सदस्यः:Akshay1310078

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य भागभूतः अयं लेखः २०१४ फेब्रवरिपर्यन्तं निर्माणावस्थायां तिष्ठति । अस्मिन् अवधौ अस्य विषये चर्चितुं सम्भाषणपृष्ठस्य उपयोगः क्रियताम् ।

सर्वे श्रृणुत कर्तव्यमाज्ञया मम नितम् । स्वहस्तकालसम्पन्नं शासनं पत्रमेव तत् ॥

देशादिकं यस्य राजा लिखितेन प्रयच्छति । सेवाशौर्यादिमिस्तुष्टः प्रसादलिखितं हि तत् ॥

भोगपंत्र तु करदीकृतं चोपायनीकृतम् । पुरूषावाधिकं तत्तु कालावधिकमेव वा ॥

विभक्ता ये च भ्रात्राद्याः स्वरूच्या तु परस्परम् । विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते ॥

गृहभूम्यादिकं दत्वा पत्रं कुर्यात्प्रकाशकम् । अनुच्छेद्यमनाहार्य दानलेख्यं तदुच्यते ॥

गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्यप्रमाणयुक् । पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ॥

जाग्ङमस्थावरं बन्धं कृत्वा लेख्यं करोति यत् । गोप्यभोग्यक्रियायुक्तं सादिलेख्यं तदुच्यते ॥

ग्रामो देशश्र्च यत्कुर्यात्सत्यलेख्यं परस्परम् । राजाविरोधिर्ध्मार्थं संवित्पत्रं तदुच्यते ॥

वृध्दयै धनं गृहीत्वा तु कृतं व्या कारितं यत् । ससाक्षिमच्च तत्प्रोक्तमृनणलेख्यं मनीषिभिः ॥

अभिशापे समुत्तीर्णे प्रायश्र्चिते कृते बुधैः । दत्तं लेख्यं साक्षिमद्यच्छुद्धिपत्रं तदुच्यते ॥

मेलयित्व स्वधनांशान् व्यवहाराय साधकाः । कुर्वन्ति लेखपत्रं यत्तच्च सामयिकं स्मृतम् ॥

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Akshay1310078&oldid=288314" इत्यस्माद् प्रतिप्राप्तम्