तीव्रसंवेगानामासन्नः (योगसूत्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(1.21 तीव्रसंवेगानामासन्नः… इत्यस्मात् पुनर्निर्दिष्टम्)

सूत्रसारः[सम्पादयतु]

तीव्रस्फूर्तियुक्ताः योगिनः (एतस्य समाधेः सिद्धिं, तस्य फलानां प्राप्तिं च) अतीव शीघ्रतया लभन्ते। २१ ॥

व्यासभाष्यम्[सम्पादयतु]

समाधिलाभः समाधिफलं च भवतीति ॥२१॥

(अधिमात्र-उपाय-तीव्र-संवेगसम्पन्नाः योगिनः) समाधिसिद्धेः, समाधिसिद्धेः च फलं ( अतीव शीघ्रं ) प्राप्नुवन्ति।२१।।

विशेषार्थः[सम्पादयतु]

'संवेग'-शब्दस्य अर्थः वाचस्पतिमिश्रस्य अनुसारं 'वैराग्यः', विज्ञानभिक्षोः अनुसारं 'शीघ्रता', भोजराजस्य अनुसारं 'क्रियायाः हेतुभूतसंस्कारः' च भवति। स्वामिनः विवेकानन्दस्य मते एतस्य अर्थः ( Energy - ऊर्जा ) इति अर्थः भवति। वस्तुतः एतस्य 'संवेग'-शब्दस्य प्रयोगः बौद्ध-ग्रन्थेषु अपि स्फूर्तिः उत शक्तिः इत्यर्थे प्रचलितः आसीत्।

तत्र - तेषु ।

अधिमात्रोपायानाम् - अधिमात्रः 'उत्तमः' ( अत्यन्तप्रबलः ) उपायः येषां, ते उत्तमोपायाः तेषाम्, उत्तमोपाययुक्तानां।

तीव्रसंवेगानाम् - तीव्रस्फूर्तियुक्तानां योगिनां समाधिलाभः, समाधिलभ्यफलं ( अर्थात् कैवल्यं ) च।

आसन्नः - अतीव निकटे अवस्थितिः। योगिनाम् 'उपायकृतम्' एतत् विभाजनं निम्नप्रकारेण प्रदर्शितम् अस्ति।

विशेषविमर्शः[सम्पादयतु]

अत्र सूत्रेण सह भाष्यस्य पदानां संयुक्ततया अर्थः करणीयः भवति। यथा - अधिमात्रोपायतीव्र-संवेगसम्पन्न-योगिनाम्। समाधिलाभः - समाधिसिद्धिः, समाधिफलं च — अर्थात् कैवल्य । आसन्नः - निकटस्थः अर्थात् निकटवर्ती भवति।

विष्णुपुराणे अपि उक्तम् अस्ति -

'विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि' - इत्यादि।।२१।।

अग्रिमसूत्रसम्बन्धः[सम्पादयतु]

प्रश्नः - यदि असम्प्रज्ञातसमाधेः एते 'श्रद्धादयः' एव उपायाः सन्ति, तर्हि एतेषाम् उपायानाम् आश्रयस्वीकर्तृषु योगिषु कः योगी शीघ्रतया, कियति काले, किमर्थं च सिद्धिं प्राप्नोति?

एतस्य स्पष्टीकरणं कर्तुम् अग्रिमं सूत्रं प्रवृत्तम् अस्ति।

मृदुमध्याधिमात्रोपायाः ते योगिनः - मृदु-उपाययुक्ताः, मध्य-उपाययुक्ताः, अधिमात्र-उपाययुक्ताः, ते योगिनः। खलु नव भवन्ति - निश्चयः एव 'नव'-प्रकारस्य भवन्ति। तद्यथा - सः (एवं प्रकारेण) यथा — ते मृदूपायः, मध्योपायः, अधिमात्रोपायः भवन्ति ।

१. तत्र मृदूपायोऽपि - मृदु-उपाययुक्ताः योगिनः अपि। त्रिविधः - त्रिप्रकारकाः भवन्ति -

(१) मृदुसंवेगः - मृदुः संवेगः गतिसंस्कारः स्फूर्तिः यस्य सः, मन्दगतिः उत मन्दस्फूर्तियुक्तः।

(२) मध्यसंवेगः - मध्यमस्फूर्तियुक्तः।

(३) तीव्रसंवेगः - तीव्रस्फूर्तियुक्तः।

२. तथा मध्योपायः - एवमेव प्रकारेण मध्यम-उपाययुक्ताः अपि त्रिधाविभक्ताः भवन्ति। यथा - मृदुस्फर्तिः, मध्यस्फूर्तिः, तीव्रस्फूर्तिः इति।

३. तथाधिमात्रोपायः - एवं प्रकारेण अधिमात्रोपाययुक्ताः योगिनः अपि मृदुस्फूर्तिः, मध्यस्फूर्तिः, तीव्रस्फूर्तिः च त्रिप्रकारकभेदयुक्ताः।


पातञ्जलयोगसूत्राणि
पूर्वतनः
----
तीव्रसंवेगानामासन्नः (योगसूत्रम्) अग्रिमः
योगश्चित्तवृत्तिनिरोधः
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः


सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine