चञ्चलं हि मनः कृष्ण...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(६.३४ चञ्चलं हि मनः... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

श्लोकः[सम्पादयतु]

गीतोपदेशः
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुस्त्रिंशत्तमः(३४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

चञ्चलं हि मनः कृष्ण प्रमाथि बलवत् दृढम् तस्य अहं निग्रहं मन्ये वायोः इव सुदुष्करम् ॥

अन्वयः[सम्पादयतु]

कृष्ण ! मनः हि चञ्चलं बलवत् दृढं प्रमाथि । अहं तस्य निग्रहं वायोः इव सुदुष्करं मन्ये ।

शब्दार्थः[सम्पादयतु]

कृष्ण = हे कृष्ण !
मनः हि = चित्तं तावत्
चञ्चलम् = अस्थिरम्
बलवत् = प्रबलम्
दृढम् = दृढम्
प्रमाथि = प्रमथनशीलम्
अहम् = अहम्
तस्य = मनसः
निग्रहम् = निरोधम्
वायोः इव =वातस्य निरोधम् इव
सुदुष्करम् = असाध्यम्
मन्ये = भावयामि ।

अर्थः[सम्पादयतु]

हे कृष्ण ! मनः अत्यन्तं चञ्चलं, प्रमथनशीलं च । तद् नितरां बलवत् । केनापि नियन्तुम् अशक्यम् । अच्छेद्यमपि तत् । एवम्भूतस्य मनसः निग्रहः वायोः निग्रहः इव अत्यन्तं दुष्करः इति अहं मन्ये ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चञ्चलं_हि_मनः_कृष्ण...&oldid=482128" इत्यस्माद् प्रतिप्राप्तम्