अश्रद्धधानाः पुरुषा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.३ अश्रद्धधानाः.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अश्रद्दधानाः पुरुषाः धर्मस्य अस्य परन्तप अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥

अन्वयः[सम्पादयतु]

परन्तप ! अस्य धर्मस्य अश्रद्दधानाः पुरुषाः माम् अप्राप्य मृत्युसंसारवर्त्मनि निवर्तन्ते ।

शब्दार्थः[सम्पादयतु]

परन्तप = शत्रुतापन !
अस्य = एतस्य
धर्मस्य = आत्मज्ञानरूपस्य धर्मस्य
अश्रद्दधानाः = विश्वासरहिताः
पुरुषाः = मानवाः
माम् = माम्
अप्राप्य = अलब्ध्वा
मृत्युसंसारवर्त्मनि = मरणसहित- संसारमार्गे
निवर्तन्ते = प्रत्यागच्छन्ति ।

अर्थः[सम्पादयतु]

येषाम् अस्मिन् उपासनसहिते आत्मज्ञाने धर्मसम्मते श्रद्धा नास्ति ते मां न प्राप्नुवन्ति, प्रत्युत जरामरणादियुक्तम् इमं संसारमार्गमेव प्रत्यायान्ति ।

सम्बद्धसम्प्र्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अश्रद्धधानाः_पुरुषा...&oldid=418437" इत्यस्माद् प्रतिप्राप्तम्