अथवा बहुनैतेन...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्विचत्वारिंशत्तमः(४२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अथवा बहुना एतेन किं ज्ञातेन तव अर्जुन विष्टभ्य अहम् इदं कृत्स्नम् एकांशेन स्थितः जगत् ॥ ४२ ॥

अन्वयः[सम्पादयतु]

अर्जुन ! अथवा एतेन बहुना ज्ञातेन तव किम् ? अहम् इदं कृत्स्नं जगत् एकांशेन विष्टभ्य स्थितः ।

शब्दार्थः[सम्पादयतु]

अथवा = यद्वा
एतेन = अनेन
ज्ञातेन = विदितेन
बहुना = अत्यधिकेन
तव किम् = ते किं प्रयोजनम्
अहम् इदम् = अहम् एतत्
कृत्स्नम् = निखिलम्
जगत् = लोकम्
एकांशेन = एकदेशेन
विष्टभ्य = व्याप्य
स्थितः = स्थितः ।

अर्थः[सम्पादयतु]

अर्जुन ! अथवा मम विभूतीनां सर्वमपि विस्तरं विदित्वा तव किम् अधिकं प्रयोजनम् ? अतः संक्षेपतः इदं जानीहि यत् अहम् निखिलमपि एतत् जगत् एकावयवेन व्याप्य स्थितः अस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अथवा_बहुनैतेन...&oldid=418384" इत्यस्माद् प्रतिप्राप्तम्