सदस्यः:Rebel1310081

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य भागभूतः अयं लेखः २०१४ फेब्रवरिपर्यन्तं निर्माणावस्थायां तिष्ठति । अस्मिन् अवधौ अस्य विषये चर्चितुं सम्भाषणपृष्ठस्य उपयोगः क्रियताम् ।

सभ्याधिकारिप्रकृतिसभासद्भिर्न यः कृतिः । तत्पत्रं वादिमान्यं चेज्ज्ञयें संमतिसंज्ञकम् ॥

प्रदर्शितं वृत्तलेख्यं समासाल्लक्षणान्वितम् । समासात्कथ्यते चान्यच्छेषायव्ययसंज्ञकम् ॥

वत्सरे वत्सरे वापि मासि मासि दिने दिने । हिरण्यपशुधान्यादि स्वाधीनं त्वायसंज्ञकम् ॥ पराधीनं कृतं यत्तु व्ययसंज्ञं धनं च तत् ॥

साद्यष्कश्र्चैव प्राचीन आयः सञ्चितसंज्ञकः । व्ययो द्विधा चोपभुत्कस्तथा विनिमयात्मकः ॥

विस्त्रम्भान्निहितं सद्भिर्यदौप्रनिधिकं हि तत् । अवृद्धिकं गृहीतान्याअलङ्कारादि च याचितम् ॥ अवृद्धिकं गृहीतं यद्दणं तच्चेत्तमर्णिकम् ॥

निध्यादिकं च मार्गादौ प्राप्तमज्ञतस्वामिकम् ॥

पुनरार्तकः स्वत्वनिवर्तक इति द्विधा । व्ययो, यन्निध्युपतनिधीकृतो विनिमयीक्ऱत्ः ॥ सकुसिदाकुसीदाधमर्णिकश्र्चवृत्तः स्मृतः ॥

स्वत्वनिवर्तको द्वेधा त्वौहिकः पारलौकिकः । प्रतिदानं पारितोष्य। वेतनं भोग्यमैहिकः ॥

जपहोमार्चनैतुर्धा पारलौकिकः ।

आवर्तको निवर्ती च व्ययायौ तु पृथग्द्विधा । आवर्तकविहीनौ तु व्यययौ लेखको लिखेत् ॥

आयमादौ लिखेत्सम्यग् व्ययं पश्र्चत्तथागतं । वामे चायं व्ययं दक्षे पत्रभागे च लेखयेत् ॥ ऊर्ध्वगानां तु गणितमधः पङ्क्त्यां प्रजायते ॥

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Rebel1310081&oldid=288317" इत्यस्माद् प्रतिप्राप्तम्