अतिशयोक्त्यलङ्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



रूपकातिशयोक्तिः स्यात्रिगीर्याध्यवसानतः ।
पश्य नीलोत्पलद्वन्द्वान्निस्सरन्ति शिताः शराः॥

विवरणम्[सम्पादयतु]

विषयस्य स्वशब्देन उल्लेखनं विनापि विषयिवाचकेनैव शब्देन ग्रहणं विषयनिगरणं तत्पूर्वकं विषयस्य विषयिरूपतया अध्यवसानमाहार्यनिश्चयस्तस्मिन् सति रूपकातिशयोक्तिः । यथा नीलोत्पल-शरशब्दाभ्यां लोचनयोः कटाक्षाणां च ग्रहणपूर्वकं तद्रूपताध्यवसानम् ।

उदाहरणान्तरम्[सम्पादयतु]

वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्मा-
सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली ।
अग्रे शैल् सुकृतिसुगमौ चन्दनच्छन्नदेशो
तत्रत्यानां सुलभममृतं संनिधानात्सुधांशोः ॥

अत्र वाप्यादिशब्दैः नाभिप्रभृतयः निगीर्णाः । अत्रातिशयोक्तौ रूपकविशेषणं रूपके दर्शितानां विधानामिहापि संभवः अस्तीत्यतिदेशेन प्रदर्शनार्थम् । तेन अत्रापि आधिक्यन्यूनताविभागश्चेति सर्वमनुसन्धेयम् ।

बाह्यसम्पर्कः[सम्पादयतु]

अतिशयोक्ति:

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अतिशयोक्त्यलङ्कारः&oldid=418967" इत्यस्माद् प्रतिप्राप्तम्