एम् जि रामचन्द्रन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एम्.जि.रामचन्द्रन्
जन्म (१९१७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१७)१७ १९१७
काणडी, ब्रिटिश् सैलन्
(वर्तमाने श्रीलङ्कादेशे)
मृत्युः २४ १९८७(१९८७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२४) (आयुः ७०)
चेन्नै, तमिऴनाडुराज्यम्, भारतम्
देशीयता भारतम् Edit this on Wikidata
अन्यानि नामानि

एम्. जी. आर्., Puratchi Thalaivar,
Makkal Thilagam, Ponmanachemmal,
Vaatthiyaar, Idhayakkani,

Idhaya dheyvam,डाक्टर्.
शिक्षणस्य स्थितिः मद्रास विश्वविद्यालय Edit this on Wikidata
वृत्तिः अभिनेता, राजनीतिज्ञः, चलच्चित्रनिर्माता, निर्देशकः
सक्रियतायाः वर्षाणि १९३५–१९८४ (अभिनेता)
१९५३–१९८७ (राजनीतिज्ञः)
औन्नत्यम् फलकम्:Infobox person/height
धर्मः हिन्दु
भार्या(ः) तङ्गमणी (१९४२ तमे वर्षे मृता)
सतनन्दवती (१९६२ तमे वर्षे मृता)
वि. एन्. जानकी (१९९६तमे वर्षे मृता)
सम्बन्धिनः एम्. जी. चक्रपाणि (अग्रजः)
पुरस्काराः भारतरत्नम्
१९८८ तमे वर्षे (मरणोत्तरम्)
[१]

मारुदुर् गोपालन् रामचन्द्रन् अथवा एम्.जि.आर्. (आङ्ग्लः: Maruthur Gopalan Ramachandran, जन्म १७ जनवरी, १९१७ - मृत्युः २४ डिसेम्बर्, १९८७) तमिळ्-चलच्चित्रस्य प्रसिद्धः नटः, निर्माता, निर्देशकश्च आसीत् । एषः अनन्तरं राजनीतिक्षेत्रे प्रविष्टवान् आसीत् तथा तमिऴनाडुराज्यस्य मुख्यमन्त्री अपि अभूत् । एम्.जि.रामचन्द्रन् १९७७ तमवर्षतः १९८७ वर्षपर्यन्तं(मरणपर्यन्तम्) तमिऴनाडुराज्यस्य मुख्यमन्त्री आसीत् । रामचन्द्रन् महोदयस्य जन्म श्रीलङ्कादेशे अभवत् ।

जीवनपरिचयः[सम्पादयतु]

एम्.जि.आर्.महोदयः १९१७ तमवर्षस्य जनवरीमासस्य १७ दिनाङ्के, श्रीलङ्कादेशस्य कणडीप्रदेशे अजायत् [२]। तस्य पितरौ मलयाली-प्रवासी आस्ताम् । रामचन्द्रन्-महोदयस्य पिता एम्. गोपाल मेनन्, माता च 'मरुदुर् सत्यभामा' आसीत् । अत्यल्पवयसि एव परिवारं समर्थयितुं सः तथा तस्य अग्रजः एम्.जि. चक्रपाणि नाटकमण्डल्यां सदस्यतां स्वीकृतवन्तौ । गान्धीवादी आदर्शेन प्रभावितः एम्.जि.आर्. भारतीयराष्ट्रियकाङ्ग्रेस् पक्षे आत्मान् योजितवान् । आदौ नाटकेषु अभिनयं कृत्वा १९३६ तमे वर्षे तस्य चलच्चित्रजीवनस्य आरम्भम् अकरोत् । १९४० तमे वर्षे चलच्चित्रेषु अग्रणी भूमिकानिमित्तं रामचन्द्रन् स्नातकः उपाधिना सम्भूषितासीत् । अग्रिमेषु त्रिषु दशकेषु एम्. जि. रामचन्द्रन् महोदस्योदयः महानायकत्वेन अभूत् । सः सफलतापूर्वकं नायकरूपी जनप्रीयतां राजनैतिकाधारत्वेन उपयुक्तवान् ।

राजनैतिकजीवनम्[सम्पादयतु]

