पाणिनेः ग्रन्थपञ्चकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पाणिनेः पञ्च ग्रन्थाः एव पाणिनेर्ग्रन्थपञ्चकम् उच्यन्ते। पाणिनीयं हि व्याकरणं पञ्चाङ्गकमित्युच्यते । तत्र हि शब्दानुशासनं धातुपाठः गणपाठः लिङ्गानुशासनं शिक्षा च पञ्चाङ्गानि । केचिच्छिक्षास्थाने उणादिसूत्राणि गणयन्ति)अपरे तु तत्र परिभाषापाठसमावेशयन्ति । अस्त्यत्र प्राचीनः श्लोकः -

अष्टकं गणपाठश्च धातुपाठस्तथैव च ।

लिङ्गानुशासनं शिक्षा पाणिनीया अमी क्रमात् ।।' इति ।

पण्डिताः शब्दानुशासनेन सह तत्सम्बद्धान् धातुपाठ-गणपाठ-परिभाषापाठलिङ्गानुशासनानि गणयन्ति । पञ्चाङ्गत्वेन तेषामेव शब्दानुशासनेन सह. प्रत्यक्षसम्बद्धात् ।

शब्दानुशासनातिरिक्ता हि पाणिनीयस्तत्सम्बद्धग्रन्था हि 'खिल' शब्देन । वा ‘परिशिष्ट' शब्देनाप्यभिधीयन्ते । यथोक्त काशिकायां -

“उपदिश्यतेऽनेनेत्युपदेशः । शास्त्रवाक्यानि सूत्रपाठः खिलंपाठश्च । तथैव न्यासे-- खिलपाठो धातुपाठश्चकारात्प्रातिपदिकपाठश्च । खिलं नाम परिशिष्टमेव । यथा सप्तशत्या मूर्यादिरहस्ये‘मार्कण्डेयपुराणे खिलांशे मूर्तरयम् ।' इति ।

तथैव स्वशाखापेक्षया परशाखीयमपि खिलमेव । खिल नामावयवमपि । तान्यत्र संक्षेपेणोपस्थाप्यन्ते ।

धातुपाठः[सम्पादयतु]

मुख्यलेखः : धातुपाठः


संस्कृतभाषायां हि सर्वे एव. शब्दाः किं नाम किमव्ययं किं वेतरतुः प्रकृती प्रत्यययोगेन निष्पन्ना अत एव यौगिका मन्यन्ते । तत्रापि येषां खलु प्रकृतिप्रत्ययविभागः स्पष्टतया ज्ञायते ते हि शब्दा मूलशब्दानुशासने येषाञ्चोत्पत्तौं. क्लिष्टतयैव प्रवृत्तिस्तेषां हि खिलरूपे उणादिपाठे च विचारः । तौ हि शब्दानुशासनोणादिसाधितौ शब्दौ यौगिकौ । एषाञ्च यौगिकत्वं न कदापि विभज्य ज्ञातुं शक्यते ते हि शब्दा अव्युत्पन्ना एव । परापूर्वकाले तेऽपि व्युत्पन्ना ओसनु है कालक्रमेण तेषां व्युत्पत्तिरसम्भवाभवत् । तेन हि यत्र शकिटॉयनेस। वैयाकरणाः सर्वानपि शब्दान् धातुजानु मन्यतेस्म तत्र पाणिनिह शब्दानाम: व्युत्पन्नत्वमपि स्त्रीचकार ‘अर्थवदधातुरप्रत्ययः प्रातिपदिकमिति कथने कृत्तद्धित• समासाश्च' इति योगेन । प्रातिपदिकं हि एतदनुसारेण त्रेधा निष्पद्यते धात कुअंत्यययोंगेन, तस्मिन् हि तद्धितप्रत्यययोगेन तयोस्तेषां वा समसनेन च । एतदतिरिक्तमपि ये हि शब्दाः प्रचलिताः सन्ति तेऽपि प्रातिपदिकेसंज्ञां भजन्त इति शब्दो द्विधा भवति व्युत्पन्नोऽव्युत्पन्नश्च । तत्र व्युत्पन्नः कृत्तद्धितसमास- सिद्धोऽव्युत्पन्नश्च स्वयंसिद्ध इति । स्वयं सिद्धे हि धातुः प्रत्ययश्च प्रातिपदिकसंज्ञां नैव भजन्ते निरर्थंकश्च शब्द इति । तत्र येषु हि शब्देषु धात्वर्थंस्थानुगमनं प्रतीयते ते हि यौगिकाः, येषु च प्रतीतेऽपि धात्वर्थानुगमने कस्मिंश्चिदेवार्थविशेषे नियतत्वं प्रतीयते ते हि योगरूढाः येषु च कथश्चिदपि धात्वर्थानुगमने नैब प्रतीयते, ते हि रूढा ऐवेति शब्दा योगिक-योगरूढ-रूढभेदेन त्रिविधाः । संन्ति । तेष्वपि यौगिकयोगरूढशब्दानां सिद्धिस्तु मूलव्याकरणतो ज्ञायते रूढशब्दसिद्धिनिमित्तमेवोंणादिप्रकरणं परिकल्पितम् । शब्दब्रह्मणोऽनन्तत्वादौणादिकगत्यापि असाध्यव्युत्पत्तिकशब्दानामुच्चारणे उदात्तादिस्वरज्ञानाय फिट्सूत्रव्यवस्थाऽपि कृताऽऽचाः । यथाऽऽह महाभाष्यकारः -

प्रातिपदिकविज्ञानञ्च भगवतः पाणिनेराचार्यस्य सिद्धम् ।

उणादयोऽव्युत्पन्नानि प्रतिपदिकानि इति ।[१]

प्रथमं तु सर्वेऽपि शब्दा योगिकी एवासन् । अनन्तरं तेषां धात्वर्थानुगमनविस्मृतेः रूढत्वं सञ्जातम् । एतादृशं रूढत्वं प्रथमं निपातशब्दे समुत्पन्नम्, ततश्च कृदन्तशब्दे ततश्च संज्ञावाचिनि तद्धितशब्देऽपि । अनन्तरञ्च सर्वेऽपि शब्दाः स्वकीयां यौगिको स्थितिमपहाय रूढत्वमाश्रितवन्तो यथा पाचकवृक्षब्राह्मणादिशब्दाः । तेनैव कातन्त्रीये कृदन्तमेव नैव व्याख्यातम् ।। - केचित्तु शब्दं पूर्वतो विद्यमानं मन्यन्ते प्रकृतिप्रत्ययविभागं तु तज्ज्ञानसौकर्याय परिकल्पितमात्रम् । तेनैव तत्र विदुषां नौकमत्यम् । यथोक्त वाक्यपदीये -

अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु ।[२]

शव्दानां प्रकृतिप्रत्ययबिभागः काल्पनिको यथार्थों वा स्यात् व्याकरणं तु शब्दानां प्रकृतिप्रत्ययविभागद्वारा साधनेन सह सम्बद्धम् । तत्र प्रकृतिर्मूलम् । यस्मात्प्रत्ययविधिः कल्प्यते सा प्रकृतिः । तेन हि समस्तशब्दानां कृदन्ततद्धितान्तशब्दा एवं प्रकृतिः । तद्धितान्तशदानां कृदन्तशब्दा एवं प्रकृतिः । कृदन्तशब्दानाञ्च धातवो हि प्रकृतिः । तेनैव सर्वेऽपि शब्दां धातुजाः । धातवो हि भूवादयः विविधानां शब्दरूपाणां धारको धातुः । तेनैव दधाति शब्दस्वरूपं यः स धातुरिति । स एव आख्यातविभक्तियुक्तः क्रियावाचकः कृत्प्रत्यययुक्तश्च नामादिः वाचकः निपाता अव्ययं निपातः कर्भप्रवचनीयः कुगतिप्रादयोऽपि धातोः कृत्प्रत्यययोगेनैव जाताः किन्तु तेऽज्ञातमूलाः । पाणिनिमतेऽव्ययानामपि प्रातिपदिकसंज्ञासुबुत्पत्तिश्च भवति, पश्चाच्च तल्लुष्यते ‘अव्ययादाप्सुपः' इतिं प्रबन्धेन ।

सामान्यतस्तु धातुपाठो यस्य कस्यापि व्याकरणस्य मूलसत्वम् । सर्वे हि शंदा धातुमूला इति धातोः प्राथम्यमपरिहार्यमेव । यत्किञ्चिदपि पूर्ण व्याकरणं धातुपाठेन विना नैव समग्रतां भजते । तथापि नैतदवधेयं यद्धातव एंव नित्यो इंति । सत्यपि शब्दसाधने ' धातोरपरिहार्यं महत्वे धार्ताह शब्दप्रकृत्यनुसारेण कल्पितः शब्दखण्ड एव । तस्य हि कल्पितत्वेनैव स्वरूपमपि भिद्यते प्रत्याचार्यम् । यथा आपिशलिः ‘स भुवि' इति पठति, पाणिनिस्तु‘अस् भुवि' इति ।

श्रूयते हि इन्द्रेणाऽपि धातुपाठः प्रोक्त आसीत् । एवञ्च वायुनाऽपि । वस्तुतस्तु आपिशलि-काशकृत्स्न-शाकटायन-भागुरिप्रभृतिरपि स्वसम्प्रदायानुसारी धातुपाठः प्रोक्त आसीत् । तेषु हि सौभाग्यवंशात् काशकृत्स्नधातुपाठः सम्प्रत्युपलभ्यते ।

