ब्रह्मणो हि प्रतिष्ठाहम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(14.27 ब्रह्मणो हि प्रतिष्ठा….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ब्रह्मणः हि प्रतिष्ठा अहम् अमृतस्य अव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्य एकान्तिकस्य च ॥ २७ ॥

अन्वयः[सम्पादयतु]

अहं हि ब्रह्मणः प्रतिष्ठा अमृतस्य अव्ययस्य च शाश्वतस्य धर्मस्य च ऐकान्तिकस्य सुखस्य च ।

शब्दार्थः[सम्पादयतु]

ब्रह्मणः = परमात्मनः
प्रतिष्ठा = स्थानम्
अमृतस्य = मृत्युरहितस्य
अव्ययस्य = अक्षरस्य
शाश्वतस्य = नित्यस्य
ऐकान्तिकस्य = अव्यभिचारिणः ।

अर्थः[सम्पादयतु]

अहं ब्रह्मणः, नाशरहितस्य मोक्षस्य, शाश्वतस्य च धर्मस्य, दुःखरहितस्य सुखस्य च प्रतिष्ठा अस्मि तस्मात् हेतोः तादृशः पुरुषः ब्रह्मभूयाय कल्पते इति यन्मया पूर्वमुक्तम् तत् युक्तमेव । नाहं कदापि असत्यं ब्रवीमि इति विज्ञेयम् ।


सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]