संस्कृतम्
विकिपीडियात्
| संस्कृतम् | |
|---|---|
| कुत्र वदितम् | भारतम्, नेपालम् |
| वक्तारः | 49,736 धाराप्रवाह-वक्तारः ; भारतस्य १९९१ जनगणनानुसारम् |
| भाषासु क्रमांकः | |
| भाषा-परिवारः वर्गः |
भारोपीयम् आर्य-भाषा |
| राजकीया स्थितिः | |
| राजकीया भाषा | भारतस्य एका राजकीया भाषा |
| केन नियंत्रितम् | - |
| भाषा-कूटम् | |
| ISO 639-1 | sa |
| ISO 639-2 | san |
| SIL | SKT |
संस्कृतं पृथिव्यां प्राचीना समृद्घा शास्त्रीय च भाषा मन्यते। विश्ववाङ्मयेषु संस्कृतं श्रेष्ठरत्नम् इति न केवलं भारते अपि तु समग्रविश्वे एतद्विषये निर्णयाधिकारिभि: जनै: स्वीकृतम्। महर्षि पाणिनिना विरचिता अष्टाध्यायी इति संस्कृतव्याकरणम् अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते। संस्कृतशब्दा: एव उत्तरं दक्षिणं च भारतं संयोजयन्ति। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषा: उद्भूता:॥
संस्कृतभाषाया: भारतीयजीवने विश्वजीवने च महत्वपूर्णं स्थानं विद्यते. संस्कृतभाषाया: सुरभारती, देववाणी, देवीवाक्, गीर्वाणवाणी, देवभाषा, अमरभारती इत्यादीनि बहूनि नामानि प्रसिद्घानि सन्ति॥
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेशु भवन्ति । प्रत्येक-लकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति। अस्या: भाषाया: वैशिष्ट्यं नाम दंडचिह्नम्। न वर्तते अत्र अन्यानि विरामचिह्नानि केवलं दंडचिह्नमेव। एतदेव चिह्नम् विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुम: वयम्। उदाहरणार्थं वाक्यांश: एक: दीयते। अभ्युत्थानं च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
संस्कृतस्य प्राचीनतम ग्रन्था: वेदा: सन्ति॥
अनुक्रम |
[संपादयति] इतिहास:
एयं भाषा न केवलं भारतस्य अपितु विश्वस्यप्राचीनतमा भाषा मन्यते। इयं भाषा एतावती समृद्घा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्यूनाधिकरूपेण अस्या: शब्दा: प्रयुज्यन्ते. अत: भाषाविदां मते इयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषा आसीत्। जना: संस्कृतं वदन्ति स्म॥
विश्वस्य आदिम: ग्रन्थ: ऋग्वेद: संस्कृतभाषायामेवास्ति। अन्ये च वेदा: यथा यजुर्वेद:, सामवेद:, अथर्ववेदश्च संस्कृतभाषायामेव सन्ति। आयुर्वेद धनुर्वेद गन्धर्ववेदार्थवेदाख्या: चत्वार: उपवेदा: अपि संस्कृते एव विरचिता:॥
सर्वा: उपनिषद: संस्कृते उपनिबद्घाः। अन्ये ग्रन्था: - शिक्षा, कल्प, निरुक्त, ज्योतिष, छन्द, व्याकरण, वेदाङ्ग, दर्शन, इतिहास, पुराण, काव्य, शास्त्र: चेत्यादयः ॥
महर्षि-पाणिनिना विरचिता अष्टाध्यायी इति संस्कृतव्याकरणम् अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
वाक्यकारं वररुचिं भाष्यकारं पतंजलिम् | पाणिनिं सूत्रकारं च प्रणतोस्मि मुनित्रयम् ॥
[संपादयति] लिपि:
संस्कृतलेखनस्य प्रतिरूपं सरस्वती लिपिः आसीत्| कालान्तरे एतस्य रूपं ब्राह्मी लिपिः बभूव| तत् उत्तर: एतत् रूपं देवनागरी लिपिः परिवर्तेत एतत्|
अन्य रूपान्तराणि अधस्तात् सन्ति -- बांग्ला लिपि, शारदा लिपि, तेलुगु लिपि, तमिल लिपि, यव-द्वीप लिपि, कम्बोज लिपि, कन्नड लिपि, मलयाळम् लिपि, गुजराती लिपि, आदि ॥
[संपादयति] प्रभावम्
[संपादयति] आधुनिक-भारतम्
मलयाळम्, तमिळ्, तेलुगु, कन्नड इति इमा: चतस्र: दाक्षिणात्य-भाषा:संस्कृतेन भृशं प्रभाविता:।