एवमेव पाणिनीयो धातुपाठः सम्प्रति समुपलब्धेषु धातुपाठेष्वन्यतमः । केचित्तु तस्य पाणिनीयत्वं प्रेत्याचक्षते । तेषु हि न्यासकारो जिनेन्द्रबुद्धिमुख्यः । किन्तु तस्य “प्रतिपादितं हि पूर्वं गणकारः पाणिनिर्न भवतीति । तथा चान्यो गणकारोऽन्यश्च सूत्रकार इति' कथने गणकारशब्देन किमभीष्टमिति नैव स्पष्ट तथापि यद्यप्यत्र त्रिग्रहणं क्रियते निजादीनामन्ते वृत्करणं किमर्थम्? एतद्गणकाः प्रष्टव्यः न सूत्रकारः । अन्यो हि गणकारोऽन्यश्च सूत्रकार इत्युक्त प्राक् । इंति कथने स्पष्टमेव धातुपाठस्य पाणिनीयत्वं प्रत्याख्यातमस्ति । किन्तु स एवान्येत्र ‘न तस्य पाणिनेरिव ‘अस् भुवि' इति गणपाठः' इति प्रतिपाद्य धातुपाठस्य पाणिनिप्रोक्तत्वं समर्थयति । नैतावतैवापितु प्रमाणान्तरैरपि पाणिनिना धातुपाठः 'प्रोक्त इति सिध्यति । सूत्रेषु हि पाणिनिना धातुगणो निदष्टो यथा पुषादि द्युतालुदितः परस्मै । 'पर्देषु,[३] किरवं पञ्चभ्यः,[४] शमामष्टानां दीर्घःश्यनि।[५] तद्वयाख्याताय धातुपाठों नितान्तमावश्यक एव । अपरञ्च शब्दानुशासने हि धात्वनुबन्धानादायानेकानि कार्याणि कृतानि सन्ति । यथाः अनुदात्तङित आत्मनेपदम्[६] स्वरितजितः कत्रभिप्राये क्रियाफले,[७] ड्वितः क्त्रिः,[८] ट्वितोऽथुच्[९] उदितो वा[१०] इदितो नु धातोः[११] ओदितश्च[१२] उपदेशेऽत्वतः,[१३] एकाच उपदेशेऽशिति[१४] सन्वल्लधुनि चपरेऽनग्लोपे,[१५] धात्वादेः षः सः,[१६] धातोरेकाचो हुलादेः क्रियासमभिहारे यङ्,[१७] श्रीदितो निष्ठायाम्[१८] स्वरतिसूतिसूयतिघूनूदितो वा,[१९] आदितश्च[२०] नाग्लोपिशास्वृदिताम्',[२१] षिद्भिदादिभ्योऽङ्,[२२] इरितो वा[२३] इत्यादि । तेन हि तदनुकूलनायापि पाणिनिह धातुपाठमवश्यमेव प्रोक्तवानित्यनुमीयते । एवं तह सिद्धे सति यदादिग्रहणं करीति तज्ज्ञापयत्याचार्यंः अस्ति च पाठो बाह्यश्च सूत्रात्[२४] इति महाभाष्यवचनादपि पाणिनिप्रोक्तो धातुपाठः स्मर्यते ।

पदमञ्ज हरदत्तः स्मरति-- ‘यत्राचार्याः स्मरन्ति तत्रैव सूत्रकारेण तावद्विक्षिताः सर्वेऽनुनासिकाः पठिताः ‘डुलभष् प्रप्तौं' इतिवत् । लेखकैस्तु सङ्कीर्णा लिखिताः' इति ।[२५]

'एतैरन्यैश्च तादृशैः प्रमाणैः सिध्यति यत्पाणिनिनाऽवश्यमेव स्वसूत्रावर्ती धातुपाठः प्रोक्त एवेति । ' सिद्धेऽथं धातुपाठस्य पाणिनीयत्वे पुनश्च पाणिनिना धातुपाठः कृतो न वेति विषये पण्डिता नैकमत्यं भजन्ते । केचन धात्वर्थान् पाणिनीयात् मन्यते केचन ? तु पाणिनिना धातुपाठ एवं प्रोक्तः किन्तु धात्वर्थास्तु पश्चाद्वतिविचक्षणैः भीमसेन मैत्रयप्रभृतिभिरुक्ता इति मन्यन्ते उभे एव मतेऽत्र संक्षेपेणोपस्थाप्यते । तत्र हि प्रथमं महाभाष्यमतमुध्रियते -

‘परिमाणग्रहणं च कर्तव्यम् । इयानवधिर्धातुसंज्ञो भवति इति वक्तव्यम् । कुतो ह्य तत् ? भूशब्दो धातुसंज्ञो भवति पुनर्वेधशब्दः ।[२६]

अत्रपरिमाणग्रहणं च अर्थनिर्देशाभावे एवावश्यकम् । 'न ह्यर्था आदिश्यन्ते, क्रियावचनता च गम्यते'[२७] ‘कः खल्वपि पचादीनां क्रियावचनत्वे यत्नं करोति[२८] 'को हि नाम समर्थों धातुप्रातिपदिकप्रत्ययनिपातानामनिदिष्टनादेष्टुम् ।[२९] तत्र कैयटोऽप्याह -

न चार्थपाठः परिच्छेदकस्तस्यापाणिनीयत्वात्, अभियुक्तरूपलक्षणतयोक्तत्वात् । इति ।

तत्र नागेशः कथयति‘भीमसेनेनैतिह्यम् । 'इति ।' अर्थात् धात्वर्थनिर्देशस्तु भीमसेनेनः कृत इति ।। तथैव--

‘पाठेन धातुसंज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः । 'दा' इति धातुः याः इत्याबन्तः । 'वा' इति धातुः ‘वा' इति निपातः । 'नु' इति घातु: ‘नु इति प्रत्ययः । ‘दिव” इति धातुः ‘दिव' इति प्रातिपदिकम् ।[३०] अनेनापि पाणिनेर्धात्वर्थनिर्देशाभाव एव सिध्यति तथा हि सति प्रतिषेधस्यावश्यकंतैव, नोदेयात्। तत्र नागेशः कथयति - ‘पचादीनामर्थरहितानामेव पाठात् ।'

भट्टोजिरपि शब्दकौस्तुभे[३१] कथयति। 'न च या प्रापणे' इत्याद्यर्थनिर्देशो नियामकस्तस्यापाणिनीयत्वात् । भीमसेनादयो ह्यर्थं निददिक्षुरिति स्मर्यते। पाणिनिस्तु ‘भ्वेध' इत्याद्यपाठीदितिः भाष्यकैयटयोः स्पष्टम् ।

‘तितिक्षाग्रहणं ज्ञापकं भीमसेनादिकृतोऽर्थनिर्देश उदाहरणमात्रम्।' तेन हि भगवती पाणिनिना ‘भ्वेधस्पर्ध इति रूपो धातुसंहितापाठ 'एक " कुतों नत्वर्थनिर्देशः । किन्तु कतिपयानि एतादृशान्यपि प्रमाणानि सन्ति यैर्धात्वर्थनिर्देशोऽपि । पाणिनीय एवेति सिध्यति ।

यथोक्त महाभाष्ये -

आचार्यप्रवृत्तिर्ज्ञापयति-नैव जातीयकानामिद् विधिर्भवतीति युदयमिरितिः कांश्चिन्नुमनुषक्तान् पठति–उबुन्दिर् निशामने, स्कन्दिर् गतिशोषणयोरिति ।[३२] शिवरामेन्द्रः कथयति सिद्धान्तरत्नप्रकाशे -

अस्मै साधुशब्दबुभुत्सवे पाणिनिना धातुपाठे ‘मृजू शुद्धौ' इत्युपदिष्टः । हरदत्तादयोऽपि धात्वर्थनिर्देशं पाणिनीयमेव मन्यन्ते । एवमेव सायणाचार्योऽपि ।

तां प्रतिपत्तिविप्रतिपत्ती । सर्वे तु पाणिनेर्धातुपाठः प्रथमं संहितारूपेणार्थरहित एवासीत् भ्वेधस्पर्ध'''इत्यादिरूपः पश्चाच्चाचार्येण व्याख्यानावसरे आवश्यकस्थलेऽर्थनिर्देशः कृत इति स्वीकुर्वन्ति। धातूनां ह्यनेकार्था भवन्ति । यत्र चार्थविशेषेण रूपपार्थक्यं तत्र सूत्रे एवापि धात्वर्थनिर्देशः कृत एव । यथा भुजोऽनवने,[३३] राघो हिसायाम्,[३४] न गर्लािहसार्थेभ्यः,[३५] आङो दोऽनास्यविहरणे,[३६] प्रकाशनस्थेदाख्ययोश्च,[३७] उदऽनुर्धवकर्मणि,[३८] उपान्मन्त्रकरणे[३९]; गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृमः,[४०] वृत्तिसगैंतायनेषु क्रमः,[४१] निगरणचलनार्थेभ्यश्च,[४२] इत्यादिः । तेन पाणिनिना धात्वर्थनिर्देशो भागिनेयबधूरिव नैव स्पृष्ट इति नैव ‘सिथ्यंति । भगवता हि धातुपाठः संहितारूपेणैवार्थरहित एव प्रोक्तः । व्याख्यावसरे यत्र यत्र स्पष्टीकरण आवश्यक आसीत्तत्र तत्र अर्थनिर्देशोऽपि कृतः । “सामान्यतो धातूनामर्थानन्त्याद्भगवती परिसीमनं नैव कृतम्। ते याम्, एघ वृद्धौ, इत्यादिपाठस्तु अर्वाचीन एव । अत एव अर्थसहितो . ऽर्थरहितश्च लघुपाठ इति युधिष्ठिरमहाभागमतमपि वयं नैवानुगन्तुं समर्थाः । अस्माकं मते तु एक एव धातुपाठः भ्वेधस्पर्धादिरूपः । व्याख्याकाले स्पष्टी. करणनिमित्तं यत्र कुत्र अर्थनिर्देशः कृतस्तत्र शिष्यैः सङ्गृहीतं यदादाय भीमसेनेन पूर्णोऽर्थपाठः सम्पादितः स्वानुभूतादियोजनेन । यथाऽऽह मैत्रेयरक्षितको धातुप्रदीपे -

