अधियज्ञः कथं कोऽत्र...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(८.२ अधियज्ञः कर्थं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ २ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अधियज्ञः कथं कः अत्र देहे अस्मिन् मधुसूदन प्रयाणकाले च कथं ज्ञेयः असि नियतात्मभिः ॥ २ ॥

अन्वयः[सम्पादयतु]

पुरुषोत्तम ! किं तद् ब्रह्म ? किम् अध्यात्मम् ? किं कर्म ? किम् अधिभूतं च प्रोक्तम् ? अधिदैवं किम् उच्यते ? मधुसूदन ! अत्र अस्मिन् देहे अधियज्ञः कः ? कथम् ? नियतात्मभिः प्रयाणकाले कथं च ज्ञेयः असि ?

शब्दार्थः[सम्पादयतु]

पुरुषोत्तम = पुरुषश्रे ! (कृष्ण)
किं तत् ब्रह्म = ब्रह्मनामकं तत् किम् ?
अध्यात्मं किम् = अध्यात्मं नाम किम् ?
कर्म किम् = कर्म नाम किम् ?
अधिभूतं च = अधिभूतम् इति
किं प्रोक्तम्=किंस्वरूपं भणितम् ?
अधिदैवम् = अधिदैवम् इति
किम् उच्यते = किंस्वरूपं कथ्यते ?
मधुसूदन = मधुविनाशक कृष्ण !
अत्र = अत्र
अस्मिन् देहे = एतस्मिन् शरीरे
अधियज्ञः = अधियज्ञः इत्येषः
कः = किंस्वरूपः ?
कथम् = सः केन प्रकारेण भवति ?
नियतात्मभिः = संयतचित्तैः योगिभिः
प्रयाणकाले = मरणसमये
कथं च =केन प्रकारेण च
ज्ञेयः असि = ज्ञातुं योग्यः भवसि ?

अर्थः[सम्पादयतु]

पुरुषोत्तम ! ब्रह्म किम् ? अध्यात्मं किम् ? कर्म किम् ? अधिभूतं किम् ? अधिदैवं किम् ? अधियज्ञः कः ? मानवेन अन्तकाले त्वं कथं स्मरणीयः भवसि ?

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अधियज्ञः_कथं_कोऽत्र...&oldid=418394" इत्यस्माद् प्रतिप्राप्तम्