शिवकुमार शर्मा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पण्डितः शिवकुमार शर्मा
पण्डितः भोपालनगरे वादनं कृतवान् ।
व्यैक्तिकतथ्यानि
मूलतः जम्मू,भारतम्
सङ्गीतविद्या भरतीयशास्त्रीयसङ्गीतम्
वृत्तिः सङ्गीतगुरुः ।
वाद्यानि शततन्त्री
सक्रियवर्षाणि वर्तमान क्रि.श. १९५५ तः वर्तमानः


पण्डितः शिवकुमार शर्मा (Shivkumar Sharma) (जन्म क्रि.श. १९३८तमवर्षस्य जनवरी मासस्य १३दिनाङ्कः)[१]) प्रख्यातः भारतीयः शततन्त्रीवादकः अस्ति ।[२][३] शततन्त्री किञ्चित् काश्मीरीयं जानपदवाद्यं भावति ।। [१][४][५][६] अस्य जन्म जम्मूनगरे गायकः [७][८] पण्डितः उमादत्त शार्मणः गृहे अभवत् ।[९]क्रि.शा. १९९९तमे वर्षे रीडिफ्.कॉम् समूहमाध्यमार्थं कृते साक्षात्कारे एषः एवम् अवदत् । यदा एषः पञ्चवर्षीयः आसीत् तदा एव अस्य पिता गायनस्य तबलावादनस्य च शिक्षां प्रापितवान् ।[८]अस्य पिता तु शततन्त्रीवाद्यस्य विषये अधिकं संशोधनं कृतवान् । अपि च अस्य आशयः आसीत् यत् शिवकुमारः शततन्त्रीवाद्यस्य शास्त्रीयवादकः प्रथमभारतीयः भवतु इति । शिवकुमारः पितुः आशयस्य पूर्तये १३वर्षीयः एव शततन्त्रिणं वादयितुम् आरब्धवान् ।[८] सः तु पितुः स्वप्नं साकारितं च ।। [१]एष स्वस्य वादनस्य प्रथमकार्यक्रमं मुम्बैनगरे क्रि.श. १९५५तमे वर्षे कृतवान् ।

व्यवसायः[सम्पादयतु]

क्रि.श.१९८८तमे वर्षे वादनं कृतवान्

शिवकुमार शर्मा न केवलं शततन्त्रिणः श्रेष्ठः वादकः किन्तु उत्तमः गायकः अपि । शततन्त्रिवाद्यस्य लोकप्रियतायाः कारणिकः केवलं शिवकुमारशार्मा भवति ।[४][१०]एषः सङ्गीतस्य उपलब्धिम् आरब्धवान् तदा शततन्त्रिणः विषये न चिन्तितवान् अपि । अस्य पिता एव निश्चितवान् यत् एषः शततन्त्रिकुशलः एव भवेत् इति । [८]अस्य प्रथमः वाद्यनादगुच्छः क्रि.श. १९६०तमे वर्षे लोकार्पितः ।[१] क्रि.श. १९६५ तमे वर्षे वि.शान्तारमः इत्यस्य निदेशने लोकर्पिते " झनक झनक पाय बाजे " इति चलच्चित्रे गीतानां स्वरसंयोजनं कृतवान् ।[११] क्रि.श. १९६७ तमे वर्षे एषः प्रसिद्धेन वंशीवादकेन पण्डितः हरिप्रसाद चौरासिया इत्यनेन, पण्डितः वृजभूषण काबरा इतिख्यातेन सह मिलित्वा काल् आफ् दि वैली इति गीतगुच्छं लोकार्पितवान् । यत् शास्त्रीयसङ्गीतलोके उन्नतस्तरे परिगण्यते [१][१०]एषः हरिप्रसाद चौरासियामहोदयेन सह मिलित्वा अनेकेषां हिन्दीभाषाचलच्चित्राणां सङ्गीतसंयोजनं कृतवन् । [१२]चलच्चित्रसङ्गीतस्य श्रीगणेशः क्रि.श. १९८०तमे वर्षे "सिल् सिला " इति हिन्दीभाषाचित्रेण अभवत् । [११] अनेन शिव-हरि इति नाम्ना प्रसिद्धिः प्राप्ता । [११] " फासले " [क्रि.श.१९८५] , चान्दनी " [क्रि.श.१९८९], " लम्हे " [क्रि.श.१९९१], " डर "[क्रि.श.१९९३] इत्यादीनि अनेन स्वरबद्धानि लोकप्रियाणि हिन्दीभाषायाः चलच्चित्राणि । पण्डितः अस्य पत्न्याः नाम मनोरमा शर्मा [९][१३]यया पुत्रद्वयं प्राप्तवान् ।[८] अस्य ज्येष्टः पुत्रः राहुल शार्मा । [१४][१५]अपि शततन्त्रिवादकः अस्ति ।[१६][१७] पुत्रः राहुलः क्रि.श. १९९६ तमवर्षतः पित्रा समं शततन्त्रिवादनं कुर्वन् अस्ति ।[८]शिवकुमार शर्मा पुत्रं देवस्य वरप्रसादः इति मन्यमानः शिष्यत्वमपि दत्त्वा शततन्त्रिवादननिपुणम् अकरोत् । [८]

प्रशस्तिपुरस्कारः[सम्पादयतु]