‘बहुनोऽमून् यथा भीमः प्रोक्तवांस्तद्वदागमात् ।' तथैवोमास्वातिव्याख्यायां सिद्धसेनः - भीमसेनात्परतोऽन्यैर्वैयाकणैरर्थद्वयेऽपठितोऽपि चितिधातुः संज्ञाने विशुद्धो च वर्तते । इति ।

धातुपाठस्य प्राच्यौदीच्यदाक्षिणात्यपाठभेदो. मैत्रेयक्षीरस्वामिपाल्यकीतिसमाश्रित इति तु वयमपि विकृतहृदयेन स्वीकुर्मः। वर्तमानश्च धातुपाठस्तेभ्योऽपि बिलक्षणः सायणाचार्यप्रतिसंस्कृत इति युधिष्ठिरमतमपि वयं शिरसा धरामः । तदनन्तरं भट्टोजिनाऽपि तत्पुनः संस्कृतमित्यपि युक्तमेव । . पाणिनीये हि धातुपाठे हि द्विसहस्रमिता धातवः सन्ति ये हि दशसु गणेशु विभक्ताः सन्ति । गणाश्च भ्वादि-अदादि-जुहोत्यादि-दिवादि-स्वादि-रुधादितुदादि-तनादि-दादि चुरादयो येषां विकरणा, क्रमेण शप्लुक्-श्लु-श्यन्-श्नु नं-श-उ-श्ना-णिचः । शब्विकरणः सार्वत्रिकः कर्तरि प्रयोज्यः । अदादिगणे तस्य लुक भवति जुहोत्यादौ श्लुः, दिवादौ शपं बाधित्वा श्यन् भवति एवमेवान्यत्रापि । चुरादौ णिचोऽनन्तरं शबपि भवति । तेन भवति, अत्ति, जुहोति, दीव्यति, सुनोति, रुणद्धि, तुदति, तनोति, क्रीणाति-चोरयति इति लटि तिपि रूपाणि भवन्ति । तत्रापि धातवः स्वप्रकृत्यनुसारेण परस्मैपदिन आत्मनेपदिन उभयपदिनश्च सन्ति । एक एवापि धातुरर्थवशात्पदान्तरं भजते । यथा भूधातुः । सत्तार्थे परस्मैपदी यथा भवति, प्राप्त्यर्थे आत्मनेपदी यथा भवंते बभूवें ।। उभयपदिषु कर्तृगामिनि क्रियाफले आत्मनेपदिनः परगामिनि तु परस्मैपदिनः । यथा करोति, कुरुते । तिप्-तस्-झि ( अन्ति ) सिप्-थस्,थ-मिप्-वस्-मस् । एते परस्मैपदविभक्तयः तथैव त-आतां-झ-था-आथां-ध्वं-इड्-वहि-महिङ् एते आत्मनेपदविभक्तयः ।

पाणिनीय धातुपाठस्य प्रामाणिकता एतावतैब सिध्यति यत्तदाधारेणानेके । तत्सम्बद्धग्रन्थाः प्रणीता दृश्यन्ते । ते च यथा -अज्ञातकर्तृक आख्यातनिघण्टु :-अस्य त्रीण्युद्धरणानि दैवव्याख्याने पुरुषकारे कृष्णलीलांशुकमुनिना कृतानि दृश्यन्ते । यथा-

स्नाति स्नायत्याप्लवते इति चाख्यातनिधण्टुः इत्यादिः । भट्टमल्लकृता आख्यातचन्द्रिका-भट्टमल्लश्च मल्लिनाथ-विश्वनाथ प्रभृतिभिरुद्धृतत्वाद्विक्रमानन्तरं त्रयोदशशतकपूर्ववर्तीत्यनुमीयते । क्षीरस्वामिस्मृतो मल्लस्तु तद्भिन्न एव प्रत्येति आख्यातचन्द्रिकायां विट-पिट धात्वो रूपानुपदेशात् । तत्र हि त्रयः काण्डाः प्रतिकाण्डं वर्गाश्च । प्रथमे हि काण्डे भावविकार-बुद्धि-अन्तस्करणवृत्ति-वास्क्रिया-व्वनिक्रियेति पञ्चवर्गाः, द्वितीये हि मनुष्यचेष्टा-ब्रह्मचेष्टा-क्षत्रियचेष्टा-वैश्यचेष्टा-शूद्रचेष्टेति पञ्च वर्गाः ।। तृतीये हि प्रकीर्णक-सनाद्यन्त-नामार्थ-आत्मनेपदपरस्मैपदेति पञ्चवर्गा यत्र यत्र नानार्थवर्गे भ्वादि-अदादि-जुहोत्यादि-दिवादि-स्वादि-तुदादि-रुधादि-तनादि क्रयादि-चुरादिगणाः नामधातवः कण्ड्वादयश्च निदष्टाः । वेङ्कटरङ्ग-नाथस्वा'मिनी भूमिका प्रशस्तिश्लोक-पदसूची-पर्यायार्थसूची शुद्धपाठ-पाठभेदादिभिः समलङ्कृत्य सम्पादितेयं चन्दिका वस्तुतः आख्यातचन्द्रिकैव । हलायुधस्य कविरहस्यं, विजयानन्दस्य क्रियाकलापः, वीरपाण्डवस्य क्रियांपर्यायदीपिका, रामचन्द्रस्य क्रियाकोशः, सारङ्गस्य प्रयुक्ताख्यातमंजरी, गुणरत्नस्य क्रियारत्नसमुच्चयः, वरदराजस्य धातुरूपभेदः' अनिर्णीतकर्तृ को धातुसंग्रहः, घनश्यामकृतो धातुकोशश्च धातुपाठप्रकरणग्रन्थाः केचन । । तथैव धातुपाठञ्चानेकैविद्वद्भिव्यख्यातोऽस्तिः। तेषु हि पाणिनिसुनागभीमसेन-धातुपारायंणकर्तृ-धातुवृत्तिकृत्-नन्दिस्वामी-वाथ-कौशिक-क्षीरस्वामी-मैत्रेयरक्षित-हरियोगि-देव-लीलांशुक-हेलाराज-सायण प्रभृतयः ।

पाणिनिः स्वप्रोक्तस्य धातुपाठस्य वृत्तिरवि प्रोक्तवानिति पूर्वमुक्तमेव यथाऽऽह सायणः...अस्माकं तुभयमपि ( तप ऐश्वर्ये वा, वृतुवरणे, तप ऐश्वर्ये, वाबृतु वरणे) प्रमाणम्, उभयथा शिष्याणां प्रतिपादनातुं । सुनागेनापि पाणिनीयधातपात . परि वृत्तिलिखितेतिः ग्रन्थान्तरतो ज्ञायते । यथोक्त क्षीरतरङ्गिण्यां - 'धातुनामर्थनिर्देशोऽयं निर्देशनार्थ इति सौनागाः । यदाहुः -

"क्रियावाचित्वमाख्यातुमेकोऽत्रार्थः प्रदर्शितः ।

प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः ॥”

भीमसेनो हि पाणिनीयधातुपाठस्य व्याख्याता धात्वर्थनिर्देशकश्वेति श्रुतम् । | क्रियारत्नसमुच्चयकृद् गणरत्ने लिखिति--

'अचिदर्तापुर्वादप्रभृतयः परस्मैपदिन इति भीमसेनीयाः इति । अमरटी कासर्वस्वे सर्वानन्दः कथयति-

‘अर्ब पर्ब, वर्ब कर्ब खर्ब, गर्ब मर्ब सबै चर्ब गत इत्ययमपि :

भूवादौ भीमसेनेन पवर्गान्तप्रकरणे पठितः ।' इति[४३]

एवञ्च मैत्रेयोऽपि ‘बहुशोऽमून् यथा भीमः प्रोक्तवांस्तद्वदागमात्' इति । भीमसेनं स्मरति । उमास्वातिभाष्यकृत् सिद्धसेनश्च -

‘भीमसेनात्परतोऽन्यैवैयाकरणैरर्थद्वयेऽपठितोऽपि । इति (तं स्मरति । । तथैव भट्टोजिरपि शब्दकौस्तुभे,[४४][४५],

‘तितिक्षाग्रहणं ज्ञापक भीमसेनादिकृतोऽर्थनिर्देश उदाहरणमात्रम् । इति स्मरति । तथैव- 'नच या प्रापणे' इत्याद्यर्थनिर्देशो नियामकः तस्यापाणिनीयत्वात् ।। र्भीमसेनादयोह्यर्थं निदद्रिक्षुरिति स्मर्यते । इति ।

अनेनैतत्सिध्यति यद्भीमसेनो धातुव्याख्याता धात्वर्थनिर्देशकश्वासीदिति । तस्य हि धातुपाठस्य हस्तलेखोऽनेकसङ्ग्रहालयेषु विद्यत इति श्रूयते । पाणिनीयधातुपाठमधिकृत्य केनचिद् धातुपारायणनामको अन्थो व्यरचि इति ग्रन्थान्तरसमुद्धरणंतो ज्ञायते । यथोक्तं दैवस्य पुरुषकारव्याख्याने -

‘पारायणिकैरमुक्तोऽपि क्षिपिर्देवादिको:.'

