'भारतं त्यजन्तु' आन्दोलनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

ब्रिटिश् जनाः भारतं त्यजन्तु इति घोषणस्य आन्दोलनं महात्मागान्धेः नेतृत्वे क्रि.श.१९४२तमे वर्षे आरब्धम् । पूर्वम् एतत् असहकारान्दोलनम् इति आसीत् । ब्रिटिष् हस्तात् भारतस्य विमोचनम् एव अस्य सत्याग्रहस्य परमं लक्ष्यम् आसीत् । तस्मिन् एव वर्षे अगस्ट् अष्टमे दिने गोवाली क्रीडाङ्गणे गान्धिमहात्मना करोतु नो चेत् प्राणान् त्यजतु इति घोषणपूर्वकम् आरब्धम् इदम् आन्दोलनम् । अस्य घोषणस्य २४होरातः पूर्वमेव काङ्ग्रेस् पक्षस्य नेतारः ब्रिटिष् अधिकरिभिः बद्धाः भूत्वा कारावारे एव वर्षं यापयन् ।

बेङ्गळूरुनगरे शोभायात्रा

==द्वितीयमहायुद्धं भारतस्य पात्रं च । क्रि.श.१९४२तमे वर्षे ब्रिटिष् अधिकारिणः द्वितीयमाहयुद्धे भारतस्य नेतॄन् अपरिगणय्य भारतस्य सेनायाः उपयोगम् अकुर्वन् । अनेन कुपितः सुभाष्चन्द्रबोसः भारतीयराष्ट्रियसेनां जपान् देशस्य सहाय्येन एकीकृतवान् । इयं सेना अस्सामस्य बङ्गालस्य बर्मायाः अरण्यप्रदेशेषु आङ्ग्लैः सह वीरावेशेन युद्धम् अकरोत् । किन्तु जपानीयानाम् अपूर्णसहकारात् अयुधानां च अभावात् पराजयः प्राप्तः । बोस् महोदयस्य धैर्यसाहसादिभिः आकृष्टाः भारतीययुवानः अस्य अन्दोलनम् प्राविशन् । द्वितीयमहयुद्धस्य आरम्भकाले कङ्ग्रेस् पक्षस्य कार्यकारिणीसभा ब्रिटिष् सर्वकारस्य क्रमं समर्थयति किन्तु फलरूपेण भारताय् पूर्णस्वातन्त्र्यं दातव्यम् इति आग्रहम् अकरोत् । किन्तु ब्रिटिष् सर्वकारः एतत् वचनं न आश्रुणोत् । काङ्ग्रेस् पक्षस्य अस्मिन् निर्णये गान्धिमहात्मनः आलम्बनं नासीत् । यतः ब्रिटिष् सर्वकारस्य चिन्तनं नायकत्वम् एव विश्वासयोग्यं नास्ति इति अस्य भावः आसीत् ।

बेङ्गळूरुनगरे सार्वजनिकसमावेशः

शीघ्रस्वान्तन्त्र्यप्राप्तये निर्णयः[सम्पादयतु]

क्रि.श.१९४२तमे वर्षे जुलैमाससय् १४दिनाङ्के काङ्ग्रेस् पक्षः ब्रिट्न्तः भारतस्य सम्पूर्णस्वातन्त्र्यार्थं निर्णयमेकं प्रैषयत् । यदि इयम् अभ्यर्थना तिरस्कृता तर्हि असहकारान्दोलनम् आरप्स्यते इति घोषणा कृता । किन्तु अस्मिन् विषये पक्षे एव ऐकमत्यं नासीत् । सि.राजगोपालाचारीमहोदयः अनेन हेतुना एव अन्यैः प्रादेशिकनेतृभिः सह पक्षम् अत्यजत् । जवाहर लाल नेह्रू मौलाना आज़ाद् च एतं निर्णयं अनुमन्येते अपि गान्धिमहोदयस्य नायकत्वं विश्वस्य तूष्णीं स्थितवन्तौ । सरदार पटेल् डा.बाबू राजेन्द्रप्रसादः च एतं निर्णयं बहिरङ्गे एव समालम्बितवन्तौ । किन्तु अन्यपक्षाः अस्य सहमतं न सूचितवन्तः । भारतीयकम्युनिष्टपक्षः हिन्दुमहासभा च अस्य विरोधम् एव अकुरुताम् । मोहम्मद् अलि जिन्ना इत्यस्य विरोधस्य कारणेन अधिकाः मुसल्मानजनः ब्रिटिश् पक्षं समालम्बनम् अकुर्वन् । अनेन मुस्लिम् लीग् पक्षीयानां कृते सर्वकारीयः अधिकारः प्राप्तः । क्रि.श.१९४२तमे वर्षे अगस्ट् मासस्य अष्टमे दिने अखिलभारतकाङ्ग्रेस् समितिः मुम्बै अधिवेशने भारतं त्यजन्तु इति घोषणस्य निर्णयः प्रस्थावितः । मुम्बयी नगरस्य गोवालिक्रीडाङ्गणे अहिंसात्मकम् असहकारान्दोलनम् आरब्धुं सूचनां दत्तवान् । ब्रिटिश् सर्वकारम् अनवलम्ब्य एव जीवनं निर्वोढुम् अपि सूचितवान् । अस्य आह्वानम् अङ्गीकृत्य सहस्राधिकाः भारतीयाः समागच्छन् ।

