सहस्रयुगपर्यन्तम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(८.१७ सहस्रयुगपर्यन्तम्.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य सप्तदशः (१७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सहस्रयुगपर्यन्तम् अहः यत् ब्रह्मणः विदुः रात्रिं युगसहस्रान्तां ते अहोरात्रविदः जनाः ॥ १७ ॥

अन्वयः[सम्पादयतु]

ब्रह्मणः यत् अहः सहस्रयुगपर्यन्तं ये विदुः ते अहोरात्रविदः जनाः रात्रिं युगसहस्रान्तां विदुः ।

शब्दार्थः[सम्पादयतु]

ब्रह्मणः = प्रजापतेः
अहः = दिनम्
सहस्रयुगपर्यन्तम् = युगसहस्रावधिकम्
ये विदुः = ये जानन्ति
ते अहोरात्रविदः = ते कालज्ञाः
जनाः = मानवाः
रात्रिम् = निशाम्
युगसहस्रान्ताम् = युगसहस्रावधिकीम्
विदुः = जानन्ति ।

अर्थः[सम्पादयतु]

कालज्ञाः जनाः प्रजापतेः दिनं युगसहस्रमिति वदन्ति, तथा रात्रिं युगसहस्रम् । तस्मात् ब्रह्मलोकादयः क्षणिकाः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सहस्रयुगपर्यन्तम्...&oldid=418876" इत्यस्माद् प्रतिप्राप्तम्