‘कसि गतिशासनयोरिति पारायणिकैरुदाहारि, कंस्ते कंस्तः इति । केचिद्भीमसेदीयं धातु ग्रन्थमेव धातुपारायणशब्देन व्यवहरन्ति । क्षीरस्वामिनः क्षीरतरङ्गिणी सम्प्रत्येप्युपलभ्यते । स हि महेश्वरस्वामिपुत्रः काठकशाखाध्यायीति तु.तरङ्गिणीत एव ज्ञायते । तथैव-

काश्मीरमण्डलभुवं जयसिंहनाम्नि विश्वम्भरापरिबृढे दृढदीर्घदोष्णि ।

शासत्यमात्यवरसूनुरिमा लिलेख भक्त्या युतो द्रविणवानपि धातुपाठम् ।”

इति क्षीरतरङ्गिणी हस्तलेखसमापनश्लोकादसौ काश्मीरकः इत्यपि ज्ञायते । काठशाखाध्यायिनः काश्मीरेष्वपात्सुरिति प्रसिद्धमेव । तेनैव काश्मीरेभ्यः पूर्वदेशं प्रतिगता केचिद् ब्राह्मणः ये खलु सम्प्रति जालन्धर-केदारकूर्माचलनेपालप्रभृतिक्षेत्र षु वसन्ति 'काठा'शब्देन परिचीयन्ते शेषाश्च तेन पदेनापभाष्यन्ते । च । जयापीडनृपतेः सभायामपि एकः क्षीराभिधानो वैयाकरण आसीत् यो हि मण्डले विच्छिन्नं महभाष्यं प्रावर्तयदिति कलूणकृतराजतरङ्गिणीतो ज्ञायते है यथोक्त--

देशान्तरादामय्य व्याचक्षणान् क्षमापतिः

प्रावर्तयद्धि विच्छिन्नं महाभाष्यं स्वमण्डले।

क्षीराभिधानाच्छब्दज्ञोपाध्यायात्सम्भृतश्रुतः

बुधैः सह ययौ वृद्धि स जयापीडपण्डितः ।।[४६]

किन्त्वसौ महाभाष्यप्रवर्तकोऽपर एव क्षीरः प्रतीयते यतो जयापीडस्य स्थितिकालस्तु विक्रमानन्तरनवमशतकपूर्वार्द्धमभित इति ज्ञायते । धातुवृत्तिकारस्तु एकादशशतकभवस्य श्रीभोजदेवस्य सरस्वतीकण्ठाभरणं बहुधोद्धरतीति तस्य तदनन्तरर्वातत्वं सूचयति । एवञ्च द्वादशशतकोत्तरार्धभवो' गणरत्नमहोदधिकारो वर्धमानः क्षीरस्वामिनमुद्धरति ‘ज्योतिषि ग्रहनक्षत्रादीनि वेत्ति ज्योतिषिक इति वामनक्षीरस्वामिनौ'[४७] इति कथनेन । एवञ्च । ११४५-१२२९ मित वैक्रमवर्षाण्यंमितः स्थितिमता हेमचन्द्रेणाऽपि स्मृतत्वावं स तत्पूर्ववर्तीत्यप्यनुमीयते । तेनासौ वैक्रमैकादशशतकभव इत्यनुमीयते । क्षीरतरङ्गिणीहस्तलेखसमापनश्लोके जयसिंहभूपतिरुल्लिखितः । स च १९८५-९५ मितवैक्रमाब्दानभितः स्थितिमान् । तत्समये क्षीरतरङ्गिण्याः प्रतिलिपिः कृत इति तस्य तत्पूर्ववतत्वं स्पष्टमेव ।

क्षीरस्वामी हि पाणिनीयशास्त्रस्यौदीच्यपाठमनुसरतीति युधिष्ठिरमहाभागस्य मतम् । तस्य हि अमरकोषोद्घाटनं, निपाताव्ययोपसर्गबृत्तिः, गणवृत्तिः, अमृततरङ्गिणी, च कृतित्वेन प्रसिद्धाः । तस्य हि अभिनवराघवं नाम नाटकमपि नाट्यदर्पणे रामचन्द्रगुणचन्द्राभ्यां समुद्धृतं दृश्यते । क्षीरतङ्गिण्यां हि धातवो व्याख्याताः सन्ति, ये हि भ्वादिगणे ७४२; अदादिगणे ८७ जुहोत्यादिगणे २७ दिवादिगणे १३८ स्वादिगणे ३३ रुधादिगणे ३० तुदादिगणे १४४ तनादिगणे ९९ क्रयादिगणे ६५ चुरादिगणे ३२७ च सन्ति । ग्रन्थोऽयं हि धातूनां सामान्यतः लट्-लिट्-लुङ्लकारेषु रूपाणि प्रस्तौति विशेषश्चेदन्येष्वपि । माधवीयधातुवृत्यपेक्षया संक्षिप्त यं धातुवृत्तिर्व्यवहारोपयोगिधातूनामेव विवेचनं करोति ।

मैत्रेयरक्षितश्चापरः पाणिनीयधातुवृत्तिकर्ता । अयं हि पाणिनीयशास्त्रस्य प्राच्यपाठसम्बद्ध इत्यस्य वङ्गीयत्वं कल्प्यते चान्द्रसम्प्रदायानुरोघाच्च वादिः । धातूनामेत्वाभ्यासलोपप्रतिषेधे । तस्य हि ११४०-११६५ मितवैक्रमवत्सराण्य* मितः स्थितिकालः । धातुप्रदीप इति तस्य ग्रन्थो यस्यान्तेऽयं श्लोकः -

आकृष्य भाष्यजलधेरथ धातुनामपारायणक्षपणपाणिनिशास्त्रवेदी ।

कालापचान्द्रमततत्व वभागदक्षो धातुप्रदीपमकरोज्जगतां हिताय ।।

दैवाख्यविपश्चिता हि पाणिनीये धातुपाठे दैवनामकमनेकविकरणसरूपधातुव्याख्यानं प्रणीतमस्ति । ग्रन्थोऽथं द्विशतपद्यात्मकः । ग्रन्थस्यास्य प्रयोजनं स एव निर्दिशति । यथा -

'पठितस्य पुनः पाठे फलं वृत्तेन वक्ष्यते ।

न विना वृत्तबन्धेन वस्तु प्रायेण सुग्रहम् । इति ।

अस्य च स्वरूप यथा -

सत्तायां भवति प्राप्तौ णिचि भावयते तङि।

भवते शपि तत्रैव भाव्यत्यवकल्कने ।। इति ।

ग्रन्थमियमधिकृत्य कृष्णलीलाशुकमुनिना पुरुषकारबृत्तिप्रणीताऽस्ति । सायणाचार्येणाऽपि माधवप्रतिसंस्कृतपाणिनीयधातूपरि माधवीयधातुः । बृत्तिनाम्ना बृत्तिग्रन्थः प्रणीतोऽस्ति । स हि माधवस्यानुजः मायणस्य पुत्रः श्रीमतीगर्भजः भोगनाथस्याग्रजो भारद्वाजगोत्रः तैत्तिरीयशाखाध्यायी बौधाय॑नः सूत्रानुवर्ती, १३७२ मितवैक्रमवत्सरे जीतः १४४४ मितवत्सरे प्रयातः, विजयनगरनृपाश्रितश्च । अस्य हि धातुवृत्तिः पूर्ववृत्यपेक्षया विस्तृता सप्रपंञ्चा च । अस्यां हि धातोविशिष्टरूपाणि सूत्र निर्देशपुरस्सरं साधितानि । नामधातुप्रक्रिया चास्य वैशिष्ट्येष्वन्यतमम् । अत्रापि गणक्रमेणैव धातव उपस्थापिता सन्ति । अत्र हि धात्वर्थनिर्देशश्च सटिप्पणः स्वानुकूलश्च । एवं हि वृत्तिकारैर्व्याख्यातृभिश्च शतशः पुनरुक्तः पाणिनीयधातुपाठः सर्वान्नपि धातुपाठानतिशय्य तिष्ठते ।

गणपाठः[सम्पादयतु]

मुख्यलेखः : गणपाठः


यद्यपि धातुपाठोऽपि गणपाठ एव धातवोऽपि भ्वादिप्रभृतिगणेषु परिगणि'तत्वात् तथापि योगरूढत्वेन प्रातिपदिकपाठ एव गणपाठनाम्ना व्यवहृतः । सङ्ख्यानार्थकाद् गणधातोनिष्पन्नो गणशब्दः सङ्ख्व्येयशब्दबोधकः । गणसमूहसमुदेष्वयमेव भेदो 'युद्गणे पौर्वायर्यस्य' कोऽपि विशिष्टकंमो भवति समूहे वा ' समुदायें नैव । तेन क्रमविशेषेण पठितानां शब्दानां पाठ एव गर्णपाठ इतीरितः। लाघवप्रयास एव गणपाठस्य योनिः । प्राक्काले हि यदा प्रतिपदपाठः प्रचलित आसीत्तदापि स्वरूपसाम्याधारेण शब्दसमूहा एकत्र निर्वचिता आसन् । पश्वाद् वर्तकाले यदा प्रतिपदपाठप्रक्रियया लक्षणात्मकस्वरूपं गृहीतं तदापि समानकार्यज्ञापनार्थं निर्देष्टव्यप्रातिपादिकानां समूहास्तत्सूत्राणां सद्योऽनन्तरमेवोपन्यस्ताः । शैल्ययं काशिकायां भोजस्य सरस्वतीकण्ठाभरणे चानुसुंता तथाऽन्यत्रापि यत्र निर्दिष्टा एवं प्रातिपदिकास्तत्र, गृह्यन्ते । तादृशसमूहानामादिप्रातिपदिकमाश्रित्य काश्वित्संज्ञा निदष्टाः यथा बाहुमाश्रित्य बाह्वादिगणः । अतन्तरवतकाले यदा/लाघवार्थं गणवत प्रातिपदिकस्थाने संज्ञानामेव ग्रहणमारब्धं यथा बाह्वादिभ्यश्च त्यादौ तदा - पृथग्गणपाठस्यावश्यकतोदगात् सूत्रेभ्यो धातुप्रातिपदिकादीनां पृथक्करणादेव सूत्राणां लघुपाठः सम्पद्यते समावेशेन वृद्धपाठः । तेनैव काशिकाश्रितो बृद्धपाठः ।

