त्रैविद्या मां सोमपाः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.२० त्रैविद्या मां .... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

त्रैविद्या मां सोमपाः पूतपापाः यज्ञैः इष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ॥ २० ॥

अन्वयः[सम्पादयतु]

त्रैविद्याः सोमपाः पूतपापाः मां यज्ञैः इष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यं सुरेन्द्रलोकम् आसाद्य दिवि दिव्यान् देवभोगान् अश्नन्ति ।

शब्दार्थः[सम्पादयतु]

त्रैविद्याः = वेदत्रयविदः
सोमपाः = सोमपायिनः
पूतपापाः = अपगतकिल्बिषाः
यज्ञैः = क्रतुभिः
माम् इष्ट्वा = मां पूजयित्वा
स्वर्गतिम् = स्वर्गगमनम्
प्रार्थयन्ते = याचन्ते
ते = ते जनाः
पुण्यम् =पवित्रम्
सुरेन्द्रलोकम् = इन्द्रलोकम्
आसाद्य = प्राप्य
दिवि = स्वर्गे
दिव्यान् = स्वर्गस्थितान्
देवभोगान् = सुरभोगान्
अश्नन्ति = अनुभवन्ति ।

अर्थः[सम्पादयतु]

वेदत्रयविदः केचित् सोमयागेन इन्द्रादीन् सन्तोष्य यागशेषं सोमं च पीत्वा स्वर्गं प्राप्नुवन्ति । तत्र कञ्चित् कालं वसन्तः दिव्यान् भोगान् अनुभवन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]