न च मां तानि कर्माणि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.९ न च मां तानि.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य नवमः(९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवत् असीनम् असक्तं तेषु कर्मसु ॥ ९ ॥

अन्वयः[सम्पादयतु]

धनञ्जय ! तेषु कर्मसु असक्तं च उदासीनवत् आसीनं मां तानि कर्माणि न निबध्नन्ति ।

शब्दार्थः[सम्पादयतु]

धनञ्जय = अर्जुन !
उदासीनवत् = उपेक्षकवत्
आसीनम् = तिन्तम्
तेषु कर्मसु = तेषु कर्मविशेषेषु
असक्तं च माम् = असक्तं माम्
तानि कर्मणि = कर्मविशेषाः
न निबध्नन्ति = न संयच्छन्ति ।

अर्थः[सम्पादयतु]

यद्यपि अहं प्रकृतिम् अवलम्ब्य सृष्ट्यादीनि कार्याणि करोमि तथापि तत्र निरपेक्षतया स्थितिरिति हेतोः तानि कर्माणि मां न बध्नन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=न_च_मां_तानि_कर्माणि...&oldid=418623" इत्यस्माद् प्रतिप्राप्तम्