संगोल्लि रायण्णः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचयः[सम्पादयतु]

संगोल्लि रायण्णः महोदयः प्रसिद्धः स्वतन्त्र सेनानिः आसीत् । सः कर्णाटकस्य कित्तूरु राज्यस्य सेनाधिपतेः रूपे कार्यं निर्वाहितवान् । रायण्णः १७५८ तमे वर्षे आगास्त् मासस्य पञ्चादश तमे दिने उत्तरकर्णाटकस्य संगोल्लि ग्रामे जातः । सः कुरुब-गौडा समुदाये जन्मं प्राप्तवान् ।

क्रान्तिवीर संगोल्लि रायण्णः

स्वातन्त्रा संग्रामे योगदानां[सम्पादयतु]

नवदशतमे शतके यद आङ्ग्लदेशिकाः कित्तूरु राज्यस्य राणि चेन्नम्मा पीडयन्ति स्म तदा रायण्णः ग्रामस्थान् जनान् एकीकृत्य तेषां नायको भूत्वा परदेशीनां आङ्ग्लानां गृहान् अवदहति स्म, तेषां राजकोशान् चोरयति स्म च । ईदृशौः व्यवहारैः क्रोधिताः आङ्ग्ल जनाः तस्य तस्य बन्धूनां भूमीं सम्पदं च स्ववशं अकुर्वन् । राणिचेन्नम्मायाः सङ्ग्रामे रायण्ण महोदयः प्रमुखं पात्रं अवहन् । यदा सा राणी वीरगतिं प्राप्ता तदापि एषः वीरपुरुषः पराजयं न स्वीकारं अकरोत् ।

निगूडरूपेण निपुणतया च वारं वारं सः आङ्ग्ल सैनिकान् उपरि आक्रमणं कुर्वन् आसीत् । परन्तु विधिविपर्यासेन कस्यचित् द्रोहिणः सहायेन आङ्ग्लाः तं बन्धी कुर्वन्ति स्म । तेषां बन्धने एतेन शूरेण १८३१ तमे वर्षे जनवरि मासस्य २६ तमे दिवसे वीरस्वर्गं प्राप्तः । तस्य अन्तिमक्रया नन्दगड ग्रामे कृता ।


अद्यापि राणि चेन्नम्मायाः रायण्ण महोदयस्य च वीरगाया जनाः गानरूपे गायन्ति । रायण्ण महोदयस्य स्मरणे २०१५ तमे वर्षे कर्णाटक राज्यसर्वकारः बेङ्ग्लूरु नगरस्य रैल् स्थानकस्य नामं " क्रान्तिवीर संगोल्लि रायण्ण रैल्स्थानकं " इति नामतस् अकरोत् ।

क्रान्तिवीर संगोल्लि रायण्ण रैल्स्थानकं

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=संगोल्लि_रायण्णः&oldid=474638" इत्यस्माद् प्रतिप्राप्तम्