  • १९५३ तमे वर्षे एम् जी रामचन्द्रन् (एम् जी आर्)-महोदयः द्राविड मुन्नेत्र कळगम्-पक्षे आगतवान् । वरिष्ठः तथा जनप्रीयोऽयं नेता पक्षस्य पताका एवं प्रतीकं चलच्चित्रमाध्यमेन प्रचारं कृतवान् यथा- "अण्बे वा" । एम् जी रामचन्द्रन्-महोदयःद्राविड मुन्नेत्र कळगम्-पक्षस्य विचारधारायाः प्रचार-प्रसारविषये मुख्यभूमिकां पलितवान् । १९७२ तमे वर्षे एम् करुणानिधिमहोदयः स्वस्य स्थापना यदा "तमिळनाडुराज्यस्य मुजिबुर-रहमान्"(तमिळनाट्टिन्-मुजिबुर)-रूपेण कृतवान् तदा विरोधं कृत्वा एम् जी रामचन्द्रन् पक्षत्यागं कृतवान् ।
  • एम जी रामचन्द्रन्-महोदयः अण्णा द्राविड मुन्नेत्र कळगम् (ए डि एम् के) इति राजनैतिकपक्षस्य प्रतिष्ठाताम् अकरोत् । एम् करुणानिधिपरिचालित "द्राविड मुन्नेत्र कळगम् (डि एम् के)" पक्षात् बहिरागत्य ए डि एम् के-गठनं कृतवान् । "सर्वभारतीय"(ए आइ) इति पक्षकार्यकतृणाम् अनन्तरसंयोजनम् ।
  • १९७३ तमे वर्षे अयं पक्षः प्रथमवारं दिन्दिगुल-लोकसभाकेन्द्रे विजयं प्राप्तवान् । अनन्तरं कोयेम्बत्तुर-विधानसभाकेन्द्रमपि जीतवान् । १९७५-७७ आपात्कालं समर्थित्वा ए आइ ए डि एम् के-पक्षः कांग्रेसपक्षस्य समीपं आगतवान् ।
  • १९७७"डीएमकेबाट निष्कासन गरेपछि, उहाँका स्वयंसेवक अनकापुथुर रामलिंगमले अन्ना द्रविड मुनेत्र कझगम नामक नयाँ पार्टी सुरु गर्नुभयो। त्यो पार्टीको सदस्यको रूपमा सामेल हुनुभयो र यसको नेता र महासचिव बने। अग्रिमदशेषु वर्षेषु सः एव मुख्यमन्त्री आसीत् । तस्य मृत्युः पर्यन्तं (दिसेम्बर्, १९८७) सः मुख्यमन्त्री आसीत् । एम जी रामचन्द्रन् क्रमशः १९७७,१९८०,१९८४ विधानसभानिर्वाचनेषु अपि सः विजयी आसीत् ।
  • १९७९ तमे संवत्सरे ए आइ ए डि एम् के-पक्षस्य द्वौ सदस्यौ (सत्यवनि मुथु, अरविन्दबालापाजानोर्) प्रथमवारं केन्द्रीयमन्त्रीसभायां स्थानं अधिकृतवन्तौ आस्ताम् । जनतादलपरिचालितसर्वकारे (१९७७-७९) तथा स्वल्पस्थायी-चरणसिंह-मन्त्रीसभायां तौ आस्ताम् ।
  • एवञ्च क्रमागतः १९८९ तमवर्षाऽवधिः ए आइ ए डि एम् के-पक्षः एव सर्वकारे आसीत् । एम् जी रामचन्द्रन्-महोदयस्य मरणोत्तरकाले (डिसेम्बर्, १९८७ वर्षे) ए आइ ए डि एम् के-पक्षः द्विखण्डितः जातः ।

विवाहः[सम्पादयतु]

एम जी आर् एवं जानकी रामचन्द्रन्

एम.जि.आर्. महोदयः त्रिवारं विवाहम् अकरोत् । तस्य प्रथमा पत्नी तङ्गामणी (Thangamani), द्वितीया सतनन्दवती (Sathanandavathi) एवञ्च तृतीया पत्नी आसीत् जानकी रामचन्द्रन् (Janaki Ramachandran) ।

मुख्यमन्त्री[सम्पादयतु]

वर्षम् निर्वाचने विजयः
१९७७-१९८० तमिलनाडु राज्यविधानसभा निर्वाचनम्, १९७७
१९८०-१९८४ तमिलनाडु राज्यविधानसभा निर्वाचनम्, १९८०
१९८४-१९८७ तमिलनाडु राज्यविधानसभा निर्वाचनम्, १९८४

प्रशस्तयः[सम्पादयतु]

  • फ़िल्मफ़ेयर् सर्वश्रेष्ठः अभिनेता (तमिळ्) पुरस्कारः - 'इङ्गा वेत्तु पिल्लई' (Enga Veettu Pillai) एषः प्राप्तवान्।
  • फ़िल्मफ़ेयर् सर्वश्रेष्ठः चलच्चित्र-पुरस्कारः - 'अदिमै पेण्' (Adimai Penn) प्राप्तवान्।
  • १९७२ तमे वर्षे राष्ट्रिय-चलच्चित्र-पुरस्कारः 'सर्वश्रेष्ठः अभिनेता' - रिक्शाकरन (Rickshawkaran) इति चलच्चित्रे अभिनयार्थं प्राप्तवान्।
  • 'मद्रास-विश्वविद्यालयतः' 'डाक्टरेट्' उपाधिं प्राप्तवान् ।
  • मरणोत्तरं १९८८ तमे वर्षे कला तथा राजनीतिक्षेत्रे विशिष्टयोगदानार्थं भारतरत्न-उपाधिना भूषितः ।

मरणम्[सम्पादयतु]

एम्. जि. रामचन्द्रन् महोदयः तस्य मांसप्रत्यारोपणमिति दीर्घकालीन-रोगवशात् १९८७ तमवर्षस्य डिसेम्बर् मासस्य २४ दिनाङ्के दिवङ्गतः । मरणकाले तस्य वयः सप्ततिः (७०) आसन् ।

टिप्पणी[सम्पादयतु]

  1. "Padma Awards Directory (1954-2007)". Ministry of Home Affairs. Archived from the original on 4 March 2009. आह्रियत 7 December 2010. 
  2. Attar Chand (1988). M G Ramachandran: My Blood Brother – Google Books. New Delhi: Gian Publishing House. ISBN 81-212-233-7 Check |isbn= value (help). 
"https://sa.wikipedia.org/w/index.php?title=एम्_जि_रामचन्द्रन्&oldid=482948" इत्यस्माद् प्रतिप्राप्तम्