त्यागमात्रेणापि सिद्धिम् अर्थाद् साङ्ख्यनिष्ठां प्राप्तुं न शक्नोति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥

पदच्छेदः[सम्पादयतु]

न कर्मणाम् अनारम्भात् नैष्कर्म्यं पुरुषः अश्नुते न च संन्यसनात् एव सिद्धिं समधिगच्छति ॥ ४ ॥

अन्वयः[सम्पादयतु]

पुरुषः कर्मणाम् अनारम्भात् नैष्कर्म्यं न अश्नुते । (कर्मणाम्) संन्यसनात् एव सिद्धिं च न समधिगच्छति ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
पुरुषः मनुष्यः
कर्मणाम् क्रियाणाम्
अनारम्भात् अनाचरणात्
नैष्कर्म्यम् कर्मराहित्यम्
न अश्नुते न लभते
संन्यसनात् सर्वकर्मपरित्यागात्
सिद्धिं च आत्मज्ञानं च
न समधिगच्छति न सम्प्राप्नोति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. अनारम्भान्नैष्कर्म्यम् = अनारम्भात् + नैष्कर्म्यम् – अनुनासिकसन्धिः
  2. पुरुषोऽश्नुते = पुरुषः + अश्नुते – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  3. सन्नासनात् = सम् + न्यसनात् – अनुस्वारः, अनुनासिकसन्धिश्च

समासः[सम्पादयतु]

  1. अनारम्भात् = न आरम्भः अनारम्भः, तस्मात् - नञ्तत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. सन्न्यसनात् = सम् + नि + अस् + लुट् (भावे), तस्मात् ।

तद्धितान्तः[सम्पादयतु]

  1. नैष्कर्म्यम् = निष्कर्म + ष्यञ् । निष्कर्मणः भावः इत्यर्थः ।

अर्थः[सम्पादयतु]

मनुष्यः कर्मणः अनाचरणेन निष्कर्मतां न लभते । तथा कर्मत्यागमात्रेण आत्मज्ञानमपि न विन्दति ।

भावार्थः[सम्पादयतु]

'न कर्मणामनारम्भान्नैशष्कर्म्यं पुरुषोऽश्नुते' – एतस्मिन् कर्मयोगे कर्मणः अत्यन्तं प्राधान्यम् अस्ति । यतो हि निष्कामभावेन कर्मणि कृते एव कर्मयोगः सिद्ध्यति । तां सिद्धिं मनुष्यः कर्मत्यागेन प्राप्तुं न शक्नोति । यः योगरूढो भवितुम् इच्छति, सः स्वस्मिन् समतां साधयितुं प्रयतते । तस्याः समतायाः कृते निष्कामभावेन कर्म अत्यन्तम् आवश्यकम् अस्ति [१] । यदि साधकः कर्म करिष्यति, तर्हि सः ज्ञास्यति यद्, सः सिद्ध्यसिद्ध्ययोः समः आसीद् उत विचलितः । कर्मणाम् अभावे सः कथं ज्ञास्यति ? मनुष्यस्य अन्तःकरणे कर्मणः कृते यः वेगः विद्यमानः भवति, तं शान्तं कृत्वा कामनायाः त्यागे कृते कर्तव्यकर्म आवश्यकं भवति । कामनायां सत्यां कर्मणः वेगः न दूरीभवति, प्रत्युत वर्धते । 'नैष्कर्म्यम् अश्नुते' – कर्मयोगस्य आचरणं यः करोति, तादृशः मनुष्यः कर्म कुर्वन्नेव निष्कर्मतां प्राप्नोति । यस्यां स्थित्यां मनुष्यस्य कर्माणि अकर्माणि भवन्ति अर्थाद् बन्धनकर्तॄणि न भवन्ति, सा स्थितिः 'निष्कर्मता' इति । कामनारहितेन कृतानि कर्माणि फलशक्तिं न वहति । यथा बीजं भुर्जयित्वा उत पक्वे कृते तस्मात् अङ्कुरस्फोटनशक्तिः सर्वथा नष्टा भवति, तथैव निष्कामनुष्यस्य कर्मसु मनुष्यस्य नाशाय (पुनः जन्ममरणयोः चक्रे पातनाय) शक्तिः न भवति । कामनायाः त्यागः तदैव शक्यः यदा सर्वाणि कर्मणि अन्येभ्यः भवेयुः न तु स्वस्मै । यतो हि कर्ममात्रस्य सम्बन्धः संसारेण सह अस्ति, स्वस्य च सम्बन्धः परमात्मना सह अस्ति । स्वेन सह कर्मसम्बन्धः नास्त्येव । अतः यावत्पर्यन्तं स्वस्मै कर्म कुर्मः, तावता कामनात्यागः न भवति । यावता कामनात्यागः न भवति, तावता निष्कामतायाः प्राप्तिः न असम्भवा ।

