६.२८ युञ्जन्नेवं सदा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

युञ्जन् एवं सदा आत्मानं योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते।

अन्वयः[सम्पादयतु]

विगतकल्मषः योगी एवं सदा आत्मानं युञ्जन् सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते।

शब्दार्थः[सम्पादयतु]

विगतकल्मषः = नष्टमालिन्यः
योगी = योगवान्
एवम् = इत्थम्
सदा = सर्वकाले
आत्मानम् = स्वम्
युञ्जन् = प्राप्नुवन्
सुखेन = आनन्देन
ब्रह्मसंस्पर्शम् = परमात्ममेलनं
अत्यन्तम् = बहु ।
सुखम् = आनन्दम् ।
अश्नुते = खादति ।

अर्थः[सम्पादयतु]

सदा यः आत्मचिन्तनं करोति सः सुखेन परमात्मानं प्राप्नोति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=६.२८_युञ्जन्नेवं_सदा...&oldid=482181" इत्यस्माद् प्रतिप्राप्तम्