पत्रं पुष्पं फलं तोयं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.२६ पत्रं पुष्पं फलं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

पत्रं पुष्पं फलं तोयं यः मे भक्त्या प्रयच्छति तत् अहं भक्ति उपहृतम् अश्नामि प्रयतात्मनः ॥ २६ ॥

अन्वयः[सम्पादयतु]

यः पत्रं पुष्पं फलं तोयं मे भक्त्या प्रयच्छति प्रयतात्मनः भक्त्युपहृतं तत् अहम् अश्नामि ।

शब्दार्थः[सम्पादयतु]

यः = यः मानवः
पत्रम् = पर्णम्
पुष्पम् = कुसुमम्
फलम् = फलम्
तोयम् = उदकम्
मे = मह्यम्
भक्त्या = प्रीत्या
प्रयच्छति = ददाति
प्रयतात्मनः = निगृहीतमनस्कस्य
भक्त्युपहृतम् = भक्त्या समर्पितम्
तत् = तद्वस्तु
अहम् अश्नामि = अहं परिगृह्णामि ।

अर्थः[सम्पादयतु]

यस्तु मनः निगृह्य पत्रं पुष्पं फलं तोयं च भक्त्या प्रयच्छति भक्त्या प्रदत्तं तत्सर्वम् अहम् अवश्यं परिगृह्णामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]