अयतिः श्रद्धयोपेतो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(६.३७ अयतिः श्रद्धयों... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

अर्जुन उवाच -

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ३७ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य सप्तत्रिंशत्तमः(३७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अयतिः श्रद्धया उपेतः योगात् चलितमानसः अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥

अन्वयः[सम्पादयतु]

कृष्ण ! श्रद्धया उपेतः अयतिः योगात् चलितमानसः योगसंसिद्धिम् अप्राप्य कां गतिं गच्छति ?

शब्दार्थः[सम्पादयतु]

कृष्ण = हे कृष्ण !
श्रद्धया = आसक्त्या
उपेतः = युक्तः
अयतिः = प्रयत्नरहितः
योगात् = योगमार्गात्
चलितमानसः = भ्रष्टचित्तः
योगसंसिद्धिम् = योगफलम्
अप्राप्य = अलब्ध्वा
काम् = कीदृशीम्
गतिम् = स्थितिम्
गच्छति = प्राप्नोति ।

अर्थः[सम्पादयतु]

हे कृष्ण ! श्रद्धया युक्तः अपि यः अल्पप्रयत्नः भवति, तेन च यस्य मनः योगात् चलितं भवति सः योगस्य फलं ज्ञानं न प्राप्नोति । तस्य का गतिः भवति ?

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अयतिः_श्रद्धयोपेतो...&oldid=482219" इत्यस्माद् प्रतिप्राप्तम्