'न च सन्न्यासनादेव सिद्धिं समधिगच्छति' – एतस्य श्लोकस्य पूर्वार्धे भगवान् कर्मयोगस्य दृष्ट्या अवदत् यद्, कर्मणः आरम्भम् अकृत्वा कर्मयोगी निष्कामतां प्राप्तुं न प्रभवति । अत्र उत्तरार्धे साङ्ख्ययोगस्य दृष्ट्या वदति यद्, केवलं कर्मणां स्वरूपाद् त्यागे कृते सति साङ्ख्ययोगस्य सिद्धिः न भवति अर्थाद् निष्कामतायाः प्राप्तिः न भवति इति । सिद्धप्राप्तै साधकेन अहन्तायाः अर्थाद् कर्तृभावस्य त्यागः अत्यावश्यकः । अतः साङ्ख्ययोगिभ्यः कर्मणां स्वरूपाद् त्यागः न प्रमुखः, अपि तु अहन्तायाः त्यागः प्रमुखः । साङ्ख्ययोगे कर्माचरणे न दोषः कुत्रचिद् कर्मत्यागः अपि योग्यः । परन्तु कर्मयोगे तु सिद्धप्राप्त्यै कर्म अनिवार्यमेव [२]

मर्मः[सम्पादयतु]

श्रीमद्भगवद्गीता व्यवाहरेण परमार्थः कथं सिद्धयति इति बोधयति । तस्य आशयः कर्तव्यकर्मणः पालने अस्ति, न तु त्यागे । अतः भगवान् कर्मयोगे, ज्ञानयोगे च कर्माचरणस्य चर्चां करोति । यदा साधकः स्वस्य कल्याणम् इच्छति, तदा सः सांसारिककर्मेभ्यः व्याकुलः भवति इति वास्तविकता अस्ति । सः सर्वाणि कर्माणि त्यक्त्वा विमुक्तिम् इच्छति । एवमेव कर्मभ्यः व्याकुलः अर्जुनः भगवन्तं पृच्छति यद्, यदि कर्मज्ञानयोगयोः तात्पर्यं समता भवति, तदा कर्मणः कावश्यकता ? इति । परन्तु भगवान् उभयोः साधनयोः (कर्मज्ञानयोगयोः) अर्जुनाय कर्म कर्तुम् आज्ञापयति [३] [४] । अतः सिद्ध्यति यद्, भवगतः अभिप्रायः कर्मस्वरूपस्य त्यागः न अपि तु कर्तव्यकर्मणः पालनम् अस्ति । कर्मणा सह यानि नाशात्मकानि तत्त्वानि सन्ति, अर्थाद् कामना-ममता-आसक्त्यादयः, तेभ्यः स्वरक्षणं कर्तुं साधकाय उपदिशति ।