एतदपि पूर्वं प्रतिपादितं यत्पूर्वकाले सूत्रव्याख्यातार एवं धातुगणपाठादीनां प्रवक्तारोऽप्यासन्. व्याख्यावसरे तेषामुपस्थितेरपरिहार्यत्वात् । तेनैव पाणिनेः पूर्ववतनोऽपि ये ये सूत्रकारा आसंस्तैर्धातुगणपाठादयोऽपिः प्रोक्ता एव । तेषु गुरिः, शंतनुः, काशकृत्स्नः, आपिशलिश्च सूत्रकारत्वेन गणद्रवाचकत्वेन च प्रसिद्धाः । प्रातिशाख्येष्वपि कतिपयेषु गणशैली समवलम्बिताऽऽसीत् । संम्प्रति तु पाणिनीय एव गणपाठः सर्वातिशायित्वेन विरानते । गणपाठस्यापि वृद्धपाठलघुपाठयोरवस्थितिमधिवक्ति युधिष्ठिरमहाभागः । गणपाठस्य पाणिनीयत्वेऽपि धातुपाठवत् पण्डिता नैकमत्यं भजन्ते । विशेषतो न्यासकारो जिनेन्द्रबुद्धिगणपाठमपि अपाणिनीयं मन्यते यदा स कथयति -

प्रतिपादितं हि पूर्वं गणकारः पाणिनिर्न भवतीति । तथा चान्यो गणकरों ऽन्यश्च सूत्रकारः[४८] यद्यत्र (निजां त्रयणां गुणःश्लौ[४९] इति सूत्रे) त्रिग्रहणं क्रियते निजादीनामन्ते वृत्यकरणं किमर्थम् ? एतद् गणकारः द्रष्टव्यो न सूत्रकारः । अन्यो हि गणकारोऽन्यश्च सूत्रकारः इत्युक्त प्राक्[५०] इति ।

किन्त्वपरे विचक्षणा हि तं पाणिनीयमेव मन्यन्ते तस्य सूत्रैस्सह अपरिहार्य | सम्बन्धत्वात् । इदं पूर्वमेवोक्त यदाचार्यो व्याख्यानकाले शिष्यैः पृष्टगणान्तर्वति प्रातिपदिकान् निदिदेश यच्छिष्यैः संगृहीतं, परम्परयाऽधुनाऽपि लभ्यम् । गणपाठस्य पृथक्करणेन शब्दानुशासने लाघवं तु समापतितं किन्तु तेन वैयाकरणानामपि गणपठो विचारबाह्यः सञ्जातः ।, अर्थात्, तेन गणपाठस्य परम्परैव लुप्तप्राय सञ्जाता।

गणाश्च द्विविधाः नियतप्रातिपदिका आकृतिबोध्याश्च । नियतप्राति, पदिकास्त एव येषां सङ्ख्या यद्वा सूत्रे निदिष्टा भवति यथा पूर्वादिभ्यो नर्वेभ्यो वा,[५१] शमामष्टानां दीर्घः,[५२] किश्च पञ्चभ्यः[५३], जक्षित्यादयः षट्[५४] इत्यादिः यद्वा सीमित भवति यथा सर्वादीनि सर्वनामानि[५५] इत्यादौ । प्रातिपदिकानां समानप्रकृतिकत्वेऽपि यदा तेषां सङ्ख्या नितान्तमेव सीमिता भवति तदा ते सूत्र एवापि निर्दिष्टाः । सन्ति । यथा पूर्वेपरोऽधरदक्षिणोत्तराऽपराऽधराणि व्यवस्थायामसंज्ञायाम्[५६] इत्यादौ । येषाञ्च प्रातिपदिकानां सङ्ख्याऽपरिमिताऽस्ति ते हि आकृतिगणसंज्ञिताः। एवं त्रिविधा हिंगणाः सङ्ख्यातगणाः यथा पूर्वादिः। पठितगणाः यथा सर्वादिः आर्कतिगूणाः यथा शकन्वादिः । सूत्रेषु गणनिर्देशश्च संज्ञिशब्दानन्तरप्रयुक्त-आदि-प्रभृतिशब्दैः कुतोऽस्ति । यथाः सर्वादीनि सर्वनामानि[५७] इत्यत्र आदिपदेन, अदिप्रभृतिभ्यः शपः[५८] इत्यत्र प्रभृतिंशब्देन वा ‘साक्षात्प्रभृतीनि च[५९] इत्यत्रापि । तत्र आदिशब्दः सामीप्यव्यवस्थाप्रकारावयवार्थकः । पठितगणे प्रयुक्त आदिशब्दो ब्यवस्थाया, आकृतिगणे च प्रयुक्तः स एव प्रकारस्य बोधकः । यथोक्त महाभाष्ये-

'अयमादिशब्दोऽस्त्येव व्यवस्थायां वर्तते । तद्यथा देवदत्तादीनु समुपविष्टानाह-देवदत्तोदय आनीयन्तानिति । न उत्थाय आनीयन्ते ।'

अस्ति च प्रकारे वर्तते । तद्यथा देवदत्तादयः आटया अभिरूपा दर्शनीयाः पक्षवन्तः। देवदत्तप्रकारा इति गम्यते ।[६०] आकृतिगणे हि तेन । त्तपसिद्धिसाम्यदेव गणे प्रातिपदिकानां सन्निवेशः क्रियते । गणपाठश्च पठितगणे प्ररिसमाप्त्यर्थक-वृत्-शब्देन समाप्यते आकृतिगणे त न तथा । कुत्रचित्तु पठितगणेऽपि च शब्दयोगेन आकृतिगणश्च सुच्यते । यथोक्त न्यासे[६१] -

‘आकृतिगणश्च प्रवृद्धादिद्रष्टव्य इति । कुत एतत् ? आकृतिगणतां तस्य सूचयितुमनुक्तसमुच्चायार्थस्य चकारस्येह करणात् । इति । ‘चकारोऽनुक्तसमुच्चार्थः' इति ।[६२] पाणिनीयगणपाठे, हि षट्पञ्चाशदधिकद्विशतगणाः परिगणिताः सन्ति । पाणिनीयगणपाठस्यानेके व्याख्यातारश्च सन्ति तेषु पाणिनिनामपारायणकार - क्षीरस्वामि - गणपाठविवृतिकार - पुरुषोत्तमदेव - नारायणन्यायपञ्चाननयज्ञेश्वरभट्टप्रभृतयो नामतो गृह्यन्ते कथ्यन्ते च । तत्र हि पाणिनिहि भगवान सूत्रोपदेशकाले गणपाठं प्रोक्तवान्, तदैव विषमस्थले पाठस्य प्रातिपदिकानामपि व्याख्यानमकरोदिति तस्य गणपाठव्याख्यातृत्वम् । नद्यादिगण[६३] पठित-पूर्वनगरी-व्याख्यावसरे उक्तम् - केचित्पूर्वनगरी इति पठन्ति विच्छिद्य च प्रत्ययं कुर्वन्ति : पौरेयं वानेयं गैरेयमिति । तदुभयमपि दर्शनं प्रमाणम् । तत्र न्यासकारः कथयति -

उभयथाऽप्याचार्येण शिष्याणां प्रतिपादनात् ।

काशिकायो ‘वृत्तौ भाष्ये तथा धातुनामपारायणादिषु।। इति ।

कथनेन "यत्र धातुप्रक्रिया तद् धातुपारायणं, यत्र गणशब्दानां निर्वचनं । तन्नामपारायणम् ।” इति पदमञ्जरीवचनेन च धातुपारायणेन सह नामपारायणस्याप्यवस्थितिर्गम्यते किन्तु तत्स्वरूपकत्रदिविषये वयमितोऽधिकमनभिज्ञा एव । स च ग्रन्थः सुविस्तृत आसीदिति हेरदत्तस्य तौल्वल्यादिगणे[६४] - ‘परिक्षिष्टाः पारायणे द्रष्टव्याः इति वचनात् काशिकाकारस्य इति पारार्यणिका आह' इति वचनात् 'निदध्यतेऽनेनेति कृत्वा निदाघशब्दः साधुरिति, पारायणिकाः इति सुधांकरस्तदपाणिनीयम् ।' इति सांयणवचनाच्च प्रतीयते ।

महावैयाकरणेन क्षरिस्वामिना गणवृत्तिनामको ग्रन्थः प्रणीत आसीदिति सायणस्य माधववृत्तिकृतात् अत्र गणवृत्तौ' इत्युद्धरणाज्ञायते । अन्यश्चैको गणपाठविवृतिसंज्ञितो ग्रन्थोऽस्तीति युधिष्ठिरमीमांसकप्रमाऐन ज्ञायते । एवमेव भाषावृत्तिप्रणेत्री पुरुषोत्तमदेवेनापि गणवृत्तिनामकः कश्विद्ग्रन्थः प्रणीत आसीदिति च तत्प्रमाणेनैवावगम्यते । एवमेव नारायणन्यायपञ्चाननस्य ‘गणप्रकाशः आसीदित्यपि तत्प्रमाणत एव ज्ञायते । । यज्ञेश्वरभट्टस्य गणरत्नावली' गणपाठव्याख्यापरम्परायां चरमः सर्वोत्कृष्ट ग्रन्थः । यज्ञश्वरो हि ग्रन्थमिमं १९३० वैक्रमाब्देषु गतेषु प्रणिनाय । तस्यायं चरमः श्लोकः -

