अपि चेत्सुदुराचारो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.३० अपि चेत्सु.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ३० ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य त्रिंशत्तमः(३०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अपि चेत् सुदुराचारः भजते माम् अनन्यभाक् साधुः एव स मन्तव्यः सम्यक् अव्यवसितः हि सः ॥ ३० ॥

अन्वयः[सम्पादयतु]

अपि चेत् सुदुराचारः अनन्यभाक् मां भजते सः साधुः एव मन्तव्यः । सः हि सम्यक् व्यवसितः ।

शब्दार्थः[सम्पादयतु]

अपि चेत् सुदुराचारः = दुराचारोऽपि स्यात् तथापि
यः अनन्यभाक् = यः अनन्यभक्तिः
मां भजते = मां सेवते
सः = सः मानवः
साधुः एव = सद्वृत्तः एव
मन्तव्यः = ज्ञातव्यः
हि = यतः
सः = सः मानवः
सम्यक् = यथावत्
व्यवसितः = निश्चितवान् ।

अर्थः[सम्पादयतु]

यदि कश्चित् दुराचारोऽपि एकाग्रचित्तः मां भजति तर्हि सः साधुरित्येव मे मतिः यतः स सम्यगेव निश्चयं कृतवान् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अपि_चेत्सुदुराचारो...&oldid=418418" इत्यस्माद् प्रतिप्राप्तम्