कर्मणः त्यागम् अकृत्वा साधकेन तस्माद् सम्बन्धः विच्छेत्तव्यः । कर्मयोगी निःस्वार्थभावेन कर्माणि कुर्वन् शरीरेन्द्रियमनोबुद्ध्यादीनां पदार्थानां सांसारिकत्वं ज्ञात्वा तान् संसारस्य सेवायै उपयोजयति । सः कर्मभिः, पदार्थैः च सह स्वस्य सम्बन्धं न मन्यते [५] । ज्ञानयोगे सदसतोः विवेकस्य प्राधान्यं भवति । अत एव ज्ञानयोगी चिन्तयति यद्, गुणाः एव गुणेषु विद्यमानाः सन्ति । अर्थात् शरीरेन्द्रियमोबुद्ध्यादिभिः एव कर्माणि जायमानानि सन्ति । मम कर्मभिः सह किञ्चिदपि सम्बन्धः नास्ति इति [६] [७] । सर्वेषां साधकानाम् अनुभवः अस्ति यद्, कल्याणस्य तीव्राभिलषायां जाग्रतायां सत्यां कर्म-पदार्थ-परिवारेभ्यः अरुचिः उत्पद्यते इति । परन्तु शरीरेण सह घनिष्टे सम्बन्धे स्थापिते सति सा विश्रामस्य इच्छा एव । सा विश्रामेच्छा एव साधकस्य उन्नतौ बाधिका भवति । साधकः चिन्तयति यद्, कर्म-पदार्थ-व्यक्तीनां(परिवाराणां) स्वरूपात् त्यागे कृते सति परमार्थमार्गः सुकरः भविष्यति इति । परन्तु वस्तुतः कर्मणः स्वरूपस्य त्यागापेक्षया तस्य आसक्तेः त्यागः एव आवश्यकः । साङ्ख्ययोगे उत्कटवैराग्येन विना आसक्त्याः त्यागः कठिनः मन्यते । परन्तु कर्मयोगे वैरागस्य न्यूनतायां सत्याम् अपि केवलम् अन्येभ्यः कर्तव्यकर्मपालनत्वाद् आसक्तेः त्यागः सुकरः भवति । एकान्तवासं कृत्वा साधानायाः गीतायाम् अपि समर्थनम् अस्ति । परन्तु एतान्ते सात्त्विकपुरुषाः तु भक्तौ एव समयं यापयन्ति । परन्तु रजस्प्रधानः, तमस्प्रधानश्च पुरुषः क्रमेण सङ्कल्पविकल्पादिषु, आलस्यनिद्राप्रमादादिषु समयं यापयन्ति । अतः साधकस्य रुचिः तु एकान्तवासे एव भवेत् । परन्तु सांसारिककर्मणां त्यागं कृत्वा पारमार्थिककार्येषु एव सक्रिय भवेत् । कर्तव्यरूपेण यत् कर्म सम्मुखम् उपतिष्ठेत्, तस्याचरणं तत्परतया सह कुर्यात् । तस्मिन् कर्मणि रागः उत द्वेषः न भवेत् । रागः न तु जनसमुदाये भवेत्, न तु अकर्मण्यतायाम् । सर्वत्र रागस्य अभावः साधकस्य कल्याणं साधयति । वस्तुतः शरीरस्य एकान्तत्वमेव वास्तविकम् एकान्तं न । यतो हि शरीरं संसारस्य एव अङ्गम् अस्ति । अतः तस्माद् सम्बन्धविच्छेदे कृते अहन्तायाः, ममतायाः च त्यागः वास्तविकः एकान्तः इति ।

शाङ्करभाष्यम्[सम्पादयतु]

न कर्मणामिति । न कर्मणामनारम्भादप्रारम्भात् कर्मणां यज्ञादीनामिह जन्मनि जन्मान्तरे वानुष्ठितानामुपात्तदुरितक्षयहेतुत्वेन सत्त्वशुद्धिकारणानां तत्कारणत्वेन च ज्नोत्पत्तिद्वारेण ज्नननिष्ठहेतूनणां "ज्ननमुत्पध्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि"। [मो।ध।२०४।८] इत्यादिस्मरणात् अनारम्भादननुष्ठानान्नैष्कर्म्यं निष्कर्मभावं कर्मशून्यतां ज्ननयोगेन निष्ठां निष्क्रियात्मस्वरूपेणैवादस्थानमिति यावत्। पुरुषो नाशनुते न प्राप्नोतीत्यर्थः ॥

कर्मणामनारंभान्नैष्कर्म्यं नाश्नुत इति वचनात्तद्विपर्ययात्तेषामारंभान्नैष्कर्म्यमश्नुत इति गम्य्ते । क्स्मात्पुनः कारणात्कर्मणामनारंभान्नैष्कर्म्यं नाश्नुत इति? उच्य्ते । कर्मारंभस्यैव नैष्कर्म्योपायत्वात्। न हि उपायमन्तरेण उपायप्राप्तिरस्ति ।कर्म योगोपायत्वं च नैष्कर्म्यलक्षणस्य ज्ननयोगस्य् श्रृताविह च प्रतिपादनात् । श्रृतौ तावत् प्रकृतस्य आत्मलोकस्य वेद्यस्य वेदनोपायत्वेन "तमेतं वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्नेन" [बृ।४।४।२२] इत्यादिना कर्मयोग्स्य ज्ननयोगोपायत्वं प्रतिपादितम् । इहापि च "सन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः" [गी।५।६], 'योगिनः कर्म कुर्वन्ति संङ्गं त्यक्तवात्मशुद्धये' [५।११।], '‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्' [गी।१८।५] - इत्यादि प्रतिपादयिष्यति ॥