शिवकुरार शर्मणा अनेकाः राष्ट्रीयान्ताराष्ट्रीयपुरस्काराः प्राप्ताः । क्रि.श. १९८५तमे वर्षे बाल्टिमोर्, संयुक्तराज्यम् इत्यदीनां राष्ट्रानां गौरवपौरत्वम् प्राप्तम् ।[१८] एतदतिरिच्य क्रि.श. १९८६ तमे वर्षे सङ्गीतनाटकाकादमीपुरस्कारः अपि प्राप्तः ।,[१९] शिवकुमार शर्मा क्रि.श. १९९१ तमे वर्षे पद्मश्रीप्रशस्तिः, क्रि.श. २००१ तमे वर्षे पद्मविभूषणप्रशस्तिः च प्राप्तवान् । [२०]

  • प्लेटिनम् डिस्क् द कॉल ऑफ द वैली"इति गीतगुच्छार्थम् ।
  • प्लेटिनम् डिस्क् " सिलसिला " इति हिन्दीभाषायाः चलच्चित्रस्य सङ्गीतार्थम् ।
  • गोल्ड् डिस्क् " फासले " इति हिन्दीभाषायाः चलच्चित्रस्य सङ्गीतार्थम् ।
  • प्लेटिनम् डिस्म् " चान्दनी " इति हिन्दीभाषायाः चलच्चित्रस्य सङ्गीतार्थम् ।
  • " लम्हे " इति हिन्दीभाषायाः चलच्चित्रस्य सङ्गीतार्थं विशिष्टपुरस्कारः ।
  • " डर " इति हिन्दीभाषायाः चलच्चित्रस्य सङ्गीतार्थं विशिष्टपुरस्कारः ।

उल्लेखाः[सम्पादयतु]

  1. १.० १.१ १.२ १.३ १.४ "अ ड्रीम फुलफिल्ड". इण्डियन् एक्स्प्रेस्. 2000-04-30. Archived from the original on 2012-10-03. आह्रियत 2009-02-03. 
  2. "शततन्त्रीवादननिपुणः पण्डितः शिवकुमार शर्मा इत्यस्य जीवनाधारितं चलच्चित्रम् अन्तर्ध्वन्याम् अस्ति ।". इण्डियन् एक्स्प्रेस्. 2008-09-18. आह्रियत 2009-02-07. 
  3. "संतूर स्ट्रेन्स म्यूज़िक टू ईयर्स ऑफ अनबॉर्न टू". इण्डियन् एक्स्प्रेस्. 2005-11-10. आह्रियत 2009-02-07. 
  4. ४.० ४.१ "शततन्त्री कम्स ऑफ एज, सौजन्यं पण्डितः शिवकुमार शर्मा". इण्डियन् एक्स्प्रेस्. 2009-01-08. Archived from the original on 2012-10-03. आह्रियत 2009-02-07. 
  5. "दि हीलिङ्ग् टच". स्क्रीन्. 2007-12-21. आह्रियत 2009-02-07. 
  6. "मिनिस्टर् कन्सर्न्ड ओवर स्लो प्रॉग्रेस ऑफ कश्मीर". 2005-02-04. आह्रियत 2009-02-07. 
  7. "मास्टर्स ऑफ द ईस्ट कम टु वेस्ट". बोस्टन ग्लोब. 2007-11-16. आह्रियत 2009-02-07. 
  8. ८.० ८.१ ८.२ ८.३ ८.४ ८.५ ८.६ "म्यूज़िक इज़ एन एक्स्प्रेशन ऑफ ह्यूमन इमोशन्स". रीडिफ.कॉम. 1999-08-20. आह्रियत 2009-02-07. 
  9. ९.० ९.१ "नोट बाए नोट". द टाइम्स ऑफ इंडिया. 2002-10-13. आह्रियत 2009-02-07. 
  10. १०.० १०.१ लैवेज़ोली, पीटर (२००६). द डॉन ऑफ इंडियन म्यूज़िक इन द वैस्ट. कंटीन्यूम इन्टर्नेशनल पब्लिशिंग समूह. p. ३२ Extra |pages= or |at= (help). ISBN 0826418155. 
  11. ११.० ११.१ ११.२ "एन्शैन्टमेन्ट फ़्रॉम ईडन वैली". दि हिन्दू. 2000-04-06. आह्रियत 2009-02-15. 
  12. "आई जस्ट पिक अप द फ़्लूट एण्ड फ़ील द अर्ज टू प्ले". फाइनेन्शियल एक्स्प्रेस. 2000-02-19. आह्रियत 2009-02-15. 
  13. "सुल्तान ऑफ स्ट्रिंग्स: शिवकुमार शर्मा". डी एन ए. 2006-08-18. आह्रियत 2009-02-07. 
  14. "संतूर नोट्स दैट बाइंड: फ़ादर एण्ड सन जुगलबंदी". लाइवमिन्ट.कॉम. 2007-07-01. आह्रियत 2009-02-07. 
  15. "इनर मैलोडीज़". इंडियन एक्स्प्रेस. 2008-07-29. Archived from the original on 2012-10-03. आह्रियत 2009-02-07. 
  16. "विरासत". रीडिफ.कॉम. 1998-03-18. आह्रियत 2009-02-07. 
  17. "वॉट्स राहुल शर्माज़ दलाइ लामा कनेक्शन?". टाइम्स ऑफ इंडिया. 2006-07-03. आह्रियत 2009-02-07. 
  18. "प्रोफ़ाइल". इंडिया टुडे. Archived from the original on 2009-04-27. आह्रियत 2009-02-07. 
  19. "संगीत नाटक अकादमी पुरस्कार – हिन्दुस्तानी संगीत- वादन". संगीत नाटक अकादमी. Archived from the original on 2009-05-19. आह्रियत 2009-05-13. 
  20. "Padma Awards". सूचना एवं प्रसारण मंत्रालय, भारत सरकार. आह्रियत 2009-05-13. 

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=शिवकुमार_शर्मा&oldid=481017" इत्यस्माद् प्रतिप्राप्तम्