भट्टयज्ञेश्वरकृतो ग्रन्थोऽयं पूर्णतां गतः ।

शाके रसाङ्मुनिभूमिते मासे तपोऽभिधे ॥

प्रसङ्ग ऽस्मिन् , अज्ञातकतृ कः श्लोकगणः । अज्ञातकतृ का गणकारिका, गोवर्धनस्य गणसंग्रहः रामकृष्णस्य गुणपाठः, अनिर्णीतकर्तृ को गणपाठश्लोकः वर्धमानस्य गणरत्नमहोदधिश्च स्मर्तव्या ग्रन्थाः । तत्र गणरत्नमहोदधिरेव सम्प्रत्युपलब्धः । असौ हि ११९७ वैक्रमाब्देषु प्रणीत आसीदिति तत्रत्यपद्यत एव ज्ञायते । अत्र हि प्रायः सर्वेऽपि गणपाठ-प्रवाचकाः पाणिनिपूर्वा हेमचन्द्रपर्यन्ताः षोडश स्मृताः । पाणिनीयगणपाठो हि स्वरवैदिक़प्रक्रियातिरिक्त सर्व एवोद्धृतस्तत्र । गङ्गाधर-गोवर्धन-बालकृष्णा अस्य व्याख्यायकाः ।

परिभाषापाठः[सम्पादयतु]

मुख्यलेखः : परिभाषापाठः


प्ररिभाषा हि व्याकरणस्यापरिहार्यमङ्गम् । परिभाषा हि ‘अनियमे नियमकारिणी भवति । सा च त्रिविधा सूत्ररूपा, सूत्रज्ञापिता न्यायसिद्धा च । सा त्रिविधाऽपि द्वविधा लिङ्गवती विध्यङ्गशेषभूता च । एकदेशस्थिताऽपि समग्रशास्त्रप्रकाशिका लिङ्गवती आवश्यकस्थले तत्तद्विध्यङ्गरूपा विध्यङ्गशेषभूतेति । उक्तमेव -

“एकस्थः सविता देवो यथा विश्वप्रकाशकः

तथा लिङ्गवतीं शास्त्रमेकस्याऽपि प्रदीपयेत् ।।

एकाऽपि पुश्चली पुंसां यथैकैक प्रयाति च

विध्यङ्गशेषभूता तद्विधिं प्रत्यनुगच्छति ।।” इति ।

तच्च 'पाणिनीये शास्त्रे यथोद्देशं संज्ञा परिभाषे कार्यकालं संज्ञापरिभाषम्' इति वदन्ति ।।

सामान्यतश्चतुविधा हि परिभाषा सूत्ररूपा सूत्रज्ञापिता न्यायसिद्धा वाचनिका च। तत्र सूत्ररूपा हि सूत्ररूपेण शब्दानुशासने निबद्धा यथा षष्ठी स्थाने योगाः, अन्तादिवच्च, विप्रतिषेधे पर कार्यम् इत्यादिः । द्वितीया सूत्रेण ज्ञापिता यथा-व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् इत्यादिः, लौकिक * न्यायानुकूला न्यायसिद्धा यथा गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः, वाचनिका च। आचार्यविशेषवचनेसिद्धा ।

भाष्यकारवचनसिद्धा यथा--‘अन्तरङ्गबहिरङ्गयोरन्तरङ्ग बलवत्' इति । कचित्तू मिश्रिताऽपि भवति यस्या एकदेशस्तु सूत्रकारज्ञापितो भवति अन्य। देशश्च न्यायसिद्धः । यथा-‘सति, शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः । अस्या हि पूर्वभागस्तु न्यायसिद्ध एव उत्तरभागस्तु तस्यनुः-[६५] सूत्रज्ञापितः । तासु हि वाचनिका तु स्पेष्टमेव पश्चात्समावेशिता । यत्र ह्येतासामाश्रयणं विना न शास्त्रीयकार्यसिद्धिस्तत्रैता गत्यन्तरमपश्यद्भिराश्रीयन्ते । तद्विपरितं यत्रतासां समाश्रयणेन दोषः प्रत्युपपद्यते यत्रता न समाश्रीयन्ते इति तासामाश्रयणानाश्रयणसीमा । परिभाषा हि नैकस्य कस्यापि कृतिः किन्तु : तासां मूलन्तु प्राचीनसूत्राणि तद्वयाख्यानवचनान्येव । तेनैव पूर्वकाले या खलु परिभाषा वाचनिकाऽऽसीत्साऽपि पश्चातकाले सूत्ररूपाऽपि सम्पयेतः । सीरदेवः कथयति -

“परिभाषा हि नाम न साक्षात्पाणिनीयवचनानि । कि र्ताह ? नानाचार्याणाम् ।' इति ।

शब्दानुशासनव्याख्यातृभिः सर्वैरेव व्याख्याकाले सूत्राशयस्पष्टीकरणाय । वा सूत्रनिर्दिष्टकृत्यनिर्वाहाय यत्रावश्यकतोदैतं तंत्रविश्यमेव परिभाषाऽपि प्रोक्ता एव । तेन सर्वेऽपि सूत्रकाराः परिभाषा प्रवक्ता तेष्वपि काशकृत्स्नंव्याडि-पाणिनयो विशेषेण परिभाषाप्रवक्त्राचार्या मन्यन्ते। तत्रापि काशकृत्स्नप्रोक्तः परिभाषापाठस्तु सम्प्रति नोपलम्यते । तस्य हि चन्नवीरस्म॒ताः । सकृद्बाधितो विधिर्बाधित एब ‘इतिरूपा एकै व परिभाषा दृश्यते । व्याडिस्तु परिभाषाणां व्यवस्थितरूपेण सङ्ग्राहकत्वेन सर्वत्र स्मृतः । स च सङ्ग्रहकारो वाऽन्यः एवेति नैवाद्यापि स्पष्टम् । पाणिनिश्च परिभाषापाठस्य साक्षात्प्रवक्ता । तस्यापि परिभाषापाठस्य मूलरूपं तु नाद्यापि लभ्यते । तस्य हि कात्यायनपतज्जलिवचनरूपवाचनिकपरिभाषा योगसञ्जातमिश्रितरूपमेव दृश्यते । केचित्तु परिभाषा पाठमपि अपाणिनीयमेव मन्यन्ते । ते हि परिभाषाशब्देन वाचनिकपरिभाषामेव गृह्णन्ति । यथार्थस्तु तद्विपरीतमेव । परिभाषा हि पाणिनिपूर्व कालेऽप्यासन् स्वप्रकृतिकाः, पाणिनीकाले ऽप्यासन् स्वप्रकृतिकाः, तदुत्तरकालेऽपिः । सन्ति स्वप्रकृतिकाः । या हि खलु पाणिनेः पूर्वं वाचनिका आसंस्ता यथासम्भवं। भगवता सूत्रे एव समावेशिताः । पाणिनस्तु स्वसूत्रज्ञापिता न्यायसिद्धाश्र परिभाषा एव प्रोक्तवान् । तेनैववोक्त-परिभाषापाठः आचार्येण प्रोक्तो न त कृतः । यच्च परिभाषा नाम न साक्षात्पाणिनीयवचनानि' इत्युक्तं तस्यायमेवा शयो यत्परिभाषा हि दीर्घकालानुभवजनिता न तु सद्य एवं कृतेति । तानं न्यायासिद्ध एव । याश्व खलु पाणिनीयसूत्रज्ञापितास्तास्तु पाणिनीयवचना न्येव । अथवा प्रचलिता एवं परिभाषाः । स्वसूत्रानुकृलंभगवतः संस्कृत्य प्रोक्ता इति । पाणिनिप्रोक्तः परिभाषापाठोऽपि शिष्यैः संगृहीत आसीदिति परिभाषासूत्राणां कतिपये हस्तलेखे परिभाषासूत्राणि पाणिनिकृतानि ‘इति वचनादपि , सिध्यति । तथ्यमिदं युधिष्ठिरमहाभागेन स्वकीय संस्कृतव्याकरणशास्त्रेतिहासे[६६] स्पष्टीकृतमेव । अन्यत्र च इति व्याडिविरचिताः पाणिनीयपरिभाषाः समाप्ताः ‘इत्यपि लिखितं दृश्यते । अस्माकं चिन्तने त्वस्यायमेवाशयो यद्वयाडिना दाक्षीपुत्रवचोव्याख्यापाटुना पाणिनीयपरिभाषापाठस्यापि क्रमबद्धः कृत आसीदिति ।

परिभाषापाठस्य पञ्चविधाः पाठः सन्तीति युधिष्ठिरमहाभागो निदशति । तदसुसारेण प्रथमो हि पाठः त्रिणवतिसङ्ख्याकपरिभाषात्मको य ‘अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्, इत्यारभ्य ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं' इत्यत्र पर्यवस्यति । द्वितीयपाठे चत्वारिंशदधिकशतपरिभाषा सन्ति । स च ‘अर्थव“दुग्रहणे नानर्थकस्यापि ग्रहणम्' इत्यारभ्य ‘ज्ञापकसिद्धं न सर्वत्र' इत्यत्र समाप्नोति । अन्ते च पुष्पिकाऽपि इति ब्याडिविरचिताः पाणिनीयपरिभाषाः समाप्ता इति । तृतीयो हि पाठः पुरुषोत्तमदेवस्य परिभाषा समाप्ता इति । वृत्तिसम्बद्धः । अत्र हि ‘अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्' इत्याद्या ‘भवति| व्याख्नानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्' इत्यन्ताः विंशत्युत्तरशतमिताः परिभाषाः । अन्ते च 'इति पाणिनीयाचार्यविरचितानां परिभाषाणां लघुवृत्तिः सम्पूर्णा' इति । एषु हि समानेऽपि आरम्भिकपरिभाषापाठे पारिभाषाणां पौर्वापर्यक्रमे सङ्ख्यायाञ्च महदन्तरमस्ति ।

