प्राप्य पुण्यकृतां लोकान्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(६.४१ प्राप्यपुण्यकृतां... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
प्राप्य पुण्यकृताँल्लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य एकचत्वारिंशत्तमः(४१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

प्राप्य पुण्यकृतान् लोकान् उषित्वा शाश्वतीः समाः शुचीनां श्रीमतां गेहे योगभ्रष्टः अभिजायते ॥

अन्वयः[सम्पादयतु]

योगभ्रष्टः पुण्यकृतां लोकान् प्राप्य शाश्वतीः समाः उषित्वा शुचीनां श्रीमतां गेहे अभिजायते ।

शब्दार्थः[सम्पादयतु]

योगभ्रष्टः = योगात् च्युतः
पुण्यकृताम् = पुण्यकर्मणाम्
लोकान् = भुवनानि
प्राप्य = लब्ध्वा
शाश्वतीः = शाश्वतीः
समाः = वत्सरान्
उषित्वा = वासम् अनुभूय
शुचीनाम् = पवित्राणाम्
श्रीमताम् = विभूतिमताम्
गेहे = गृहे
अभिजायते = उत्पद्यते ।

अर्थः[सम्पादयतु]

सः योगभ्रष्टः पुण्यकर्मिभिः प्राप्यमाणान् लोकान् प्राप्य तत्र अनेकसंवत्सरं वसति । ततः सदाचारसम्पन्नानां धनिनां गृहे जन्म प्राप्नोति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]