मुख्यपृष्ठम्
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,२१३ लेखाः सन्ति।
श्रद्धया विन्दते वसु ॥
|
पाणिनिः (Panini) संस्कृतभाषायाः महान् वैय्याकरणः । तेन लिखितः अष्टाध्यायीनामकः व्याकरणग्रन्थः विश्वप्रसिद्धः वर्तते ।पाणिनेः तपसा सन्तुष्टः परशिवः ताण्डवं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत् । तस्याः ढक्कायाः शब्दान् पाणिनिः अशृणोत् ।
नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥
एते शिवडमरुसमुत्थाः शब्दा एव माहेश्वरसूत्राणि इति श्रूयन्ते । तदनन्तं पाणिनिः व्याकरणशास्त्रस्य मूलाधारम् अष्टाध्यायीति सूत्रग्रन्थं व्यरचयत् ।
शङ्करः शाङ्करीं प्रादात् दाक्षीपुत्राय धीमते ।
वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥
येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ (अधिकवाचनाय »)
जैनदर्शनं (Jainism) भारतीयदर्शनेषु अन्यतमं वर्तते। चार्वाकविचारधारायाः अनन्तरं नास्तिकदर्शनेषु जैनदर्शनस्य महत्त्वपूर्णं स्थानमस्ति। चार्वाकमतस्य स्थूलतत्त्वानां चिन्तनस्य अपेक्षया सूक्ष्मचिन्तनं प्रति चिन्तनस्य प्रावाहिकता जैनदर्शने दृश्यते। यत्र चार्वाकः शरीरमेवात्मानं स्वीकरोति तत्र जैनदर्शनेन आत्मा इति शरीरातिरिक्तम् अभौतिकं तत्त्वं स्वीकृतम्। तच्च शरीरपरिमाणं मध्यमपरिमाणं वाऽभिमतम्। वैदिकदर्शने प्रायेणेदं प्रतिपादितमस्ति यदात्मा अणुपरिमाणो महत्प्रमाणो वाऽस्ति-‘अणोरणीयान् महतो महीयानिति'। अणुपरिमाणस्य महत्परिमाणस्य वा नित्यत्वात् आत्मा नित्योऽस्ति इति वैदिका मन्यते। तन्मतानुसारेण मध्यमपरिमाणात्मकाः पदार्था अनित्याः सन्ति। जैनदर्शने मध्यमपरिमाणः आत्मा नित्योऽस्ति। स भौतिकपदार्थवत् अनित्योऽस्ति। (अधिकवाचनाय »)
सप्तचिरञ्जीविनां नामानि -
- अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण: ।
- कृपः परशुरामश्च सप्तैते चिरजीविनः ॥
- पाकिस्थानस्य किशोरः चेन्नै-नगरे जीवनरक्षकं हृदयप्रत्यारोपणं प्राप्नोति।
- मुम्बईनगरे प्रथमः तटीयमार्गः प्राप्यते ।
- बिहारस्य आरामण्डले माहुली-गंगा-नद्याः उपरि अभिनवः प्लवमाना गृहनौका अस्ति ।
- मोहम्मद शमी, पैरा-आर्चर शीतल देवी च अर्जुनपुरस्कारम् अलभताम्।
सर्वो जनः सुजनतामुपयाति तस्य।
यः मनुष्यः पूर्वस्मिन् जन्मनि अनेकानि सुकृतानि (पुण्यकर्माणि) कृतवान् सः अस्मिन् जन्मनि सर्वत्र सुखम् एव प्राप्नोति। नास्ति अत्र संशयः। तादृशः पुण्यवान् घोरं वनं प्रविशति चेदपि तद्वनं पत्तनमिव सर्वसौलभ्यदायकं भवति। अपि च ये ये तं पश्यन्ति ते सर्वे अपि तस्य विषये मृदु व्यवहरन्ति। किं बहुना, समग्रा भूमिः एव तस्य विषये सम्पद्युक्ता रत्नयुक्ता च भवति। |