मयाध्यक्षेण प्रकृतिः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.१० मयाध्यक्षेण प्रकृं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मया अध्यक्षेण प्रकृतिः सूयते सचराचरम् हेतुना अनेन कौन्तेय जगत् विपरिवर्तते ॥ १० ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! अध्यक्षेण मया प्रकृतिः सचराचरं सूयते । अनेन हेतुना जगत् विपरिवर्तते ।

शब्दार्थः[सम्पादयतु]

कौन्तेय = अर्जुन !
मया अध्यक्षेण = साक्षिभूतस्य मम सन्निधिमात्रेण
प्रकृतिः = माया
सचराचरम् = सजमस्थावरं जगत्
सूयते = उत्पादयति
अनेन = एतेन
हेतुना = कारणेन
जगत् = प्रपञ्चः
विपरिवर्तते = विपरिणमते ।

अर्थः[सम्पादयतु]

साक्षिभूतस्य मम सन्निधिमात्रेण प्रकृतिरियं स्थावरजमात्मकम् इमं प्रपञ्चम् उत्पादयति । उत्पन्नश्च सः मत्सन्निधिवशादेव नानाकारः प्रतिभासते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]