ओमित्येकाक्षरं ब्रह्म....

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(८.१३ ॐ इत्येकाक्षरं... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ओम् इति एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् यः प्रयाति त्यजन् देहं सः याति परमां गतिम् ॥

अन्वयः[सम्पादयतु]

सर्वद्वाराणि संयम्य मनः हृदि निरुध्य च आत्मनः प्राणं मूर्ध्नि आधाय योगधारणाम् आस्थितः ओम् इति एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् यः देहं त्यजन् प्रयाति सः परमां गतिं याति ।

शब्दार्थः[सम्पादयतु]

सर्वद्वाराणि = सर्वाणि इन्द्रियाणि
संयम्य = निगृह्य
मनः = चित्तम्
हृदि = हृदयपद्मे
निरुध्य च = नियम्य च
आत्मनः = स्वस्य
प्राणम् = वायुम्
मूर्ध्नि = शिरसि
आधाय = स्थापयित्वा
योगधारणाम् =समाधिम्
आस्थितः = प्राप्तः
ओम् इति एकाक्षरम् = एकाक्षररूपम् ओारम्
ब्रह्म = ब्रह्मवाचकत्वात् तद्रूपम्
व्याहरन् = उच्चारयन्
माम् अनुस्मरन् = मां ध्यायन्
यः = यः मानवः
देहम् = शरीरम्
त्यजन् = मुञ्चन्
प्रयाति = गच्छति
सः = सः मानवः
परमाम् = उत्कृष्टाम्
गतिम् = स्थितिम्
याति = लभते ।

अर्थः[सम्पादयतु]

सकलप्रवेशद्वाराणि (नवद्वाराणि) निगृह्य चित्तं हृदये संस्थाप्य च स्वस्य प्राणं शिरसि स्थापयित्वा समाधिं प्राप्तः एकाक्षरं ब्रह्मवाचकत्वात् साक्षात् ब्रह्मरूपम् ओारम् उच्चारयन् मां ध्यायन् यः मानवः शरीरं मुञ्चति सः उत्कृष्टां गतिं लभते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]