राष्ट्रस्य एकताया अखण्डतायाश्च स्थापनायै संस्कृतमेव समर्थमस्ति यत: न केवलं अस्या: भाषाया एव शब्दा: मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते, अपितु सर्वत्र भारते भाषाणामेकताया: रक्षा अपि केवलं संस्कृतेनैव क्रियते||
अस्यां भाषायां न केवलं भारतस्य अपितु निखिलस्यापि संसारस्य मानवानां कृते हितसाधका: जीवनोपयोगिनस्य सिद्धान्ता: प्रतिष्ठापिता: सन्ति|इयमेव सा भाषा यत्र ध्वने: लिपेश्च सर्वत्रैकरूपता वर्तते||
[संपादयति] अक्षरमाला
[संपादयति] प्रणवम्
ॐ
[संपादयति] स्वरा:
अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ॡ, ऎ, ए, ऐ, ऒ, ओ, औ, अं, अ:
[संपादयति] व्यञ्जनानि
क ख ग घ ङ
च छ ज झ ञ
ट ठ ड ढ ण
त थ द ध न
प फ ब भ म
य र ऱ ल ळ ऴ व
श ष स ह
[संपादयति] भ्रंशाक्षराणि
ट ऩ फ
[संपादयति] सन्ध्यक्षराणि
क्ष त्र ज्ञ
[संपादयति] रूपं च वाक्यशास्त्रम्
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येक-लकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति ।।
मया ततम् इदम् सर्वम् जगद् अवय्कतमूर्त्तिना । मत्स्थानि सर्वभूतानि न चाऽहम् तेष्ववस्थितः ।।
-- भगवद्गीता (9.4)
[संपादयति] अद्यत्वे समस्कृतभाषाया: स्थितिः
अद्यत्वे समस्कृतस्य स्थितिरतिदयनीया विद्यते। अनेके जनाः यैः समस्कृतभाषामधिगन्तुम न जातु प्रयतितम् , नापि तत्प्रशंसायां कदाचिदपि किञचिदभिहितम्।
[संपादयति] समस्कृताभ्युद्धारणम्
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते| तथास्या: व्याकरणं नितान्ती व्यवस्थितं अस्ति| व्याकरणं छन्दो बन्धनेऽपि संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधि सुललितं विराजते| वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:|
[संपादयति] इमानि अपि पश्यन्तु
- संस्कृत भारती
- संस्कृत विषयक लेख सूची - संस्कृत की महत्ता एवं अन्य पहलुओं पर विविध लेखों के लिंक
[संपादयति] बाह्य-संबन्धनानि
- संस्कृत-ग्रन्था:
- GiirvaaNi - Sanskrit Classical Literature with translation
- Sanskrit Alphabet in Devanagari Script and Pronunciation Key
- The Sanskrit Alphabet
- Transliteration of Indic Languages & Scripts - including devanagari for sanskrit
- Monier-Williams Dictionary - Searchable
- Monier-Williams Dictionary - Downloadable
- Monier-Williams Dictionary - Printable
- Online Itrans
- संस्कृत-भारती
[संपादयति] बाह्य-सूत्राणि
- वैदिक साहित्य : महर्षि वैदिक विश्वविद्यालय - पी डी एफ़ प्रारूप, देवनागरी
- TITUS Indica - Indic Texts
- Internet Sacred Text Archive - यहाँ बहुत से हिन्दू ग्रन्थ अंग्रेजी में अर्थ के साथ उपलब्ध हैं। कहीं-कहीं मूल संस्कृत पाठ भी उपलब्ध है।
- क्ले संस्कृत पुस्तकालय संस्कृत साहित्य के प्रकाशक हैं; यहाँ पर भी बहुत सारी सामग्री डाउनलोड के लिये उपलब्ध है।
- संस्कृत अध्ययन, कडियां तथा अन्य सूचनायें - इस ब्लाग लेखक ने संस्कृत से सम्बन्धित अनेकानेक जानकारियां एकत्रित की हैं। यह ब्लाग सतत् अद्यतन् (अपडेट) किया जाता है।
- संस्कृत सुभाषितों का ब्लाग - यहां सुभाषितें देवनागरी तथा रोमन में दी जाती हैं तथा उनका अर्थ अंग्रेजी में दिया जाता है।
- संस्कृतं शिक्षामहै (संस्कृत सीखो) - संस्कृत का यह ब्लाग छोटी-छोटी प्रविष्टियां लिये हुए है। इसका उद्देश्य सरल संस्कृत व्याकरण सीखाना है।

