तत्र तं बुद्धिसंयोगं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(६.४३ तत्र तं बुद्धिसंयों... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य त्रिचत्वरिंशत्तमः(४३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् यतते च ततः भूयः संसिद्धौ कुरुनन्दन ॥

अन्वयः[सम्पादयतु]

कुरुनन्दन ! तत्र तं पौर्वदेहिकं बुद्धिसंयोगं लभते । ततः च संसिद्धौ भूयः यतते ।

शब्दार्थः[सम्पादयतु]

कुरुनन्दन = हे अर्जुन !
तत्र = तत्र कुले
पौर्वदेहिकम् = पूर्वशरीरसम्बन्धिनम्
तम् = तम्
बुद्धिसंयोगम् = मतिसम्बन्धम्
लभते = प्राप्नोति
ततः च = तस्मात्
संसिद्धौ = योगसिद्धौ
भूयः = अधिकम्
यतते = प्रयत्नं करोति ।

अर्थः[सम्पादयतु]

हे अर्जुन ! योऽयं योगभ्रष्टः श्रीमतां योगिनां वा कुले जातः पूर्वस्मिन् देहे या आसीत् तामेव आत्मविषयिकां बुद्धिं प्राप्नोति । ततः सः मोक्षार्थं प्रयत्नं करोति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]