चतुर्थो हि पाठः सीरदेवस्य परिभाषावृत्तिसम्बद्धः । अत्र हि १३३ परिभाषाः सन्ति यत्र १०२ मिता ज्ञापकसिद्धाः शेषाश्च न्यायसिद्धां इति वृत्तिकारेण स्वयमेव। अतः परं न्यायमूलाः परिभाषाः । इति वचनेन सूचितम् । ' अत्र हि अष्टाध्यायीक्रमेणैव परिभाषाणामपि संयोजनमस्ति । ।

पञ्चमश्च पाठो नाशेशभट्टस्य परिभाषेन्दुशेखरेण सह सम्बद्धः । अत्र १३३९ |, सङ्घकपरिभाषाः प्राक्रियाभीष्टक्रमेण समावेशिताः सन्ति । तत्र हि 'व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्' इति प्रथमा परिभाषा ‘पदगौरवाद्योगविभागो गरीयान्' इति चरमा।

परिभाषापाठव्याख्यातृषु हरदत्त-पुरुषोत्तमदेव-सीरदेव-शेषविष्णु-नीलकण्ठभीम-वैद्यनाथ-हरिभाष्कर-धर्मसूरि-उदयशङ्कर-नागेशभट्ट-शेषाद्रिसुधी-रामप्रसाद । द्विर्वेदि-गोविन्दाचार्यः प्रभृतयः प्रसिद्धाः । हरदत्तस्य परिभाषाप्रकरणनामको ग्रन्थ आसीदिति पदमञ्जरी[६७] तो ज्ञायते । पुरुषोत्तमदेवस्य परिभाषावृत्तिः ज्ञापकसमुच्चयश्व, सीरदेवस्य परिभाषावृत्तिः यदुपरि श्रीमान्शर्मणो विजयाख्या व्याख्या, रामभद्रदीक्षितस्य रामभद्री व्याख्या वर्तते, नीलः कण्ठस्य परिभाषावृत्तिः, वैद्यनाथस्य परिभाषार्थसङ्ग्रहः यस्योपरि स्वयंप्रकाशीनन्दस्य चन्द्रिका अप्पयादीक्षितस्य सारबोधिनी च टीके,नागेशभट्टस्य परिभाषेन्दुशेखरो यदुपरि वैद्यनाथस्य गदाख्या, शिवरामस्य लक्ष्मीविलासः, विश्वनाथभट्टस्य चन्द्रिका, ब्रह्मानन्दस्य चित्प्रभा, राघवेन्द्राचार्यस्य त्रिपथगा, वेङ्कटेशपुत्रस्य त्रिपथगा, भैरवमिश्रस्य भैरवी, शेषशर्मणः सर्वमङ्गला, शङ्करभट्टस्य शङ्करी च टीकाः, , शेषाद्रिसुधियः परिभाषाभास्करः, रामप्रसादद्विवेदिनः सार्थपरिभाषापाठश्च प्रकरणेऽस्मिन् प्रसिद्धा ग्रन्थाः ।

लिङ्गानुशासनम्[सम्पादयतु]

मुख्यलेखः : लिङ्गानुशासनम्

संस्कृतभाषायां हि शब्दमाश्रित्य लिङ्ग प्रवर्तते । तत्र हि पत्नीवाचको - दारशब्दः पुंसि भवति कलत्रशब्दश्च क्लीवेऽपि । सुहृच्छब्दो नपुंसके भवति अमित्रशब्दश्च पुंसि । तेनैव तत्र लिङ्ग हि नामशब्दस्याविभाज्यमङ्गम् । तेनैव । लिङ्गानुशासनं हि तत्र शब्दानुशासनस्यापरिहार्यभङ्गमेव । तेनैव प्रायः सबैरेव । शब्दानुशासनप्रवक्तृभिःस्वस्वतन्त्रसम्बद्ध लिङ्गानुशासनमपि प्रोक्तमेव । कतिपयैः शब्दानुशासनासम्बद्धैरप्याचार्यैः लिङ्गानुशासनविषये ग्रन्थाश्च ग्रथिताः सन्ति । शन्तनु-व्याडि-पाणिनयः शब्दानुशासनसम्बद्धलिङ्गानुशासनप्रवक्तारः बररुचिहर्षवर्धनवामनाश्च केवलं लिङ्गानुशासनप्रवक्तार इति । प्राक्पाणिनीयलिङ्गानुशासनप्रवक्तृषु शन्तनुः स्वतन्त्रसम्बद्धलिङ्गानुशासनं । प्रोक्तवानिति ग्रंथान्तरैज्ञयते । व्याडेरपि लिङ्गानुशसानप्रवक्तृत्वं प्रसिद्धम् । किन्तु तस्यापि ग्रन्थस्तु । सम्प्रतिं नैवोपलब्धः । तस्य हि यत्किञ्चित्स्वरूपं ग्रन्थान्तरेम्यो ज्ञायते । यथाऽऽह वामनः -

व्याडिप्रणीतमथ वाररुचं सचान्द्र......।

हर्षवर्नधश्च--

व्याडेः शङ्कर-चन्द्रयोर्वररुविद्यानिधेः पाणिनेः

सूक्तान् लिङ्गविधी विचार्य सुगमं श्रीवर्धनस्यात्मजः । इति ।

तस्य लिङ्गानुशंसनं सूत्रबद्ध विस्तृतञ्चासींदिति वामनस्य “पूर्वाचार्याडिप्रमुखैलिङ्गानुशासनं सूत्रैरुक्त' ग्रन्थविस्तरेण च'' इति वचनाज्ज्ञायते ।

पाणिनिप्रोक्तमेव लिङ्गानुशासनं सम्प्रत्युपलभ्यते आर्षग्रन्थावशिष्टत्वेन । लिङ्गानुशासनस्य पाणिनीयत्वे केचन निष्प्रमाणां शङ्कामुपस्थापयन्ति, किन्तु । ‘अलिङ्ग युष्मदस्मदी' इति सूत्रस्य महाभाष्य : समुद्धरणात् 'अप्सुमनः । समासिकतावर्षाणां बहुत्वञ्चेति पाणिनीयं सूत्रम्' पदमञ्जयाँ स्मरणाच्च तस्य पाणिनीयत्वं सिद्धमेव । तस्य हि ‘लिङ्गम्' इति प्रथमं सूत्रम् ।

पाणिनीये हि व्याकरणे लिङ्गमाश्रित्य अनेकानि कार्याणि निर्दिष्टानि सन्ति । यथा ‘स्वमोर्नपुंसकात्',[६८] नपुंसकाच्च[६९] नपुंसकस्य झलचः,[७०] आङो नाऽस्त्रियाम्,[७१] यू स्त्र्याख्यौ नदी[७२] तस्माच्छसो नः पुंसि,[७३] इत्यादिः । यदाऽऽचार्य एतादृशानि सूत्राणि व्याख्यातवांस्तदा शिष्यैरवश्यमेव पृष्टं को विधिलिङ्गज्ञानायेति । तदा हयाचार्यों लिङ्गनुशासनं प्रोक्तवान् यच्च शिव्यैः संगृहीतं परम्परया प्रचलितञ्च । पाणिनीयं हि लिङ्गानुशासनं सूत्रबद्धमस्ति । तेन हि तज्ज्ञान|| सौकर्यायानेकैराचार्यैस्तच्च व्याख्यातम् । तादृशेषु लिङ्गानुशासनव्याख्यातृषु भट्टोत्पल-रामचन्द्र-भट्ठोजि-नारायणभट्ट-रामानन्द-नारायण-तारानाथ-प्रभृतय उल्लेखनीयाः सन्ति ।

प्रथमं तु भगवतां पाणिनिनैव शिष्यैः पृष्टो विषयस्थले प्रबोधसौकर्याय लिङ्गानुशासनं व्याख्यातमासीत् । तच्च शिष्यैः सङ्गृहीतम् । ततश्च तच्चादाय भट्टोत्पलाभिधेन विदुषा लिङ्गानुशासनोपरि काचिदवृत्तिलिखितेति ग्रंथान्तराज्ज्ञायते । प्रक्रियाकौमुदीकारेण रामचन्द्रेण तस्य व्याख्या कृताऽस्ति । भट्टोजिनाऽपि एका सिद्धान्तकौमुदी प्रसङ्ग ऽपरा च शब्दकौस्तुभप्रसङ्ग इति लिङ्गानुशासनस्य द्वे वृत्ती लिखिते स्तः । सिद्धान्तकौमुदीसम्बद्धवृत्युपरि भैरवमिश्रस्य टीका लभ्यते । एवञ्च तस्योपरि तारानाथभट्टाचार्यस्य विस्तृता व्याख्या लभ्यते ।

वाररुचं हि लिङ्गानुशासनमार्याच्छन्दसि गुम्फितमासीत् सुविस्तृतञ्चेति । वामनवचनाज्ज्ञायते । हर्षवर्धनेनापि लिङ्गानुशासनं ग्रंथितमस्ति यस्योपरि अनिर्णीतकतृका व्याख्याऽपि विद्यते । वामननामा केनचिद्विदुषाऽपि, त्रयत्रिशदायसु निबन्छ लिङ्गानुशासनं स्वोपज्ञवृत्तिसहितं प्रणीतमस्ति ।

उणादिसूत्राणि[सम्पादयतु]

