किं पुनर्ब्राह्मणाः पुण्या...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.३३ किं पुनर्ब्राह्मणाः.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

किं पुनः ब्राह्मणाः पुण्याः भक्ताः राजर्षयः तथा अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥ ३३ ॥

अन्वयः[सम्पादयतु]

पुण्याः भक्ताः ब्राह्मणाः तथा राजर्षयः पुनः किम् ? (तस्मात्) इमम् अनित्यम् असुखं लोकं प्राप्य मां भजस्व ।

शब्दार्थः[सम्पादयतु]

(ये पुनः) पुण्याः = पुण्याधिक्यविशिष्टाः
भक्ताः = अनुरक्ताः
ब्राह्मणाः = ब्राह्मणकुलजाः
तथा = तथा
राजर्षयः = राजर्षयः
किं पुनः = तान् अधिकृत्य किं वक्तव्यम्
(तस्मात्) अनित्यम् = तस्मात् नश्वरम्
असुखम् = सुखरहितम्
इमम् = अमुम्
लोकम् = देहम्
पाप्य = लब्ध्वा
मां भजस्व = मां सेवस्व ।

अर्थः[सम्पादयतु]

एवं पापयोनयः स्त्रीवैश्यादयः एव मां भजमानाः परमां शान्तिम् अवाप्नुवन्तीति स्थिते पुण्यवन्तः भक्ताः च ये ब्राह्मणाः राजानश्च ते तादृशीं शान्तिं प्राप्नुवन्तीति पुनः वक्तव्यं किम् ? तस्मात् यावद् अयं देहो भविष्यति तावदेव शीघ्रं मम सेवने प्रवर्तस्व ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]