ननु च "अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्" इत्यादौ कर्तव्यकर्मसन्यासादपि नैष्कर्मप्राप्ति दर्शयति लोके च कर्मणामनारंभान्नैष्कर्म्यमिति प्रसिद्धतरम् । अतश्च नैष्कर्म्यार्थिनः किं कर्मारंभेणेति प्राप्तम् । अत आह न च संन्यासनादेवेति । नापि संन्यासनादेव केवलात्कर्मपरित्यागमात्रादेव ज्ननारहीतात् सिद्धिं नैष्कर्म्यलक्षणां ज्ननयोगेन निष्ठां समधिगच्चति न प्राप्नोति॥४॥

कस्मात पुनः कारणात् कर्मसंन्यासमात्रादेव केवलात् ज्ञानरहितात् सिद्धिं नैष्कर्म्यलक्षणां पुरुषो नाधिगतच्छतीति हेत्वाकाङ्क्षायामाह-

भाष्यार्थः[सम्पादयतु]

बन्धनहेतुभूते कर्मणि एव भगवान् मां योजयति इति मन्यमानं व्यथितचित्तं कर्मत्यागतत्परम् अर्जुनम् उद्दिश्य भगवान् अवदत्, 'न कर्मणामनारम्भात्' इति । अथवा ज्ञाननिष्ठायाः, कर्मनिष्ठायाः च परस्परं विरोधत्वात् एकेन पुरुषेण एकस्मिन् काले तयोः अनुष्ठानम् अशक्यम् । अतः परस्परम् अपेक्षारहिते ते भिन्नतया मोक्षहेतू स्तः इति शङ्का उद्भवति । ज्ञाननिष्ठायाः प्राप्त्यां साधनत्वात् कर्मनिष्ठा मोक्षरूपिणि पुरुषार्थे हेतुः अस्ति, स्वतन्त्रा नास्ति, तथा च कर्मनिष्ठारूपिणः उपायात् सिद्ध्यमानायै ज्ञाननिष्ठायै अन्यस्य अपेक्षा नास्ति, अतः सा स्वतन्त्रा अस्ति, मुक्तहेतुः च अस्ति इति स्पष्टयितुं भगवान् अवदत् – कर्मणाम् आरम्भम् अकृत्वा अर्थात् यज्ञादिकर्मणां आचरणम् एतस्य जन्मनः कृते उत जन्मान्तराय च क्रियते, येषां कर्मणाम् आचरणेन सञ्चितानां पापानाम् उच्छेदोत्तरम् अन्तःकरणं शुद्धं भवति, 'पापाकर्मणां नाशे सति मनुष्यानाम् अन्तःकरणे ज्ञानोत्पत्तिः जायते' एतादृशानां स्मृतिवाक्यानाम् अनुसारं यज्ञादिकर्माणि अन्तःकरणशुद्धेः साधनम् अस्ति, तेषां यज्ञादिकर्मणाम् आरम्भम् अकृत्वा मनुष्यः निष्कर्मण्यभावं (कर्मशून्यस्थितिं) न प्राप्नोति । तात्पर्यम् अस्ति यद्, निष्क्रियात्मस्वरूपे या स्थितिरूपिणी ज्ञानयोगात् प्राप्यमाणा निष्ठा अस्ति, तां निष्ठां न प्राप्नोति इति ।

पू. – कर्मणाम् आरम्भे अकृते सति निष्कामभावः नोत्पद्यते । अनेन सिद्ध्यति यद्, एतस्मात् विपरीताचरणेन अर्थात् कर्मणाम् आकम्भे कृते सति मनुष्यः निष्कर्मभावं लभते इति । अतः अत्र किं कारणम् अस्ति यद्, कर्मणाम् आरम्भम् अकृत्वा मनुष्यः निष्कामतां प्राप्तुं न पारयति ?

