मुख्यपृष्ठम्
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,५३२ लेखाः सन्ति।
|
पृथिवीं मा हिंसीः ॥
|
निरुक्तम् शिक्षा, व्याकरणं, छन्द:, निरुक्तं, ज्योतिषं, कल्प: इति वेदस्य षडङ्गानि। तत्र ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते इति कथनात् निरुक्तस्य प्रामुख्यं ज्ञायते।निघण्ट्वाख्यस्य वैदिककोशस्य भाष्यरूपमस्ति निरुक्ताख्यं वेदांगम्। निघण्टौ तु केवलं वैदिकाः शब्दाः परिगणिताः सन्ति, परन्तु निरुक्तकारो यास्कः तेषां वैदिकानां शब्दानां सविस्तरं विवेचनं करोति। अर्थात् निरुक्तनामके ग्रन्थे वैदिकशब्दानाम् अर्थज्ञानस्य प्रक्रिया वर्णिता अस्ति। निघण्टोः पञ्चाध्यायानां विवेचनं स्वकीये निरुक्तग्रन्थे यास्केन द्वादशाध्यायेषु सम्पादितमस्ति।
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः।
ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु ॥२॥
(अधिकवाचनाय »)

अन्ताराष्ट्रियवाताटोत्सवः मकरसङ्क्रमणदिने गुजरातराज्ये आचर्यमाणः विशिष्टः, सुप्रसिद्धश्च उत्सवः अस्ति। यस्मिन् दिने भगवान् सूर्यः मकरराशिं प्रविशति, तस्मिन् दिने भारते मकरसङ्क्रान्त्युत्सवः आचर्यते। सूर्यस्य मकरराशौ प्रवेशः मकरसङ्क्रमणम् इत्युच्यते। अतः मकरसङ्क्रान्तिः इति नाम। मकरसङ्क्रान्तिदिनादारभ्य षण्मासाः उत्तरायणपुण्यकालः भवति। अतः गुजरातराज्ये उत्सवस्यास्य उत्तरायणम् इति व्यवहारः। प्रतिवर्षं 'जनवरी'मासस्य चतुर्दशे दिनाङ्के मकरसङ्क्रान्तिः भवति। अस्मिन् उत्सवदिने तदङ्गत्वेन गुजरातराज्यस्य सर्वकारस्य प्रवासोद्यमनिगमेन काचन विशिष्टा अन्ताराष्ट्रिय-वाताट-उड्डयनस्पर्धा आयोज्यते इतीदं वैशिष्ट्यम्। अस्यां च स्पर्धायां न केवलं भारतस्य विभिन्नेभ्यः राज्येभ्यः, अपि तु नानादेशेभ्यः स्पर्धालवः समागत्य भागं गृह्णन्ति। स्पर्धां द्रष्टुम् अपि अत्यधिकसङ्ख्यायां द्रष्टारः भवन्ति। उत्सवदिने आकाशे सर्वत्र वाताटाः एव दृश्यन्ते। तस्मिन् दिने आबालवृद्धाः, महिलाः, युवतयश्च आदिनं स्वस्वप्रासादोपरि वाताटान् उड्डाययन्ति। (अधिकवाचनाय »)
- नव रसाः - नवभावाः
- शृङ्गारः - रतिः
- वीरः - उत्साहः
- करुणः - शोकः
- अद्भुतः - विस्मयः
- हास्यः - हासः
- भयानकः - भयम्
- बीभत्सः - जुगुप्सा
- रौद्रः - क्रोधः
- शान्तः - शमः
अयं च श्लोक: -
- शृङ्गार-वीर-करुणाद्भुत-हास्य-भयानकाः ।
- बीभत्सरौद्रौ शान्तश्च रसा: नव प्रकीर्तिताः ॥
- उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना
22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।
* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्
21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।
* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्
20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।
स्वयं न खादन्ति फलानि वृक्षाः।
नदीषु जलं भवति। परन्तु नद्यः स्वयमेव तत् जलं कदापि न पिबन्ति। वृक्षेषु फलानि भवन्ति। ते वृक्षाः अपि स्वयमेव तानि फलानि कदापि न खादन्ति। जलवर्षणेन सस्यानि यथा सम्यक् प्रवृद्धानि भवेयुः तथा कुर्वन्ति मेघाः। परन्तु ते स्वेन वर्धितानि सस्यानि स्वयमेव न खादन्ति। एवमेव सज्जनाः स्वसमीपे विद्यमानानां सम्पत्तीनाम् उपयोगं स्वयं न कुर्वन्ति। अपि तु परोपकारार्थमेव तासां विनियोगं कुर्वन्ति। |