मुख्यलेखः : उणादिसूत्राणि


उणादिसूत्राणामुपादेयत्वविषये पाणिनीयत्वापाणिनीत्वविषये च पण्डित नैकमत्यं भजन्ते । केचिदुणादिसूत्राणि पाणिनीयानि मन्यन्ते केचिदपाणिनीयान्यपि । एतद्विषये ग्रंथेऽस्मिन्नेवैकादशप्रकरणे विवेचना कृतैव । इतरशाब्दिक इव पाणिनिरपि सर्वानेव शब्दान् यौगिकान् मन्यते कामं तेषां योगिकत्वं कुत्रचिदज्ञेयमपि स्यात् । तादृशा हि अत्युत्पन्ना एवं शब्दा मताः । येषां सुस्पष्ट यौगि कंत्वं ते हि शब्दानुशासने व्याख्याताः । येषाञ्च यौगिकत्वं क्लिष्टं तेषा सिद्धये उणादिसूत्राणि, प्रोक्तानि । तानि च ‘उणादयो बहुलम्' इति सूत्रव्याख्यावसरे " के च ते उणादयः ? इति शिष्यैः पृष्ट आचार्यः पञ्चपादीनुक्तवान् यस्यां व्यव‘स्थितं स्वरूपमेव देशपादी। देशपादी पञ्चपाद्योंरयमेव भेदो यत्पञ्चपादी पञ्चसु । प्रादेषु विभुक्ता ७५९ सङ्ख्यकसूत्रात्मिका। देशपादी तु दशसु पादेषु विभक्ती तत्र पादक्रमेण १७७, १३, ७१,१०, ६४,८४,४७, १३२, १०७, २२ इति कृत्वा ७२७ सूत्राणि सन्ति । तत्रापि प्रथमद्वितीयपादयोरजन्तप्रत्ययविधानं तृतीयपादे कवर्गान्तप्रत्ययानां चतुर्थे चवर्गान्तानां,पञ्चमे टवर्गान्तानां षष्ठे तवर्गान्तानां, सप्तमे पवर्गान्तानां, अष्टमे यरलवान्तानां, नवमे शषसहान्तानां ।' प्रत्ययानां विधानं, दशमे प्रकीर्णशब्दानां विधानमस्ति । पञ्चाद्यां तु न तत्र व्यव. स्थितरूपेण प्रत्ययानां विधानम् । तेन पञ्चपाद्या व्यवस्थित पाठ एव दशपादी। देशपाद्यां हि कानिचन सूत्राणि त्यक्तानि कानिचन नवीननानि समावेशितानि | च। वैयाकरणेषु उभय एव पाठः समादृतो दृश्यते मुनिप्रोक्तत्वेन

कैयटनागेशवासुदेवश्वेतवनवासिनो यद्यपि उणादि शाकटायनप्रोक्तं मन्यन्ते तथापि नारायभट्टप्रभृतयस्तु त' पाणिनीयमेव मन्यन्ते । प्रक्रियासर्वस्वकारो नारायणभट्टः प्रक्रियासर्वस्वे उणादिस्थं मकुरदुरक्दुरौ[७४] सूत्रं व्याख्यान् कथयति-

अकारं मु कुरस्यादौ उकारं दद्रस्य च ।

बभाण पाणिनिस्तौ तु व्यत्ययेनाह भोजराट् ।। इति ।।

काशकृत्स्न शन्तनु-आपिशलिप्रोक्तानि उणादिसूत्राणि आसन्निति विषये न केषाञ्चिदपि विमतिः । विवादस्तु पञ्चपादी, दशपदी कर्तृत्वविषये एव वर्तते । केचित्कथयन्ति यत्पाणिनिह व्युत्पन्नाव्युत्पन्नभेदेन शब्दं द्विधा | मन्यते । व्युत्पन्नं हि यौगिकं अव्युत्पन्नं च रूढम् । यदि हि पाणिनिना उणादिपाठोऽपि प्रोक्तो भवेत्तदा अव्युत्पन्नशब्दस्य प्रश्न एव नैवोदेयात्, यथा हि शाकटायनः सर्वमेव शब्दं धातुजं मन्यते तन्मते एव उणादिप्रवृत्तिरिति । अपरे तदवमान्य कथयन्ति यच्छब्दो द्विधा व्युत्पनोऽव्युत्पन्नश्चेत्यस्य नीयमाशयो । यद्यौगिकः शब्दो व्युत्पन्नो रूढश्चाव्युत्पन्न इति । अस्य कथनस्य त्वयमाशयो यत् शब्दो नित्यस्तेन सोऽव्युत्पन्नः । स च नित्योऽपि शब्दः प्रकृतिप्रत्ययविभागेन -ज्ञानसौकर्याय यदा विविच्यते तदा स एव व्युत्पन्नो भवति ।

नित्यत्वपक्षे रामशब्दोऽव्युत्पन्नः प्रकृतिप्रत्ययविभागे तु स एव व्युत्पन्न इति । इदमपि चावधेयं यदुणादिपाठोऽपि कृदन्तस्यैवाङ्गम् । पुरा हि यदा -सर्वेऽपि शब्दा यौगिकत्वेन गृह्यन्ते स्म तदोणादिपाठः कृदन्त एवासीत् । पश्चाच्च यदा यदा शब्दस्य रूढत्वं प्रचलितं तदा तदा उणादिपाठो खिलपाठे निक्षिप्तः । रूढशब्दो हि उणादेविषयः । तेन पाणिनिहिं सर्वमपि शब्दं धातुजं नैव मन्यत इति बितर्क एव न तु सुतर्कः । सोऽपि शाकटायनादिवत् सर्वमेव शब्दं धातुजमेव मन्यते । तेन हि ये शब्दाः स्पष्टं प्रकृतिप्रत्ययविभागविषयतामागतास्ते हि कृदन्तप्रकरणे येषां च , प्रकृतिप्रत्ययविभागः क्लिष्टस्ते तु उणादिप्रकरणे निरूपिताः । तत्रापि ये नितान्तमेवास्पष्टमूलास्ते अव्युत्पन्नरूपे एव परित्यक्ताः । अतः उणादिपाठः पाणिनीयव्याकरणस्यापरिहार्य मङ्गम् ग्रन्थपञ्चके ठवन्यतममपि ।

उणादिसूत्राणि काममन्यैरपि प्रोक्तानि स्युः किन्तु सम्प्रत्युपलब्धा पञ्चपदी । दशपादी च पाणिनीया एवेति सिद्धमेव । पञ्चपाद्या दशपाद्याश्चानेकैविचक्षणैर्भाष्यवृत्तिटीकाटिपण्यः प्रणीताः सन्ति। तत्र पञ्चपादीमधिकृष्य केनचिदज्ञातनाम्ना विचक्षणेन भाष्यं प्रणीतमासीदिति उज्ज्वलदत्तवचनतो ज्ञायते । ततश्च गोवर्धन-दामोदर-पुरुषोत्तम-उज्ज्वलदत्तश्वेतवनवासि-भट्ठोजि-नारायभट्ट-महादेव-रामभट्ट-वेङ्कटेश्वर-नाराणसुधी, शिवराम-रामशर्मप्रभृतिभिस्तदुपरि व्याख्या प्रणीतास्ति । तासु हि उज्ज्वल दत्तस्य व्याख्या प्रामाणिकी सर्वसम्मता च । दशपादीमधिकृत्य मणिक्यदेवस्य वृत्तिः विठ्ठलार्यस्य व्याख्यां च प्रसिद्ध प्रामाणिक्यौ च । उणादिसूत्राणां द्वयोरपि पाठयोर्दशपदी व्यवहारानुकूला।

इत्थं हि सर्वाङ्गपूर्णं धातुपाठ-प्रातिपदिकपाठ-परिभाषापाठलिङ्गानुशासन उणादिसूत्रपाठेति पञ्चविधखिलपाठसमन्वितं पाणिनीयं हि शब्दानुशासनं स्ववैशिष्टयेन सर्वाण्यपि : शब्दानुशासनानि नितान्तमतिशेते इति नाश्चर्यम् । यस्य हि व्याडिकात्यायनपतांजलिजयादित्यसदृशविचक्षणा अनुमायिनस्तस्य ।। महामुनेरैश्वर्यं को नाम शब्दैः प्रकटयितुं प्रभवेदिति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. ७॥१॥२
  2. २।१७१
  3. ३।१।५५
  4. ७।२।७५
  5. ७।३।७४
  6. १।३।११
  7. १।३।७२
  8. ३॥३॥८८
  9. ३।३।८९
  10. ७३।५६
  11. ७॥१॥५८
  12. ८।२।४५
  13. ७॥२॥६२
  14. ७/२/१०
  15. ७/४/९३
  16. ६।१।६४
  17. ३।१।२२
  18. ७।२।१४
  19. ७/२।४४
  20. ७॥२॥२१६
  21. ७॥४॥२
  22. ३।३।१०४
  23. ७॥२॥१७
  24. १।३।१
  25. १।३।२
  26. १।३/१
  27. ३।१/८
  28. ३।१।१९
  29. २।१।१
  30. १।३।१
  31. १।३।१
  32. १।३।७
  33. १।३।६६
  34. ६।३।१२३
  35. १।३।१५
  36. १।३।२०
  37. १।३।२३
  38. १।३।४
  39. १॥३॥२५
  40. १।३।३३
  41. १।३।३८
  42. १।४।८७
  43. १/१/७
  44. १।२।२०
  45. १।३।१
  46. ४।४८८,९
  47. ४।६०३
  48. २/७/३
  49. ७/४/७६
  50. ७।४।७५
  51. ७।१।१६
  52. ७।३।७४
  53. ७/२/७५
  54. ६।१।६
  55. १।१।२७
  56. १/१/३४
  57. १।१।२७
  58. २।४।७२
  59. १।४।७४
  60. १।३।१
  61. ६॥२॥१४७
  62. ८।३।१००
  63. ४।२।९७
  64. २।४।६१
  65. ६।१।८६
  66. ३१२ पृष्ठे
  67. ६।१।३७
  68. ७।१।२३
  69. ७।१।१९
  70. ७/१/७२
  71. ७/३।१२०
  72. १।४।३
  73. ६/१/१०३
  74. १।४०