शुभाशुभफलैरेवं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.२८ शुभाशुभफलैः.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य अष्टाविंशतितमः(२८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

शुभाशुभफलैः एवं मोक्ष्यसे कर्मबन्धनैः सन्न्यासयोगयुक्तात्मा विमुक्तः माम् उपैष्यसि ॥ २८ ॥

अन्वयः[सम्पादयतु]

एवं शुभाशुभफलैः कर्मबन्धनैः मोक्ष्यसे । सन्न्यासयोगयुक्तात्मा विमुक्तः माम् उपैष्यसि ।

शब्दार्थः[सम्पादयतु]

एवम् = इत्थम्
शुभाशुभफलैः = इष्टानिष्टफलैः
कर्मबन्धनैः = कर्मजन्यैः पापैः पुण्यैः च
मोक्ष्यसे = मुक्तिं प्राप्स्यसि
संन्यासयोगयुक्तात्मा = कर्मसमर्पणरूपयोगसहितः
विमुक्तः = कर्मरूपबन्धविमुक्तः
माम् उपैष्यसि = मां लप्स्यसे ।

अर्थः[सम्पादयतु]

एवं सर्वस्यापि कर्मणः मयि अर्पणेन त्वं तत्फलीभूतैः शुभाशुभैः पुण्यपापैः मुक्तो भविष्यसि । एवं कर्मसन्न्यासरूपेण सहितः बन्धनात् विमुक्तश्च अन्ते मां प्राप्नोषि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शुभाशुभफलैरेवं...&oldid=418830" इत्यस्माद् प्रतिप्राप्तम्