मञ्जुल भार्गव

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मञ्जुल भार्गव
सञ्चिका:ManjulBhargava.jpeg
जननम् (१९७४-२-२) ८, १९७४ (आयुः ४९)
हेमिल्टन्, ओण्टेरियो
देशीयता केनडादेशीयः, अमेरिकादेशीयः
कार्यक्षेत्राणि गणितम्
संस्थाः प्रिन्स्टन्-विश्वविद्यालयः
लीडन्-विश्वविद्यालयः
मातृसंस्थाः हार्वर्ड्-विश्वविद्यालयः
प्रिन्स्टन्-विश्वविद्यालयः
संशोधनमार्गदर्शी आण्ड्रूव् वैल्स्
शोधच्छात्राः मैकेल् वोल्पटो
मेलेन् वुड्
वे हो
अरुल् शङ्कर
विषयेषु प्रसिद्धः गास् काम्पोसिशन् नियमाः
१५, २९० प्रमेयाः
फेक्टोरियल् नियोज्यम्
अण्डाकारवक्रतानां स्थानानि
प्रमुखाः प्रशस्तयः फील्ड्स्-पदकम् (२०१४)
इन्फोसिस्-प्रशस्तिः (२०१२)
फर्मेट्-प्रशस्तिः (२०११)
कोल्-प्रशस्तिः (२००८)
क्ले-संशोधनप्रशस्तिः (२००५)
शास्त्र रामानुजन् प्रशस्तिः (२००५)
हस्से प्रशस्तिः (२००३)
मार्गन् प्रशस्तिः (१९९६)
हूप्स् प्रशस्तिः (१९९६)


मञ्जुल भार्गवः(जननम् आगस्ट् ८, १९७४) [१]) कश्चन भारतीयः केनडीय-अमेरिकीयः गणितज्ञः । अयम् अमेरिकीये प्रिन्स्टन्-विश्वविद्यालये गणितप्राध्यापकः अस्ति । अङ्कप्रमेयविषये तेन कृतं योगदानम् अत्यन्तं प्रसिद्धं महत्त्वपूर्णञ्च विद्यते ।

भार्गवः २०१४ तमस्य वर्षस्य फील्ड्स्-पदकप्रशस्त्या सम्मानितः अस्ति । अङ्कानां रेखागणिते तेन विनूतनाः परिणामकारिण्यः पद्धतयः आविष्कृताः सन्ति । अण्डाकारिकवक्रतानां स्थाननिर्देशनं, लघुवक्रतानां गणनं च भार्गवः एतासां पद्धतीनाम् उपयोगेन साधितवान् यत् तन्निमित्तम् इयं प्रशस्तिः दीयमाना अस्ति इति अघोषयत् अन्ताराष्ट्रियः गणितकूटः ।[२] तदीया एर्डो-सङ्ख्या २ विद्यते । [३]

शिक्षणं वृत्तिजीवञ्च[सम्पादयतु]

भार्गवः केनडादेशस्य ओण्टरियोराज्यस्य हेमिल्टन्-नगरे जातः । तस्य बाल्यदिनानि तु न्यूयार्क्-राज्यस्य लाङ्ग्-ऐलेण्ड्-प्रदेशे यापितानि ।[४] सः स्वीये चतुर्दशे एव वयसि प्रौडशालीयगणित-सङ्गणकशिक्षणं समापयत् । [५] तेन प्लैनेड्ज्-प्रौढशालायां शिक्षणं प्राप्तम् । १९९६ तमे वर्षे तेन हार्वर्ड्-विश्वविद्यालयतः बि ए पदवी प्राप्ता । पदवीपूर्वसंशोधनकार्याय तेन १९९६ तमे वर्षे मार्गन्-प्रशस्तिः प्राप्ता । आण्ड्रिव् वैल्स् नामकस्य मार्गदर्शकस्य आधीन्ये तेन प्रिन्स्टन्-विश्वविद्यालये संशोधनं कृतम् । सः २००१-०२ तमयोः वर्षयोः सः इन्स्टिट्यूट् आफ् अड्वान्स्ड् स्टडीस् इत्यत्रः अतिथिप्राध्यापकरूपेण कार्यम् अकरोत् ।[६] पदवीशिक्षणस्य समाप्तेः वर्षद्वयाभ्यन्तरे एव प्रिन्स्टन्-विश्वविद्यालये अयं पूर्णावधिप्राध्यापकरूपेण नियुक्तः जातः यत् तदस्ति विशेषतया उल्लेखार्हः । [७]

भार्गवः उत्कृष्टः तबलावादकः अस्ति यः प्रसिद्धस्य तबलावादकस्य झाकिर् हुसेनस्य शिष्येषु अन्यतमः ।[८] अयं स्वस्य मातामहस्य पुरुषोत्तम लाल भार्गवस्य समीपे संस्कृतमपि अधीतवान् । पितामहः प्रसिद्धः संस्कृतज्ञः प्राचीनभारतेतिहासज्ञश्च ।[९]

योगदानानि[सम्पादयतु]

तदीयः विद्यावारिधेः संशोधनद्वारा गासस्य काम्पोसिशन्-नियमानाम् अन्वयः विभिन्नेषु सन्दर्भेषु कृतः । तत्रत्य प्रमुखः फलितांशः अङ्कक्षेत्रे उपयुक्तमस्ति । बीजगणितीये अङ्कक्षेत्रे , अण्डाकारवक्रतानाम् अङ्कगणितीयप्रमेयविषये च तस्य विशेषप्रयोजनं दर्शितमस्ति । [१०] गणितक्षेत्रे तदीयानि कानिचन विशिष्टानि योगदानानि -

  • १४ नवीनाः गास्-शैलीकाः काम्पोसिशन्-नियमाः ।
  • १५ प्रमेयस्य प्रमाणानि
  • २९० प्रमेयस्य प्रमाणानि (जोनथन् हङ्के - इत्यनेन सह)

चितानि प्रकाशनानि[सम्पादयतु]

टिप्पाणी[सम्पादयतु]

  1. Gallian, Joseph A. (2009). Contemporary Abstract Algebra. Belmont, CA: Cengage Learning. p. 571. ISBN 978-0-547-16509-7. 
  2. "List of all 2014 awardees with brief citations" (Press release). International Mathematical Union. Archived from the original on November 11, 2017. आह्रियत August 12, 2014. 
  3. AMS Collaboration Distance http://www.ams.org/mathscinet/collaborationDistance.html
  4. "Fareed Zakaria is India Abroad Person of the Year - Rediff.com India News". News.rediff.com. 2009-03-21. आह्रियत 2014-08-14. 
  5. "India Abroad - Archives 2003-2008". Indiaabroad-digital.com. 2009-12-30. आह्रियत 2014-08-14. 
  6. "Institute for Advanced Study: A Community of Scholars". Ias.edu. आह्रियत 2014-08-14. 
  7. Vakil, Ravi (2008). A Mathematical Mosaic. Burlington, ON: Brendan Kelly Publishing. p. 159. ISBN 978-1-895997-04-0. 
  8. "Bhargava strikes balance among many interests". Princeton.edu. 2003-12-08. आह्रियत 2014-08-14. 
  9. "Fields Medal Winner Bhargava". Business Insider. आह्रियत 2014-08-14. 
  10. "Fellows and Scholars | Clay Mathematics Institute". Claymath.org. Archived from the original on 2014-08-17. आह्रियत 2014-08-14. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मञ्जुल_भार्गव&oldid=480738" इत्यस्माद् प्रतिप्राप्तम्