थियोडोर् स्छ्वान्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
थियोडोर् स्छ्वान्
Theodor Schwann
जननम् (१८१०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०७)७ १८१०
Neuss, First French Empire (now in Germany)
मरणम् ११ १८८२(१८८२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-११) (आयुः ७१)
Cologne, Germany
विषयेषु प्रसिद्धः Cell Theory
Schwann Cells
प्रभावः Johannes Peter Müller


(कालः – ०७.१२.१८१० तः ११.०१.१८८२)

अयं थियोडोर् स्छ्वान् (THEODOR SCHWANN) कोशसिद्धान्तस्य निरूपकः । अयं १८१०तमे वर्षे डिसेम्बरमासस्य ७ दिनाङ्के जर्मनीदेशस्य रिह्निश् प्रश्याप्रान्तस्य न्युस् इति प्रदेशे जन्म प्राप्नोत् । १८३४तमे वर्षे वैद्यकीयस्य अध्ययनं समाप्य प्राख्यातेन विज्ञानिना जोहानस् मुल्लरेण सह कार्यम् आरब्धवान् । बहुशीघ्रं १८३६तमे वर्षे एव प्रमुखं संशोधनम् अपि अकरोत् थियोडोर् स्छ्वान् । तत् एव संशोधनम् “पेप्सिन्” इत्यस्य संशोधनम् । तदा तत् किण्वं “फर्मेण्ट्” इति वदन्ति स्म । एतत् संशोधनं जीवरसायनशास्त्रस्य प्रमुखं पदम् । सूक्ष्माणुजीविनः ईस्ट् इत्यादयः स्वयम् एव निर्जीवेभ्यः वस्तुभ्यः जन्म प्राप्नुवन्ति इति वदतः डक्टिन् आफ स्पाण्टीनियस् जनरेषनस्य वादं विरोधीकृत्य बहून् प्रयोगान् अपि १८३८तमे वर्षे थियोडोर् स्छ्वान् अकरोत् ।

अस्य सर्वस्य अपेक्षया अपि तेन थियोडोर् स्छ्वानेन १८३९तमे वर्षे कृतं प्रमुखं संशोधनं “कोशसिद्धान्त”स्य निरूपणम् । अस्य सिद्धान्तस्य अनुगुणं सर्वे अपि जीविनः जीवकोशैः एव निर्मिताः । सर्वस्मिन् अपि जीवकोशे कोशकेन्द्रं भवति । कोशकेन्द्रं परितः कोशनिर्मोकः भवति । एतम् एव अंशं १८३८तमे वर्षे म्याथ्यास् जेकब् ष्लेडेन् नामकः सस्यविज्ञानी संशोधितवान् आसीत् । अयं थियोडोर् स्छ्वान् प्राणिनां विषये अपि एतम् अंशं निरूपितवान् । अयं थियोडोर् स्छ्वान् जीविनः देहस्य अङ्गांशेषु प्रचलन्तीः सर्वाः रासायनिकक्रियाः सूचयितुं “चयापचय” (मेटबालिसम्) इति शब्दं प्रयुक्तवान् । सस्यानि प्राणिनः चापि जीवकोशेभ्यः समानरीत्या एव उत्पद्यन्ते । विभिन्नानां कोशाणां विभिन्नेन क्रमेण योजनेन अङ्गांशाणां निर्माणं भवति । नरकोशस्य उपरि विद्यमानान् विशेषान् जीवकोशान् संशोध्य तान् “स्छ्वानकोशाः” (स्छ्वान्-स् सेल्स्) इति नामकरणम् अकरोत् ।

अनेन थियोडोर् स्छ्वानेन तथा श्लीडेनेन संशोधितः “कोशसिद्धान्तः” रसायनशास्त्रे परमाणुसिद्धान्तस्य इव मूलभूतस्य सिद्धान्तस्य संशोधनम् । एतत् संशोधनं जीवकोशानां रचनायाः अध्ययनस्य भद्रम् आधारम् अकल्पयत् । अयं थियोडोर् स्छ्वान् १८३८तमे वर्षे लुवेन् इत्यत्र, १८४७त्मे वर्षे लीज् इत्यत्र च अङ्गरचनाविज्ञानस्य प्राध्यापकरूपेण कार्यम् अकरोत् । १८८२तमे वर्षे जनवरिमासस्य एकादशे दिनाङ्के अयं थियोडोर् स्छ्वान् इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=थियोडोर्_स्छ्वान्&oldid=293575" इत्यस्माद् प्रतिप्राप्तम्