बलोचजनाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बलोचजनानां भौगोलिकविस्तारः (पाटलरङ्गे)
बलोचध्वजः
पारम्परिकं बलोच-पोशाकं धृतवती ओमान-प्रान्तस्य बलोच-बालिका
पारम्परिक-बलोच-महिलानां आभूषणानि

बलोच, बलौच उत बलूचजनाः दक्षिणपश्चिमीयस्य पाकिस्थानस्य बलोचिस्थान-प्रान्तस्य, ईरान-देशस्य सिस्थान व बलूचेस्थान-प्रान्ते निवस्यमाना जनजातौ अन्तर्भवन्ति। एते बलोचभाषां वदन्ति, या ईरानी-भाषा-परिवारस्य अस्ति, तत्र अति-प्राचीनायाः अवस्ताई-भाषायाः प्रभावः दृश्यते, या स्वयं वैदिकसंस्कृतस्य समीपवर्तिनी भाषा आसीत्। बलोच-जनाः वन्यसमूहेषु सङ्गठिताः भवन्ति। ते पर्वतीयक्षेत्रेषु, रणक्षेत्रेषु च निवसन्ति। तान् परितः विद्यमानेभ्यः समुदायेभ्यः तेषां परिचयः पूर्णतया भिन्नः विद्यते। ब्राहुई-नामकः कश्चन समुदायः अपि बलोच-जनजातेः मन्यते। परन्तु ते द्रविड-भाषापरिवारस्य ब्राहुई-नामक-भाषां वदन्ति।

२००९ वर्षे बलोच-जनानाम् आहत्य जनसङ्ख्या ९० लक्षं यावत् मन्यते स्म।[१][२][३] तेषु अनुमानतः ६०% पाकिस्थानस्य बलोचिस्थान-प्रान्ते, २५% ईरान-देशस्य सिस्थान-प्रान्ते एवञ्च बलूचेस्थान-प्रान्ते निवसन्ति।[४] पाकिस्थानस्य सिन्ध-प्रान्तस्य, पञ्जाबप्रान्तस्य दक्षिणीभागे अपि अनेके बलोच-जनजातिजनाः निवसन्ति। अफगानिस्थान-तुर्कमेनिस्थान-ओमान-बहरीन-कुवैत-अफ्रीका-देशानां केषुचित् भागेषु बलोच-जनाः प्राप्यन्ते। बलोच-जनाः मुख्यतया सुन्नी-इस्लाम-सम्प्रदायस्य अनुयायिनः भवन्ति। ईरान-देशे शिया-मुस्लिम-जनानां बहुमतम् अस्ति, अतः तत्र तेषां भिन्नः धार्मिकपरिचयः वर्तते।


मुख्यवन्यसमूहाः[सम्पादयतु]

बलोचजनजातेः केचन मुख्य-वन्यसमूहाः निम्नानुसारं सन्ति:

  • बुगटी (بگٹی‎): एषः बलोच-भाषी अस्ति। अत्र बलोचिस्थानस्य सर्वशक्तिशाली वन्यसमूहः मन्यते। एतस्य अनुमानित-सङ्ख्या ३ लक्षं यावत् अस्ति।
  • मर्री (مری‎): एषः बलोच-भाषी पाकिस्थानस्य बलोचिस्थानस्य कोहलू, सिबी, जाफराबाद, नसीराबाद इत्येतेषु जनपदेषु निवासं कुर्वन्ति। एतस्य सङ्ख्या २ लक्षं यावत् अनुमानिता वर्तते। एषः समूहः विभाजनवादिभ्यः विचारधाराभ्यः कठोरतया युद्धं कुर्वन्ति।
  • मेंगल (مینگل‎): एषः ब्राहुई-भाषी अस्ति, एतस्य समूहस्य विशलता द्वितीयस्थाने अस्ति। एषः बलोचिस्थानस्य चगइ, खुजदार, खारान इत्येतेषु जनपदेषु निवसति।
  • बिझेंजो (بزنجو‎): एषः बलोचिस्थानस्य अवारान-जनपदे निवसति। एतस्य समूहस्य गौस-बख्श-बिझंजो-नामकः बलोच-राष्ट्रवादी नेता प्रसिद्धः जातः आसीत्, यः १९७२-७३ मध्ये बलोचिस्थानस्य राज्यपालः अपि आसीत्।
  • लांगो (لانگو‎): एषः बलोचिस्थाने निवसन्ति। लांगो-वन्यजातौ प्राथमिकरूपेण बलोची-भाषा उच्यते। परन्तु अनेके ब्राहुई-भाषां द्वितीयभाषारूपेण वदन्ति।
  • बंगुलझई (بنگلزی‎): एषः ब्राहुई-भाषी वन्यजनसमूहः वर्तते। बलोचिस्थानस्य विशालसमूहेषु अन्तर्भवति च।
  • मझारी (مزاری‎): एषः बलोचिस्थानस्य अतीव प्राचीनः जनसमूहः मन्यते। "मझारी"-शब्दस्य अर्थः बलोचीभाषायां "सिंहः" भवति। एतस्य क्षेत्रं पञ्जाबप्रान्ते राजनपुर-जनपदे विद्यते, यः बलोचिस्थानस्य सीमावर्तिप्रदेशे वर्तते।
  • नुत्कानी (نتكانى‎): एषः बलोच-जनसमूहः शताब्दीभ्यः पूर्वं बलोचिस्थानात् स्थानान्तरणं कृत्वा पञ्जाब-प्रान्ते न्यवसत्।
  • लझारी (لغاري‎): पञ्जाबप्रान्ते, सिन्धप्रान्ते च एषः जनसमूहः प्राप्यते। एतेषु अनेके सिन्धी, पंजाबी, सिराइकी इत्येताः भाषाः वदन्ति, परन्तु तथाऽपि स्वबलोचत्वेन परिचयं रक्षयन्ति।
  • जट (جٹ‎): पञ्जाब (पश्चमीपञ्जाब), सिन्ध, बलूचिस्थान इत्येतेषु निवस्यमानः जट-बलोच-जनसमूहः वर्तते। एतेषु अनेके सिन्धी, पञअजाबी, बलूच, सिराइकी इत्येताः भाषाः वदन्ति।

परम्पराः[सम्पादयतु]

बलोच-पुरुषः शलवार-कमीझ-वस्त्रं धरते। एवञ्च बलोच-शरस्कम् अपि विशेषतया धरते। बलोचमहिला चोगे, लेहंगा इत्येत् वस्त्रं धरते। तस्मिन् सा बहुधा काचस्य खण्डेन कलाकृतिं करोति। महिला स्वस्य शिरसि "सरिग"-नामकं वस्त्रम् आच्छादयति। अत्र महिलासु आभूषणम् अपि अतीव लोकप्रियं वर्तते, मुख्यतया कर्णयोः "दोर"-नामकं भारयुक्तं कुण्डलं धरते। तत् मुख्यतया तनु-सुवर्णतन्तुना बद्धं भवति, येन भारेण कर्णयोः हानिः न भवेत्। महिला स्वस्य चोगे-वस्त्रं सम्मुखात् पिदधातुं "तसनी"-नामकस्य सुवर्णस्य आभूषणस्य उपयोगं करोति।

बलोचजनेषु धार्मिक-कट्टरवादः अतीव वर्तते। राष्ट्रीयतायाः भावना अपि अतीव प्रबला भवति। बलोचिस्थानस्य वासिनां ईरानी-देशस्य, पाकिस्थानदेशस्य च भागेभ्यः विभाजनात्मक-विद्रोहः कालान्तरे प्रचलति। ईरान-देशे शिया-सुन्नी-विभाजनत्वात् तेषु भिन्नतायाः भावना अस्ति। गायनं, वादनं च बलोच-संस्कृतेः अतीव महत्त्वपूर्णः भागः वर्तते। तत्र ढोलस्य प्रयोगः अधिकः दृश्यते। (तस्य बलोचिस्थानीयभाषायां दोहोल इति नाम वर्तते)।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यपरिसन्धिः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. Languages of Pakistan Archived २०११-०८-१६ at the Wayback Machine, Ethnologue.com.
  2. Languages of Iran Archived २०१३-०२-०३ at the Wayback Machine, Ethnologue.com . Retrieved June 7, 2006.
  3. Iran Archived २०१२-०१-३० at the Wayback Machine, Library of Congress, Country Profile . Retrieved December 5, 2009.
  4. Blood, Peter, ed. "Baloch" Archived २०१२-१२-१२ at archive.today. Pakistan: A Country Study. Washington: GPO for the Library of Congress, 1995.
"https://sa.wikipedia.org/w/index.php?title=बलोचजनाः&oldid=466047" इत्यस्माद् प्रतिप्राप्तम्