सर्वभूतस्थितं यो मां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(६.३१ सर्वभूतस्थितं यो... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य एकत्रिंशत्तमः(३१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सर्वभूतस्थितं यः मां भजति एकत्वम् आस्थितः सर्वथा वर्तमानः अपि सः योगी मयि वर्तते ॥

अन्वयः[सम्पादयतु]

एकत्वम् आस्थितः यः सर्वभूतस्थितं मां भजति, सः योगी सर्वथा वर्तमानः अपि मयि वर्तते ।

शब्दार्थः[सम्पादयतु]

एकत्वम् = ऐक्यम्
आस्थितः = आश्रितः
यः = यः मानवः
सर्वभूतस्थितम् = सकलप्राणिषु वर्तमानम्
माम् = माम्
भजति = सेवते
सः योगी = सः युक्तः
सर्वथा = सर्वप्रकारेण
वर्तमानः अपि = स्थितोऽपि
मयि = परमात्मनि
वर्तते = तिष्ठति ।

अर्थः[सम्पादयतु]

सर्वेषु भूतेषु वर्तमानं मां यः एकत्वमास्थितः सन् भजति सः योगी सर्वप्रकारैः वर्तमानः अपि मयि एव भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]