मुख्यपृष्ठम्
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(
Main Page इत्यस्मात् पुनर्निर्दिष्टम्)
प्रमुखः लेखः
|
कर्णाटकस्य ज्ञानपीठप्रशस्तिभाक् डा.शिवराम कारन्तः उडुपिमण्डलस्य कोट इति ग्रामे क्रि.श.१९०२तमे वर्षे अक्टोबर् मासस्य दशमे दिने सञ्जातः ९६वर्षाणि सञ्जीव्य क्रि.श.१९९७तमवर्षे डिसेम्बर् मासे नवमे दिने दिवङ्गतः । स्वस्य जीवतावधौ ४२७ कृतीः व्यरचयत् । तासुअ ४७कथाग्रन्थाः एव । स्वस्य ९६तमे वयसि अपि खगानां विषये ग्रन्थमेकम् अरचयत् । साहित्यकारः भूत्वा यथा प्रसिद्धः अभवत् तथैव अन्यक्षेत्रेषु अपि अस्य प्रसिद्धिः अस्ति एव । कर्णाटकस्य प्रमुखकलायाः यक्षगानस्य प्रचाराय संवर्धनाय च अनिकान् प्रयोगान् कृतवान् । एषः यक्षगानकलाम् अभ्यस्य "ब्याले" विविधपरिवर्तनानि कृत्वा विदेशेषु अपि प्रदर्शितवान् । यदा युवा आसीत् तदा समाजपरिवर्तनार्थमपि प्रयत्नं कृतवान् । ....
( अधिकवाचनाय »)
|
|
|
|
|
- रष्यादेशस्य नूतनः राष्ट्रपतिः व्लाडिमिर पुटिन (चित्रम्) स्वीयं तृतीयं कार्यावधिं प्रारभते।
- मध्यप्रदेशे बुन्देलखण्डाञ्चले प्रतिवर्षम् आयोज्यमानो विश्वविख्यातः खजुराहोनृत्यमहोत्सवः फेब्रुवरी १ दिनाङ्के आरभते। सप्ताहावधिकेऽस्मिन् महोत्सवे कथक-कथाकेळी-भरतनाट्य-ओडीशी-मणिपुरी-कुचिपुडीति भारतीयशास्त्रीयनृत्यप्रस्तुतयो दर्शयिष्यन्ते।
- जनुवरी २८ तमे दिनाङ्के (माघमासस्य शुक्ल्पक्षे पञ्चम्यां) भारतदेशे वसन्तपञ्चमी आचर्यते । विविधेषु स्थलेषु, देवालयेषु च पारम्परिकरीत्या सरस्वतीपूजनं भवति।
- ओस्ट्रेलिया ओपन् टेन्नीस् स्पर्धायां भारतस्य लियाण्डर् पेसस्य चेक्महाराज्यस्य राडेक् स्टेपानेकस्य च युगलेन पुरुषवर्गस्य प्रतिस्पर्धा विजीता।
- जनुवरिमासस्य २६ तमे दिनाङ्के भारतदेशे सर्वत्र ६३तमं जनराज्यदिनम् आचरितम् ।
- केरळस्य राज्यपालः एम्.ओ.ऐच्. फ़ारूक् वृक्कावरोधकारणात् जनुवरिमासस्य २६ तमे दिनाङ्के दिवङ्गतः।
|
|
ज्ञायते किं भवता ?
|
महाभारते कति पर्वाणि सन्ति ? तानि च कानि ?
- महाभारते अष्टादश पर्वाणि सन्ति तानि -
|
|
|
सुभाषितम्
|
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥
-
-
-
-
-
- सु.भा. - दैवाख्यानम् (९५/१२)
सहस्राधिका: धेनव: सन्ति चेत् अपि वत्स: तासु धेनुषु स्वमातु: एव समीपं गत्वा तामेव अनुसरति । तथा एव अस्माभि: पूर्वजन्मनि कृतानि कर्माणि अस्मान् अनुसरन्ति एव ।
|
|
|
प्रमुखं चित्रम्
|
कथाकेळी ( मलयाळम्: കഥകളി, कथकळि) देशे विदेशे च प्रसिद्धिमाप्ता एकं केरळीयनृत्तकलारूपमस्ति। तत्र कथासन्दर्भाः श्लोकरूपेण सम्भाषणानि पदरूपेण कथांशसङ्ग्रहः दण्डकरूपेण च निबद्धाः दृश्यन्ते। गानानुसारं पदानामर्थान् मुद्राभिः, रसान् मुखोपाङ्गचलनैश्च आविष्करोति नटः। कथाकेल्यां प्राधान्येन (१) केली, (२) अरङ्ङुकेली, (३) तोटयम्, (४) वन्दनश्लोकः, (५) पुरप्पाट्, (६) मेळप्पदम्, (७) कथाभिनयम्, (८) धनाशि च सन्ति। कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता। तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। कथाकेल्याः साहित्यं कैरळ्याम् 'आट्टक्कथा' इति व्यवह्रियते।
|
|
विश्वविज्ञानकोशः
|
|
|
|
विकि समाजः
|
|
|
|
|
संस्कृतभाषासहायी
|
|
|
|
भ्रातृपरियोजनाः
|
विकिपीडियस्य आतिथेयत्वं विकिमीडिया फौण्टेषन् नाम स्वलाभरहितं संघटनं कृतोऽस्ति। इदं हि अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।
संस्कृतभाषा परियोजनाः
आंगलेयभाषा परियोजनाः
|
|
विकिपीडिया भाषाः
|
|
|
|