इदं तु ते गुह्यतमं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.१ इदं तु ते गुह्यतं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
श्रीभगवानुवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

इदं तु ते गुह्यतमं प्रवक्ष्यामि अनसूयवे ज्ञानं विज्ञानसहितं यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ १ ॥

अन्वयः[सम्पादयतु]

अनसूयवे ते इदं तु गुह्यतमं विज्ञानसहितं ज्ञानं प्रवक्ष्यामि यत् ज्ञात्वा अशुभात् मोक्ष्यसे ।

शब्दार्थः[सम्पादयतु]

विज्ञानसहितम् = उपासनयुक्तम्
गुह्यतमम् = गोप्यतमम्
इदं तु = एतत्
ज्ञानं = ज्ञानम्
अनसूयवे = ईर्ष्यारहिताय
ते = तुभ्यम्
प्रवक्ष्यामि = वदिष्यामि
यत् = यत् ज्ञानम्
ज्ञात्वा = विज्ञाय
अशुभात् = अनर्थात्
मोक्ष्यसे = परित्यक्ष्यसे ।

अर्थः[सम्पादयतु]

अर्जुन ! यदिदम् आत्मज्ञानम् तस्य च यदुपासनं तदुभयमपि ते कथयामि यत् ज्ञात्वा अनिष्टात् अस्मात् संसारात् मुक्तिं प्राप्नोषि ।

सम्बद्धसम्प्र्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=इदं_तु_ते_गुह्यतमं...&oldid=418479" इत्यस्माद् प्रतिप्राप्तम्