उ. – यतो हि कर्मणाम् आरम्भः एव निष्कर्मतायाः प्राप्तेः उपायः अस्ति । उपायं विना उपेयस्य प्राप्तिः असम्भवा इति प्रसिद्धम् । निष्कामरूपिणः ज्ञानयोगस्य उपायः कर्मयोगः अस्ति इति श्रुतिषु, गीताशास्त्रे च प्रतिपादितम् अस्ति । श्रुतिषु ज्ञेयरूपिणः आत्मलोकस्य प्रप्त्यै उपायस्य प्रतिपादितम् अस्ति यद्, ' ब्राह्मणाः वेदाध्यनेन, यज्ञादिना च तम् आत्मानं ज्ञातुं प्रयतन्ते' इति [८] । एतादृशैः वचनैः कर्मयोगः ज्ञानयोगस्य उपायः इति प्रतिपादितम् अस्ति ।

'हे महाबाहो ! कर्मयोगेन विना सन्न्यासप्राप्तिः कठिना अस्ति ।[९]', 'अन्तःकरणशुद्ध्यै योगिनः आसक्तिं त्यक्त्वा कर्म कुर्वन्ति ।[१०]', 'यज्ञ-दान-तपांसि बुद्धिमतः पवित्रीकुर्वन्ति ।[११]' इत्यादिभिः वचनैः अत्र गीताशास्त्रेऽपि प्रतिपादितम् अस्ति ।

'सर्वेभ्यः भूतेभ्यः अभयदानं दत्त्वा सन्न्यासं स्वीकुर्यात्' इत्यादिषु वचनेषु कर्तव्यकर्मणां त्यागेनापि निष्कर्मतायाः प्राप्तिः प्रतिपादिता, लोकेऽपि कर्मणाम् आरम्भाभावात् निष्कर्मतायाः प्राप्तिः प्रसिद्धा । तर्हि निष्कर्मतेच्छुकैः कर्मारम्भात् किं प्रयोजनम् इत्येतस्यां शङ्कायां सत्यां वदति यद्, केवलं सन्न्यासादेव अर्थात् ज्ञानं विना केवलं कर्मपरित्यागमात्रेण मनुष्यः निष्कर्मतारूपं सिद्धिं न अर्जयति । अर्थात् ज्ञानयोगेन साधितायां स्थित्यां न प्रतिष्ठते इति ।

भाष्यार्थः[सम्पादयतु]

सर्वेषु संसारिपुरुषेषु मोक्षेच्छायाः उत्पद्योत्तरं सहसा ज्ञानयोगस्य साधना कठिना अस्ति इति कथयति – शास्त्रविहतकर्मणाम् आरम्भम् अकृत्वा एव कोऽपि मनुष्यः निष्कर्मताम् अर्थात् ज्ञाननिष्ठां न लभत । तात्पर्यम् अस्ति यद्, समस्तेन्द्रियाणां व्यापाररूपकर्मणाम् उपरत्या उत्पद्यमानां ज्ञाननिष्ठां कर्मणाम् अनारम्भमात्रेण प्राप्तुं न शक्नोति, तथा च आरब्धानां शास्त्रविहितकर्मणां त्यागेनापि ज्ञाननिष्ठां लब्धुं प्रभवति इति । यतो हि यानि कर्माणि फलाभिसन्धिं त्यक्त्वा केवलं परमपुरुषस्य आराधनायै क्रियन्ते, तेषां कर्मणां फलमेव आत्मनिष्ठा अस्ति । अतः तेषां त्यागेन आत्मनिष्ठा नोपलभ्यते । यैः पुरुषैः फलाभिसन्धिरहितैः कर्मभिः भगवतः गोविन्दस्य आरधना न कृता, तथा च अनादिकालात् प्रवृत्तस्य अनन्तपापराशेः नाशः न कृतः, तादृशेभ्यः मनुष्येभ्यः इन्द्रियाणां विकाररहितस्थित्योत्तरं प्राप्यमाणायाः आत्मनिष्ठायाः सम्पादनं कठिनं भवति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
लोकेऽस्मिन् द्विविधा निष्ठा...
न कर्मणामनारम्भात्... अग्रिमः
न हि कश्चित्क्षणमपि...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते, गीता, अ. ६, श्लो. ३
  2. गीता, अ. ६, श्लो. ३
  3. योगस्थ कुरु कर्माणि, गीता, अ. २, श्लो. ४८
  4. तस्माद्युध्यस्व भारत !, गीता, अ. २, श्लो. १८
  5. गीता, अ. ५, श्लो. ११
  6. गीता, अ. ३, श्लो. २८
  7. गीता, अ. ५, श्लो. ८,९
  8. तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन, बृहदारण्यकोपनिषत्, ४/४/२२
  9. सन्न्यासस्तु महोबाहो दुःखमाप्तुमयोगतः
  10. योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये
  11. यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=न_कर्मणामनारम्भात्...&oldid=403582" इत्यस्माद् प्रतिप्राप्तम्