अहं हि सर्वयज्ञानां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.२४ अहं हि सर्वं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य चतुर्विंशतितमः(२४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अहं हि सर्वयज्ञानां भोक्ता च प्रभुः एव च न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते ॥ २४ ॥

अन्वयः[सम्पादयतु]

अहम् एव हि सर्वयज्ञानां भोक्ता च प्रभुः च । ते मां तत्त्वेन न तु अभिजानन्ति । अतः च्यवन्ति ।

शब्दार्थः[सम्पादयतु]

अहम् एव सर्वयज्ञानाम् = अहम् एव सकलक्रतूनाम्
भोक्ता च = अनुभविता च
प्रभुः च = स्वामी च
ते तु तत्त्वेन = ते तु यथावत्
मां न अभिजानन्ति = मां न सम्यक् विदन्ति
अतः = तस्मात्
च्यवन्ति = फलात् भ्रष्टाः भवन्ति ।

अर्थः[सम्पादयतु]

अहमेव सर्वेषां यज्ञानां भोक्ता फलस्य प्रदाता च । एवं ये न जानन्ति ते कर्मफलं भुक्त्वा तदन्ते च्यवन्ते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अहं_हि_सर्वयज्ञानां...&oldid=418450" इत्यस्माद् प्रतिप्राप्तम्