अव्यक्तं व्यक्तिमापन्नं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(७.२४ अव्यक्तं व्यक्तिमां... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अव्यक्तंव्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः परं भावम् अजानन्तः मम अव्ययम् अनुत्तमम् ॥ २४ ॥

अन्वयः[सम्पादयतु]

अबुद्धयः मम अनुत्तमं परम् अव्ययं भावम् अजानन्तः अव्यक्तंमां व्यक्तिम् आपन्नं मन्यन्ते ।

शब्दार्थः[सम्पादयतु]

अबुद्धयः = अविवेकिनः
मम = मे
अनुत्तमम् = उत्तमोत्तमम्
परम् = उत्कृष्टम्
अव्ययम् = नाशरहितम्
भावम् = स्वरूपम्
अजानन्तः = अविदन्तः
अव्यक्तम् = अप्रकाशम्
माम् = माम्
व्यक्तिम् = प्रकाशम्
आपन्नम् = प्राप्तवन्तम्
मन्यन्ते = चिन्तयन्ति ।

अर्थः[सम्पादयतु]

अविवेकिनः मम उत्तमोत्तमम् उत्कृष्टम् नाशरहितं स्वरूपम् अजानन्तः अप्रकाशं मां मत्स्यकूर्मादिरूपेण प्रकाशं प्राप्तवन्तं चिन्तयन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]