उज्जयिनी (प्राचीनभारतम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Ujjayini इत्यस्मात् पुनर्निर्दिष्टम्)
उज्जयिनी
—  नगरम्  —
उज्जयिनी
Location of उज्जयिनी
in मध्यप्रदेशः
निर्देशाङ्काः

२३°१०′५८″उत्तरदिक् ७५°४६′३८″पूर्वदिक् / 23.182778°उत्तरदिक् 75.777222°पूर्वदिक् / २३.१८२७७८; ७५.७७७२२२

देशः भारतम्
राज्यम् मध्यप्रदेशः
मण्डलम् उज्जयिनीमण्डलम्
जनसङ्ख्या ५,१५,२१५ (2011)
समयवलयः IST (UTC+05:30)
जालस्थानम् ujjain.nic.in/

क्षिप्रानद्याः तीरे स्थितम् उज्जयिनीनगरम् अतीव प्राचीनम् अस्ति । पूर्वम् अस्य नगरस्य अवन्ती अथवा अवन्तिका इति नाम आसीत् बिन्दुसारस्य काले पाटलीपुत्रं राजधानी आसीत् । कालिदासनगरी इत्यपि निर्दिश्यते ।क्रिस्ताब्दे ३८० वर्षतः ४१४ पर्यन्तं चन्द्रगुप्तः-२ प्रशासनं कृतवान् । तस्य विक्रमादित्यः इति अपरं नाम आसीत् । तदा तस्य आस्थाने कालिदासादयः नवकवयः ‘नवरत्ननाम्ना’ प्रसिद्धाः आसन् । तस्मिन् काले उज्जयिनी राजधानी आसीत् । कालिदासः स्वीये काव्ये मेघदूते उज्जयिनीवर्णन अत्यन्तम् उत्तमतया कृतवान् । अग्रे रजपूतानां सिन्धियावंशीयानां मोगलवंशीयानां च प्रशासनकेन्द्रमासीत् । उज्जयिनीनगरे स्थितं महाकालेश्वरमन्दिरम् अतीवप्रसिद्धम् अस्ति । उज्जयिनी महाकाललिङ्गं द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् इति प्रख्यातमस्ति । उज्जयिनीतः ८ कि.मी दूरे मण्डुसुल्तानवंशीयानां जलविलासराजगृहम् अस्ति । शिप्रानद्या निर्मिते द्वीपे स्थित्वा एतत् रागगृहं द्रष्टव्यम् । प्रति द्वादशे वर्षे अत्र सिंहस्था कुम्भमेला भविष्यति । भगवतः शिवस्य द्वादश ज्योतिर्लिङ्गेषु अन्यतमं महाकालमन्दिरम् अस्मिन् नगरे विद्यते । इदं नगरं मध्यप्रदेशस्य बृहत्तमात् इन्दोर्महानगरात् ५५ कि मी दूरे विद्यते । इदं मन्दिराणां नगरमस्ति । अत्रत्या जनसङ्ख्या सामान्यतः ४ लक्षमिता वर्तते ।

इतिहासः[सम्पादयतु]

उज्जयिन्याः राजनैतिकेतिहासः सुदीर्घः वर्तते । महाभारते उल्लेखः अस्ति यत् कृष्णः बलरामश्च विद्याभ्यासाय सान्दीपनी-आश्रमम् आगतौ आस्ताम् । कृष्णस्य पत्नीषु अन्यतमा मित्रवृन्दा उज्जयिन्याः राजकुमारी आसीत् । तस्याः विन्द-अनुविन्दनामकौ भ्रातरौ युद्धे कौरवपक्षीयौ सन्तौ वीरगतिं प्राप्तवन्तौ । उज्जयिन्याः चण्डप्रद्योतनामकः राजा अत्यन्तं प्रतापी आसीत् । तस्मात् अन्ये राजानः बिभ्यति स्म । तस्य दुहिता वासवदत्ता वत्सनरेशस्य पुत्रे उदयने अनुरक्ता आसीत् । तयोः प्रणयगाथा इतिहासप्रसिद्धा वर्तते । महाकविः कालिदासः विक्रमादित्यस्य साम्राज्ये विद्यमानेषु नवरत्नेषु अन्यतमः आसीत् । उज्जयिनी तस्य अत्यन्तं प्रिया आसीत् । तेन अत्रत्यः प्राचीनः वैभवः स्वयम् अवलोकिताः आसन् । तत्रत्या वैभवशालिनी अट्टालिका, उदयन-वासवदत्तयोः प्रणयगाथा, भगवतः महाकालस्य सन्ध्याकालीनं नीराजनं, क्षिप्रानद्याः पौराणिकमहत्त्वञ्च तस्य सुपरिचितम् आसीत् । अतः एव तेन काव्येषु उज्जयिन्याः मनोहरं वर्णनं कृतवान् अस्ति । सम्राट् विक्रमादित्यः महाकवेः कालिदासस्य आश्रयदातृरूपेण प्रसिद्धः अस्ति । उज्जयिन्याः इतिहासः ६ शतकात् उपलभ्यते । तस्मिन् समये भारते १६ मण्डलानि आसन् । तेषु आवन्ती अपि अन्यतमा आसीत् । आवन्ती द्विधा विभक्ता आसीत् । उत्तरभागस्य राजधानी उज्जयिनी आसीत्, दक्षिणभागस्य राजधानी महिष्मती आसीत् । तस्मिन् समये चन्द्रप्रद्योतनामकः साम्राट् आसीत् । प्रद्योतवंशजाः त्रिशतकं यावत् शासनम् अकुर्वन् ।

मौर्यसाम्राज्यम्[सम्पादयतु]

मौर्यसम्राट् चन्द्रगुप्तः अत्र आगतः आसीत् । तस्य पुत्रः अशोकः अत्र राज्यपालनम् अकरोत् । तस्य पत्नी वेदिसादेवी । पुत्रौ महेन्द्रः सङ्घमित्रा च । महेन्द्रः बौद्धधर्मस्य प्रचारकः आसीत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]