आन्दोलननिग्रहः[सम्पादयतु]

जपान्देशस्य सेना यदा बर्मायाः सीमाप्रदेशे पादार्पणम् अकरोत् तदा ब्रिटिष् अधिकारिणः गान्धिमहोदयं बन्धनं कृतवन्तः । अपि च काङ्ग्रेस् पक्षस्य सर्वे नायकाः बद्धाः । ब्रिटिष् अधिकारिणः काङ्ग्रेस् पक्षम् एव निषेधितवन्तः । अनेन भारतीयेषु ब्रिटिष् विरोधभावः इतोपि संवृद्धः। प्रौढनायकत्वस्य अभावम् अतिरिच्यापि महाप्रमाणेन विरोधप्रदर्षनस्य सभाः अभवन् । किन्तु सर्वे विरोधस्य आन्दोलनानि अहिंसायुतानि नासन् । कुत्रचित् प्रस्फोटाः विस्फुटिताः । सर्वकारीयभावनानि दग्धानि । विद्युत्सम्पर्कः कर्तितः । सञ्जारव्यवस्था निर्बद्धा । किन्तु ब्रिटिष् अधिकारिणः लक्षाधिकान् आन्दोलनप्रदर्शनकारान् बद्धवन्तः। अधिकप्रमाणेन दण्डकराः सङ्ग्रहिताः । आन्दोलनकारिणः सार्वजनिकस्थानेषु दण्डितवन्तः । अनेकाः राष्ट्रीयाः नायकाः भूगताः भूत्वा आकाशवाण्या भारतियेभ्यः सन्देशम् अयच्छन् । किङ्कर्तव्यविमूढाः ब्रिटिष् अधिकारिणः महात्मागान्धिं अन्यान् च नायकान् बद्ध्वा दक्षिणाफ्रिकादेशं नेतुं युद्धनौकायाः व्यवस्थाम् अकुर्वन् । किन्तु सङ्घर्षः इतोऽपि वर्धितः स्यात् इति विचिन्त्य तथा न कर्तुं निश्चितवन्तः । काङ्ग्रेस् पक्षस्य नेतारः वर्षत्रयं सम्पूर्णविश्वस्य सम्पर्कभ्रष्टाः अभवन् । गान्धिमहात्मनः पन्ती कस्तूर् बा गान्धिः कार्यदर्शी महादेव देसायी द्वयोः मरणानन्तरं तस्य आरोग्यम् अतीव असन्तुलितम् अभवत् । तथापि सः २१दिनानि उपवासं कृत्वा सत्याग्रहम् अनुवर्तयितुम् अतिमानुषप्रयत्नम् अकरोत् । आङ्ग्लाधिकारिणः तस्य आरोग्यम् असन्तुलितम् अबवत् इति कारावारात् विमोचनं कृतवन्तः । किन्तुः सः अन्यनेतॄणां विमोचनार्थम् आग्रहं कुर्वन् सत्याग्रहम् अनुवर्तितवान् । क्रि.श.१९४४तमवर्षस्य आरम्भे भारतं शान्तम् आसीत् । आन्दोलनं पराजितम् इति ब्रिटिष् अधिकारिणां विश्वासः व्याप्तः। जिन्ना मुल्सिं लीग् काङ्ग्रेस् पक्षस्य विरोधिनः कम्युनिष्ट् जानाः च हिन्दुसङ्घटनं काङ्ग्रेस् पक्षं गान्धिं च दूषयन्तः स्वेच्छापूर्तये प्रायतन्त ।