कामैस्तैस्तैर्हृतज्ञानाः ...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(७.२० कामैस्तै तैः ... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कामैः तैः तैः हृतज्ञानाः प्रपद्यन्ते अन्यदेवताः तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥ २० ॥

अन्वयः[सम्पादयतु]

तैः तैः कामैः हृतज्ञानाः स्वया प्रकृत्या नियताः तं तं नियमम् आस्थाय अन्यदेवताः प्रपद्यन्ते ।

शब्दार्थः[सम्पादयतु]

तैः तैः = अनेकविधैः
कामैः = अभिलाषैः
हृतज्ञानाः = अपगतविवेकाः
स्वया = स्वकीयेन
प्रकृत्या = स्वभावेन
नियताः = नियन्त्रिताः
तं तम् = बहुप्रकारम्
नियमम् = जपोपवासरूपं नियमम्
आस्थाय = आश्रित्य
अन्यदेवताः = इतरदेवताः
प्रपद्यन्ते = भजन्ते ।

अर्थः[सम्पादयतु]

अनेकविधैः अभिलाषैः अपगतविवेकाः केचन जनाः स्वस्य स्वभावेन नियन्त्रिताः सन्तः तं तं जपोपवासादिरूपं नियमम् आश्रित्य मां विहाय अन्याः देवताः भजन्ते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]